मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
14 मानमेयरहस्यश्लोकवार्तिके
साधने बाधने चापि न च तत्र बलाबलम् ।
कदाचिन्निश्चितं कैश्चित्तस्मान्मध्यस्थता वरम् ॥
इत्यन्यानन्यते तत्र स्तो न स्तश्चेति कीर्त्यते ।
इति तादात्म्यमिच्छन्ति कुमारिलमुखाः परे ॥
10 अनात्मवादिनः केचित्केचिदात्मैकवादिनः ।
अद्वैतवादिनः केचित्केचित्तु द्वैतवादिनः ॥
जीवैकवादिनः केचित्केचिद्ब्रह्मैकवादिनः ।
तादात्म्यवादिनः केचित्केचित्तद्भेदवादिनः ॥
स्याद्भावाभावयोरेवं कार्यकारणयोरपि ।
स्यान्नित्यानित्ययोश्चैवं तथा वै मानमेययोः ॥
स्याद्द्रव्याद्रव्ययोरेवं तथा वै धर्मधर्मिणोः ।
एषैव रीतिस्सर्वेषु चित्रा मानुषशेमुषी ॥
11 सदसत्सदसच्चेति यस्य पक्षो न विद्यते ।
उपालम्भश्चिरेणापि तस्य वक्तुं न शक्यते ॥
परस्परं मत्सरिणः प्रवादास्सकला अपि ।
इच्छन् सर्वत्राविशेषं आर्हतोऽपक्षपात्यसौ ॥
स्वसिद्धान्तव्यवस्थासु द्वैतिनो निश्चिता दृढम् ।
परस्परं विरुद्ध्यन्ते तैरयं न विरुध्यते ॥
एवं हि स्वस्वसिद्धान्तसमुत्कर्षं विदुः क्रमात् ।
सौगता आर्हताश्चापि तथौपनिषदा अपि ॥
चार्वाकदर्शनम्
एवं स्वीयोत्कर्षवादं सर्वे दार्शनिका विदुः ।
सर्वत्रैतादृशी रीतिरित्येषा दिक्प्रदर्शिता ॥
(5) चार्वाकदर्शनम्
1 तत्र लौकायतं लोकसिद्धं व्याख्यानपेक्षितम् ।
तथापि संगतिज्ञप्त्यै प्राचामुक्तिरनूद्यते ॥
लौकायतं शास्त्रमेव प्रमाणं सर्वथा मतम् ।
पुमर्थौ यत्रार्थकामौ प्रत्यक्षैकप्रमाणता ॥
प्रत्यक्षाल्लोकशब्दार्थादधिकं च तदायतम् ।
इति बार्हस्पत्यसूत्रभाष्यकृद्भिरुदीरितम् ॥
इति सर्वार्थसिद्धौ श्रीवेदान्तार्यैरनूदितम् ।
एतेन सूत्रभाष्यादिसंप्रदायोऽपि गम्यते ॥
2 तत्र चत्वारि भूतानि भूमिवार्यनलानिलाः ।
चतुर्भ्यः खलु भूतेभ्यः चैतन्यमुपजायते ॥
किण्वादिभ्यस्समेतेभ्यः द्रव्येभ्यो मदशक्तिवत् ।
अहं स्थूलः कृशो गौरः इति साक्षात्प्रतीतितः ॥
देहे स्थौल्यादियोगाच्च स एवात्मा न चापरः ।
बुद्धेश्च देहधर्मत्वे देहस्य क्षणिकत्वतः ॥
तस्या आशुविनाशोऽपि सम्यगेवोपपद्यते ।
बुद्धेर्नित्यात्मधर्मत्वे स्याद्बुद्धिरपि शाश्वती ॥
16 मानमेयरहस्यश्लोकवार्तिकें
बुद्ध्यन्तरेण नाशादिकल्पनं दुरुपद्रवम् ।
तथा बुद्धेर्गुणत्वं वा द्रव्यत्वं कैश्चिदिष्यते ॥
तद्भूतस्पन्दधीवादमसत्कर्तुमिति स्थितम् ।
आत्मनो द्रव्यता कैश्चिदिष्यते नित्यताऽऽप्तये ॥
पर्य्यायतस्त्वितरथा क्षणिको देहवद्भवेत् ।
नित्यसत्त्वा भवन्त्येके नित्यासत्त्वाश्च केचन ॥
विचित्राः केचिदित्यत्र तत्स्वभावो नियामकः ।
अग्निरुष्णो जलं शीतं समस्पर्शस्तथाऽनिलः ॥
केनेदं चित्रितं तस्मात् स्वभावात्तद्व्यवस्थितिः ।
तत्तथैव स्वीक्रियते यद्यथैव प्रतीयते ॥
प्रामाणिकं स्वरूपं यत् स्वभावस्स्यात्स एव हि ।
मृत्युरेवापवर्गस्स्यादिति वाचस्पतेर्मतम् ॥
न स्वर्गो नापवर्गो वा विद्यते पारलौकिकः ।
3 यदि गच्छेत्परं लोकं देहादेष विनिर्गतः ॥
कस्माद्भूयो न चायाति बन्धुस्नेहसमाकुलः ।
यावज्जीवं सुखं जीवेत् नास्ति मृत्योरगोचरः ॥
भस्मीभूतस्य देहस्य पुनरागमनं कुतः ।
यावज्जीवं चाग्निहोत्रं जुहुयादिति वै श्रुतिः ॥
ब्राह्मणस्य च देहोऽयं नोपभोगाय जायते ।
इह क्लेशाय महते प्रेत्यानन्तसुखाय च ॥
चार्वाकदर्शनम्
इत्यादि वचनं सर्वं स्मृतमास्थानिवृत्तये ।
शरीरमाद्यं धर्मस्य साधनं चापि कीर्तितम् ॥
महता पुण्यपण्येन क्रीतेयं कायर्नौस्त्वया ।
गन्तुं दुःखोदधेः पारं त्वर यावन्न भिद्यते ॥
आयुरारोग्यमैश्वर्यं योगाङ्गं चेति कीर्त्यते ।
अरोगदृढगात्रत्वं सुखमुत्साहकारणम् ॥
आत्मनां नित्यतायां तु नैवास्थायाः परिक्षयः ।
तस्माद्देहात्मसिद्धान्तः द्रुतं रागविभञ्जकः ॥
4 अभ्यास एव सर्वत्र सुखदुःखनियामकः ।
मनःप्रीतिकरः स्वर्गः नरकः तद्विपर्ययः ॥
देशकालदशाभिन्नस्वभावेन व्यवस्थितः ।
तस्यैव परिभाषेयं पापं पुण्यमिति द्विधा ॥
अग्नेश्शीतेन तोयस्य तृषा भक्तस्य च क्षुधा ।
क्रियते सुखकर्तृत्वं तद्विलोमस्य चेतरैः ॥
सुखाभावो दुःखमिति व्यवहारस्य गोचरः ।
आत्मा सुखे नियोक्तव्यः सुखभाजः प्रजाः स्मृताः॥
5 प्रकृतिं तद्विकारान्वा देहान्तान् ये तु मन्वते ।
आत्मानमिति ते ख्याताः तौष्टिका इति कापिलैः॥
पञ्चेन्द्रियविरक्तास्ते प्रकृत्यादौ लयं गताः ।
भवामेति च तानेव त्वात्मेत्येवमुपासते ॥
M.R. 3
18 मानमेयरहस्यश्लोकवार्तिके
तत्त्वाभ्यासान्नास्मि न मे किंचिदित्येव केवलम्
ज्ञानमुत्पद्यते पश्चात् स्वयं सह विनश्यति ॥
विज्ञानघन एवैभ्यो भूतेभ्यश्च समुत्थितः ।
तानेवानुविनश्येदित्येव ब्राह्मणदर्शनम् ॥
येयं प्रेत इति श्रौते वचने नायमित्यपि ।
अनादिर्विचिकित्सेति सिद्धान्तः गीष्पतेरसौ ॥
विवृतं बहुधा सत्त्वं चैतन्यं नास्ति किंचन ।
इति श्रुतिः वाक्यपद्व्य(ख्यायां समुदाहृता ॥
6 मज्जामस्थामथ प्लीहां यकृतां शकृतामपि ।
पूर्णाः स्नायुसिरास्यूताः प्रजाश्चर्मप्रसेविकाः ॥
मांसासृक्पूयविण्मूत्रस्नायुमज्जास्थिसंहतिः ।
देहः पटलपर्यन्तबिन्दुवत् क्षणभङ्गुरः ॥
सर्वाशुचिनिधानस्य कृतघ्नस्य विनाशिनः ।
शरीरकस्यापि कृते नराः पापानि कुर्वते ॥
यदि नामास्य देहस्य यदन्तस्तद्बहिर्भवेत् ।
दण्डमादाय लोकोऽयं शुनः काकांश्च वारयेत् ॥
दिवं स्पृशति भूमिं च शब्दः पुण्येन कर्मणा ।
यावत्स शब्दो भवति तावत्पुरुष उच्यते ॥
अकीर्तिर्यस्य कीर्त्येत लोके भूतस्य कस्य चित् ।
पतत्येवाधमान् लोकान् यावच्छब्दस्स कीर्त्यते ॥
सौगतदर्शनम्
नरः पतितकायोऽपि यशःकायेन जीवति ।
श्लोकार्धेन प्रवक्ष्यामि यदुक्तं ग्रन्थकोटिभिः ॥
परोपकारः पुण्याय पापाय परपीडनम् ।
इत्येव लक्षणं पुण्यपापयोस्सर्वसम्मतम् ॥
परश्शतैरेवमादिवचोभिरिह जीवता ।
आस्था निवर्तनीयाऽऽदौ आत्मन्याशुविनाशिनि
जगतामुपकाराय वर्तितव्यं कृतात्मना ।
इदमेव हि चार्वाकदर्शनं रागभञ्जकम् ॥
देहपर्यन्तात्मवाद इति तत्त्वविदो विदुः ।
7 स्थिरदेहविदोऽप्येके जीवन्मुक्तिं समाश्रिताः ।
ते रसेश्वरसिद्धान्तनिष्ठाः तद्धृदयं त्विदम् ॥
आकाशस्य स्थितिर्यावद्यावच्च जगतः स्थितिः ।
तावन्मम स्थितिर्भूयाज्जगत्पापानि निघ्नतः ॥
इति बुद्धेन कथितमिति भास्करभाषितम् ।
तत् स्थेयं पुरुषेणेह जगतामुपकुर्वता ॥
बाह्यं केवलमेतत्स्यात् बौद्धं केवलमान्तरम् ।
सिद्धान्तस्यास्य संक्षेपः तत्तदुक्त्या प्रकाश्यते ॥
(6) सौगतदर्शनम्.
1 आत्मग्रहो महामोहः प्रथमस्तन्निवृत्तितः ।
मम किं नाहमेवेति विरंस्यति ममग्रहः ॥
२० मानमेयरहस्यश्लोकवार्तिक
तस्मादादावहंकारममकारप्रहाणतः ।
नैरात्म्यदर्शनं सिद्धं निर्वाणद्वारमुत्तमम् ॥
आत्मा यद्यप्रतीत्य स्यात् क्लेशानां नैव संक्षयः ।
अतो नैरात्म्यसिद्धान्तः बौद्धानामिति निर्णयः ॥
२ दुःखं स्वलक्षणं शून्यं क्षणिकं सकलं जगत् ।
इत्येवं भावनां सत्यां सौगतास्समुपादिशन् ॥
अनुकूलं चानुगतं सत्यं स्थिरमिति भ्रमाः ।
पूर्वोक्तभावनाश्याः भवबन्धस्य हेतवः ॥
३ यस्मिन्नेव हि सन्ताने आहिता कर्मवासना ।
फलं तत्रैव बध्नाति कार्पासे रक्तता यथा ॥
कुसुमे बीजपूरादेः यल्लाक्षाद्युपसिच्यते ।
शक्तिराधीयते तत्र काचित्तां किं न पश्यसि ॥
सजातीयाः क्रमोत्पन्नाः प्रत्यासन्नाः परस्परम् ।
व्यक्तयस्तासु संतानः स चैक इति गीयते ॥
क्षणाभेदेऽपि तद्द्वारात्मकमासविभेदतः ।
धर्माः व्यवस्थिता यद्वत् तथा दुःखव्यवस्थितिः॥
४ रागादिज्ञानसंतानवासनोच्छेदसंभवा ।
चतुर्णामपि बौद्धानां मुक्तिरेषा प्रकीर्तिता ॥
माहायानिकनाम्ना च विश्रुता ये बुधोत्तमाः ।
ते माध्यमिकनाम्ना च प्रथिताश्शून्यवादिनः ॥
देशना लोकनाथानां सत्त्वाशयवशानुगाः ।
भिद्यन्ते बहुधा लोके उपायैर्बहुधा किल ॥
गम्भीरोत्तानभेदेन क्वचिच्चोभयलक्षणाः ।
भिन्ना हि देशना भिन्ना शून्यताऽद्वयलक्षणा ॥
द्वे सत्ये समुपाश्रित्य बुद्धानां धर्मदेशना ।
लोके संवृतिसत्यं च सत्यं च परमार्थतः ॥
5 चतुःप्रस्थानका बौद्धाः ख्याता वैभाषिकादयः ।
अर्थो ज्ञानान्वितो वैभाषिकेण बहुमन्यते ॥
सौत्रान्तिकेन प्रत्यक्षग्राह्योऽर्थो न बहिर्मतः ।
आकारसहिता बुद्धिर्योगाचारस्य सम्मता ॥
केवलां संविदं स्वस्थां मन्यन्ते मध्यमागमाः ।
प्रत्यक्षमनुमानं च प्रमाणद्वितयं विदुः ॥
6 दुःखं समुदयं चैव निरोधो मार्ग एव च ।
आर्यसत्याख्यया बौद्धं तत्त्वमस्ति चतुर्विधम् ॥
दुःखं प्रसिद्धं तन्मूलमपि तच्छब्दशब्दितम् ।
दुःखहेतुस्समुदयः यः प्रत्ययपदाभिधः ॥
निरोधो मुक्तिरेव स्यात् शुद्धज्ञानमहोदयः ।
मार्गो भावनया तत्त्वज्ञानं तद्धेतुरुच्यते ॥
यद्भास्करेण भाष्ये स्वे त्वार्यसत्यं विभागशः ।
निरूपितं तदप्यत्र विशदीक्रियते यथा ॥
22 मानमेयरहस्यश्लोकवार्तिके
आद्यं समुदयाख्यं स्यात् सर्वमुत्पत्तिमत् स्थितम्।
इति यन्निर्णयज्ञानं तदेव स्यात् स्वलक्षणम् ॥
क्षणिकं सर्वमिति यत् तन्निरोधाख्यमुच्यते ।
सर्वं दुःखमिति ज्ञानं दुःखसत्यं विनिश्चितम् ॥
सर्वं शून्यमिति ज्ञानं मार्गसत्यं निरात्मकम् ।
इति भावयतो रागहानौ नाशो ह्यहेतुकः ॥
प्रायश्शास्त्रं सर्वमपि चतुर्धैव विभज्यते ।
रोगस्तद्धेतुरारोग्यं तद्धेतुश्चेति वैद्यके ॥
भूतं च भौतिकं चैव चित्तं चैत्तं च कृत्स्नशः ।
उत्पाद्यं क्षणिकं दुःखं निस्स्वभावं निरूपितम् ॥
7 द्विधस्समुदयश्च स्यात् आद्यो हेतुनिबन्धनः ।
अनन्तरः प्रत्ययोपनिबन्धन इतीरितः ॥
यदिदं प्रत्ययफलमिति संक्षिप्तसूत्रणम् ।
तत्प्रतीत्यसमुत्पादलक्षणं बुद्धदेशितम् ॥
स प्रतीत्यसमुत्पादः बाह्यश्चाभ्यन्तरो द्विधः ।
भूतभौतिकमाद्यं स्यात् चित्तचैत्तमनन्तरम् ॥
भूतं प्रसिद्धं देहादिर्विषयो भौतिको मतः ।
पञ्चस्कन्धी चित्तचैत्तं तद्विभागोऽवगम्यताम् ॥
विज्ञानं वेदना संज्ञा संस्कारो रूपमेव च ।
प्रवृत्त्यालयविज्ञानधारा विज्ञानमुच्यते ॥
सौगतदर्शनम् 23
चित्तावस्था वेदना स्यात् सुखदुःखादिलक्षणा ।
शब्दसंसर्गयोग्यार्थभासः संज्ञेति कीर्त्यते ॥
रागद्वेषादिसंतानः संस्कारस्कन्धसंज्ञितः ।
रूपस्कन्धः सविषयाणीन्द्रियाण्युच्यते बुधैः ॥
8 द्विप्रतीत्यसमुत्पादे द्विधस्समुदयो मतः ।
बीजादङ्कुरपत्रादिफलपर्यन्तसन्ततौ ॥
नास्ति कस्यापि चैतन्यं नान्यो वाऽत्राधितिष्ठति ।
कार्यकारणभावस्य नियमो न न दृश्यते ॥
एष प्रतीत्योत्पादे स्याद्बाह्ये हेतुनिबन्धनः ।
अत्रैवायं प्रत्ययोपनिबन्धोऽप्यवगम्यताम् ॥
अङ्कुरो जायते बीजात् षड्धातुसमवायतः ।
ऋतुश्च पञ्च भूतानि षड्धातव इति स्मृताः ॥
संगृह्णाति क्षितिर्बीजं अङ्कुरः कठिनस्ततः ।
जलधातुः स्नेहयति तेजो बीजं पचेदपि ॥
वायुधातुर्निर्हरति निर्गच्छति ततोऽङ्कुरः ।
आकाशधातुर्बीजस्य त्वनावरणकृत्यकृत् ॥
ऋतुधातोः परीणामः प्रसिद्धोऽङ्कुरबीजयोः ।
नातिरिक्तश्चेतनोऽत्र यः स्यात्कारकचक्रगः ॥
9 एवमाध्यात्मिकेऽप्यूह्यः यस्स्याद्धेतुनिबन्धनः ।
अविद्यया हि संस्काराः रागद्वेषादिलक्षणाः ॥
24 मानमेयरहस्यश्लोकवार्तिके
जायते तैर्हि विज्ञानं नामरूपं ततो भवेत् ।
स्यात् षडायतनं तस्मात् स्पर्शस्तस्माद्भवेदपि ।
ततश्च वेदनातृष्णाभवजातिजरादयः ।
स्पष्टा रागादयस्तेभ्यः चित्ताभिज्वलनात्मकम् ॥
विज्ञानं तच्च गर्भस्थे चित्ते विषयसंजनम् ।
चित्तचैत्तात्मकं नामरूपं, आयतनं पुनः ॥
षडिन्द्रियाणि देहस्तु स्पर्शशब्देन कीर्त्यते ।
स्पृष्टे हि वेदनातृष्णे धर्मोऽधर्मो भवो मतः ॥
स्कन्धप्रादुर्भवो जातिः प्रसिद्धा हि जरादयः ।
तथाऽत्रैव प्रत्ययोपनिबन्धोऽप्यवगम्यताम् ॥
क्षित्यप्तेजोवायुनभोविज्ञानसमवायतः ।
कायस्य तत्र काठिन्यं पृथिवीधातुलक्षणम् ॥
अब्धातुस्तं स्नेहयति तेजोधातुः तनुस्थितम् ।
पीताशितं पाचयति वायुः श्वासयति त्वमुम् ॥
आकाशोऽन्तस्सुषिरकृत् विज्ञानं पुनरारभेत् ।
नामरूपाङ्कुरं तेन धातवस्सकला इमे ॥
उत्पादयन्ति सकलं कार्यं नात्रापि चेतनः ।
सोऽयं विज्ञानधातुर्यत्सकार्यं सास्रवं मनः ॥
आलम्बनं चाधिपतिः समनन्तर एव च ।
सहकारीति चत्वारः प्रत्ययाः ज्ञानहेतवः ॥
सौगतदर्शनम् 25
प्रत्ययांश्चतुरस्त्वेतान् प्रत्येत्योत्पत्तियोगतः ।
शब्दाद्या बाह्यविषयाः सुखाद्या आन्तरा मताः॥
तत्र नीलालम्बनतः चित्तं स्यान्नीललक्षणम् ।
चक्षुराद्याधिपत्येन प्रतिरूपव्यवस्थितिः ॥
अनन्तरप्रत्ययेन बोधरूपत्वमश्नुते ।
आलोकादिकसाहाय्यादन्धकारादिसंक्षयः ॥
अर्थसत्ताविवादेऽपि प्रक्रियेयं समा मता ।
चतुर्णामपि वै मन्दमध्यमोत्तमयायिनाम् ॥
यस्मिन् सति समुत्पादो यस्य तत्तस्य कारणम् ।
इत्याहुस्सौगताः यस्मिन् सत्येवेतीतरे विदुः ॥
कारणं द्विविधं हेतुः प्रत्ययश्चेति निश्चितम् ।
प्रधानकारणं हेतुः प्रत्ययास्सहकारिणः ॥
तृतीयमिति यत्प्राहुर्निमित्तं न्यायवादिनः ।
तद्बुद्धिमदधिष्ठानं तदेवैतैर्निषिध्यते ॥
10 यद्यपि क्षणिका भावाः कार्यकारणलक्षणाः ।
तथाप्यविद्याशक्त्यैव तत्सर्वमुपपद्यते ॥
सैषाऽविद्या स्थायिजातिसुखवस्तुत्वबुद्धयः ।
विशेषे क्षणिके दुःखे शून्येऽप्यर्थे स्वभावतः ॥
भवन्ति रागद्वेषाद्याः ताभिस्संस्कारलक्षणाः ।
ते सूक्ष्मं चित्तसंतानं मातृकुक्षिं नयन्ति तम् ॥
M.R. 4
८० मानमेयरहस्यश्लोकवार्तिके
स नीयते निराधारश्चापि देशान्तरं स्वयम् ।
ज्वालाबुद्बुदवद्वृत्तिरन्तरालेऽस्य सम्मता ॥
प्रतिक्षणं जायते यो दीपसंतानवत्सदा ।
स ग्राहकाभिमानेनारूढ आत्मेति कीर्त्यते ॥
गर्भं गतस्ततस्सोऽयं विज्ञानत्वं समश्रुते ।
चित्ताभिज्वलनं नाम, संसर्गो विषयैरसौ ॥
उत्तरोत्तरविज्ञानं स्थूलं चित्तमितीर्यते ।
सह तेनोत्पत्तिनाशभाजश्चैत्ता उदाहृताः ॥
स्पर्शश्च वेदना संज्ञा चेतना च वितर्कणा ।
विचारः प्रीतिरैकाग्र्यं श्रद्धा वीर्यं स्मृतिस्तथा ॥
प्रज्ञादयश्च धर्मा ये कुशलाकुशलात्मकाः ।
त एते चित्तचैत्तास्स्युः ये नामाख्या इतीरिताः ॥
ततः पृथिव्यादिरूपिद्रव्यं तत्पुञ्जलक्षणम् ।
ततस्त्विन्द्रियषट्कं स्यात् षडायतनसंज्ञितम् ॥
ततः स्पर्शाभिधः कायः ततः स्युः वेदना स्पृहा ।
उपादानं भवो जातिः जरा मरणमेव च ॥
शोकश्च परिवेदश्च दुःखं दौर्मनसं तथा ।
मदमानादयश्चोपक्लेशाः प्रादुर्भवन्त्यपि ॥
स्पृहा वाक्कायचेष्टा स्यात् धर्माधर्मौ भवो मतः ।
शुभाशुभा वासना सा चित्तसन्तानवर्तिनी ॥
सौगतदर्शनम् 27
तस्मादेतैर्मता चित्तवासना कर्मशब्दिता ।
स्कन्धप्रादुर्भवो जातिः अविद्यादिस्ततः पुनः ॥
अनादि चक्रमेतत्स्यात् संततं परिवर्तते ।
विच्छेदस्तस्य कर्तव्यः कुशलैरिह विद्यया ॥
प्राक्प्रतीत्यसमुत्पादे स्कन्धोत्पत्तिर्निरूपिता ।
प्रत्ययोत्पत्तिरपि च सैषा सौगतपद्धतिः ॥
सर्वं विवर्तं शून्यस्य मध्यमागमसम्मतम् ।
ज्ञानस्यैवायमाकारः योगाचारमतेऽखिलम् ॥
सौत्रान्तिकैरनुमितं बाह्यं क्षणिकमिष्यते ।
वैभाषिकमते बाह्यं प्रत्यक्षं क्षणभङ्गुरम् ॥
11 सर्वे स्वयंप्रकाशं तं ज्ञानमात्मानमभ्यधुः ।
स्वयंप्रकाशहीनस्य बाह्यस्योपासनं मतम् ॥
ज्ञानान्तरेणानुभवोऽनिष्टः तत्रापि च स्मृतेः ।
विषयान्तरसंचारः तथा न स्यात्स चेष्यते ॥
नान्योऽनुभाव्यो बुद्ध्याऽस्ति तस्या नानुभवोऽपरः
ग्राह्यग्राहकवैधुर्यात्स्वयं सैव प्रकाशते ॥
12 न सन्नासन्न सदसन्न चाप्यनुभयात्मकम् ।
चतुष्कोटिविनिर्मुक्तं तत्त्वं माध्यमिका विदुः ॥
इदं वस्तुबलायातं यद्वदन्ति विपश्चितः ।
यथायथार्थाश्चिन्त्यन्ते विशीर्यन्ते तथातथा ॥
28 मानमेयरहस्यश्लोकवार्तिके
रजतं न मया दृष्टमित्येवमुपलम्भनम् ।
निषेधविषयं स्वप्ने जागरे चानुभूयते ॥
द्रष्टृदर्शनसंसर्गाध्यासाधिष्ठानलक्षणे ।
समूहे कस्य वाऽसत्त्वं कस्य सत्त्वं विविच्यते ॥
अविशेषेण सर्वस्य निषेधोऽत्र विनिश्चितः ।
न चार्धजरतीयं चोचितं प्रेक्षावतां यथा ॥
न ह्येकभागः कुक्कुट्याः पाकाय प्रविभज्यताम् ।
प्रसवायापरो भागः कल्प्यतामिति कल्पते ॥
बुद्ध्या विविच्यमानायां स्वभावो नावधार्यते ।
अतो निरभिलप्यास्ते निःस्वभावाश्च दर्शिताः ॥
यः प्रतीत्यसमुत्पादः शून्यतां तां प्रचक्षते ।
सा प्रज्ञप्तिरुपादाय प्रतिपत्सैव मध्यमा ॥
पूर्वोपलम्भोपशमः प्रपञ्चोपशमाञ्शिवः ।
न क्वचित्कस्यचित्कश्चित् धर्मो बुद्धेन देशितः ॥
यो हेतुप्रत्ययापेक्षो भावोत्पादश्च कीर्त्यते ।
स प्रतीत्यसमुत्पादः नेश्वरात् न च कालतः ॥
नाणुभ्यो न स्वभावाच्च न वा प्रकृतितोऽपि च ।
अहेतोरेकहेतोर्वा विषमाद्वा न संभवः ॥
अप्रतीत्यास्तिता नास्ति कदाचित्कस्यचित्क्वचित् ।
न कदाचित्क्वचित्कश्चित् विद्यते तेन शाश्वतः ॥
सौगतदर्शनम्
भावानां निस्स्वभावानां न सत्ता विद्यते यतः।
सतीदमस्मिन् भवतीत्येतन्नैवोपपद्यते ॥
फलं च प्रत्ययमयं प्रत्ययाश्चास्वयंमयाः।
कथमस्वंमयेभ्यो यत् तत्प्रत्ययमयं कथम् ॥
पटः कारणतस्सिद्धः सिद्धं कारणमन्यतः।
सिद्धिर्यस्य स्वतो नास्ति तदसज्जनयेत्कथम् ॥
अनुत्पन्नोऽयमुत्पादः स्वात्मानं जनयेत्कथम्।
अथोत्पन्नो जनयति जातः किं जन्यते पुनः ॥
यः प्रतीत्यसमुत्पादं पश्यतीदं स पश्यति।
दुःखं समुदयं चैव निरोधं मार्गमेव च ॥
प्रपञ्चोपशमायैव शून्यता सोपदिश्यते।
तस्मात् प्रपञ्चोपशमः शून्यतायां प्रयोजनम् ॥
शून्यत्वं नास्तितारूपं भवांस्तु परिकल्पयन्।
प्रपञ्चं वर्धयन्नेव न च वेत्ति प्रयोजनम् ॥
अपरप्रत्ययं शान्तं प्रपञ्चैरप्रपञ्चितम्।
निर्विकल्पमनानार्थमेतत्तत्त्वस्य लक्षणम् ॥
प्रपञ्चविनिवृत्त्येकस्वभावा या च शून्यता।
तस्यां तु नास्तितादृष्टिरमलायां नयुज्यते ॥
यं चार्थं शून्यताशब्दस्समुपादाय वर्तते।
स प्रतीत्यसमुत्पादः मध्यमा प्रतिपत्तु सा ॥
30 मानमेयरहस्यश्लोकवार्तिके
आसीदसदेवेदमग्रे ततो वै सदजायत ।
इति छान्दोग्योपनिषद्ब्राह्मणं श्रूयते सदा ॥
इदं चापिहितं तुच्छेनेति ब्राह्मणदर्शनम् ।
यच्च तित्तिरिशाखायां तदप्यत्र समञ्जसम् ॥
आसीदिदं तमोभूतमित्याद्याः श्रुतयोऽपि च ।
स्मृतयश्चात्र सिद्धान्ते कटाक्षान् पातयन्ति हि
एवं माध्यमिकैकान्तः स माध्यमिकपूर्वके ।
वृत्तिग्रन्थे च सव्याख्ये पर्यष्कारीति निर्णयः ॥
13 अविभागोऽपि बुद्ध्यात्मा विपर्यासितदर्शनैः ।
ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते ॥
अवेद्यवेदकाकारा यथा भ्रान्तैर्निरीक्ष्यते ।
विभक्तलक्षणग्राह्यग्राहकाकारविप्लवा ॥
तथा कृतव्यवस्थेयं केशादिज्ञानभेदवत् ।
यदा तदा न संचोद्या ग्राह्यग्राहकलक्षणा ॥
अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिद्धयति ।
उपलम्भोपलम्भेन व्यवहारोऽखिलो मतः ॥
अन्यथा परकीयोपलम्भेनापि पुमानयम् ।
चेष्टेत तस्मात् स्वस्यैव स्वयमेवोपलभ्यते ॥
सहोपलम्भनियमादभेदो नीलतद्धियोः ।
भेदश्च भ्रान्तिविज्ञानैः दृश्येतेन्दाविवाद्वये ॥
सौगतदर्शनम् ३१
तत्स्यादालयविज्ञानं यद्भवेदहमास्पदम् ।
तत्तु प्रवृत्तिविज्ञानं यन्नीलादिकमुल्लिखेत् ॥
सवासनालयज्ञानानुवृत्तिः बन्ध इष्यते ।
विशुद्धालयविज्ञानसंततिर्मोक्ष ईरितः ॥
14 कल्पनापोढमभ्रान्तं प्रमाणं निर्विकल्पकम् ।
विकल्पोऽवस्तुनिर्भासादसंवादादुपप्लवः ॥
ग्राह्यं वस्तु प्रमाणं तु ग्रहणं निर्विकल्पकम् ।
न तद्वस्तु न तन्मानं शब्दलिङ्गेन्द्रियादिजम् ॥
विकल्पविषये वृत्तिरिष्टा शब्दानुमानयोः ।
अवस्तुविषयाश्चैते विकल्पा इति निर्णयः ॥
विकल्पोऽध्यवसायः स्यात् ग्रहणं निर्विकल्पकम्।
तस्मादध्यवसेयं च ग्राह्यं चेति द्विधं जगत् ॥
शब्दसंसर्गयोग्यार्थप्रतिभासा हि बुद्धयः ।
सविकल्पा भवन्त्येते व्यपदेशपदास्पदम् ॥
विकल्पयोनयश्शब्दाः विकल्पाश्शब्दयोनयः ।
कार्यकारणता तेषां नार्थं शब्दाः स्पृशन्त्यमी ॥
मानमेयफलानामध्येक्यं विज्ञानवादिनः ।
“अविभागोऽपी”ति विदुः निरालम्बनसिद्धये ॥
फलक्रियाकारकाणामैक्यं वैभाषिकादयः ।
“क्रियैव कारकम्” इति क्षणभङ्गाय चाश्रयन् ।
प्रत्यक्षवेद्यं यद्वस्तु विशेषः तत्स्वलक्षणम् ।
परोक्षवेद्यं यच्चापि तत्स्यात्सामान्यलक्षणम् ॥
सजातीयविजातीयव्यावृत्तं स्वत एव यत् ।
तत्स्वलक्षणमित्युक्तं विशेष इति निर्णयः ॥
यथा च पृथवी गन्धलक्षणा स्पर्शलक्षणम् ।
जलमित्यादिकं नैवं किंचित्स्यादन्यलक्षणम् ॥
धर्मधर्मिविभङ्गेन जात्यादेरपि भङ्गतः ।
नैव किंचित्त्वनुगतं यत्स्यात्सामान्यलक्षणम् ॥
अभिन्नदेशकालं यत् तत्स्वलक्षणमुच्यते ।
इति सर्वार्थसिद्धौ हि स्वलक्षणमनूदितम् ॥
सौत्रान्तिकाः पुनरिहापोहसामान्यवादिनः ।
स वादश्शून्यनिष्ठेति न्यायरत्नाकरोदितम् ॥
वात्सीपुत्रास्तु शब्दादीन् पञ्च वैभाषिका विदुः ।
शब्दात्मानश्चतुर्ष्वेव केचिदित्यपरेऽब्रुवन् ॥
निर्धर्मका निराधाराः रूपाद्यास्स्युः चतुर्विधाः ।
पदार्थास्ते चक्षुरादिप्रत्येकेन्द्रियगोचराः ॥
स्पर्शाद्येकद्वित्रिचतुःस्वभावाणुचतुष्कतः ।
पुञ्जः प्रपञ्चः संबन्धो नाम वस्तु न हीष्यते ॥
षट्केन युगपद्योगात्परमाणोष्षडंशता ।
तेषामप्येकदेशत्वे पिण्डः स्यादणुमात्रकः ॥
सौगतदर्शनम् 33
प्रतिसंख्याऽप्रतिसंख्यानिरोधौ व्योम चेति यत् ।
बुद्धिबोध्यं त्रयादन्यत्संस्कृतं क्षणिकं च तत् ॥
स निरन्वयनाशः स्याद्धर्मो धर्म्यपि वा पुनः ।
पूर्वसंघातभावो वा यद्भावे नानुवर्तते ॥
उत्पत्तिश्च तथाभूता निरन्वयसमुद्भवा ।
तावुभौ सर्वभावानां नियताविति सौगताः ॥
15 त्यज्यतां दीर्घसंसारकारणं स्थिरताग्रहः ।
गृह्यतां क्षणभङ्गित्त्वं परवैराग्यकारणम् ॥
यत्सत्तत् क्षणिकं सन्तश्चामी भावा इति स्थितम् ।
सत्ताऽर्थकर्मकारित्वं तत् व्याप्यं व्यापकः पुनः ॥
क्रमाक्रमान्यतरयोर्योगः स स्थिरवस्तुनः ।
व्यावर्तमानो व्याप्यं च विनिवर्तयतीत्यतः ॥
व्यतिरेकेण सा व्याप्तिः स्यात्तथाऽन्वयतः पुनः ।
सत्त्वं नानास्वभावत्वं स्थैर्यमेकस्वभावता ॥
तयोर्विरोधो युक्त्यापि वक्तुं न हि न शक्यते ।
एवं द्विधा व्याप्तियोगात् सत्त्वं साध्ये व्यवस्थितम् ॥
किंचात्र कारकावस्था स्यादेकक्षणवर्तिनी ।
सामग्री सा यतः कार्यसर्वदोत्पत्त्यदर्शनम् ॥
व्यापारावेशवशतः साह्यसन्निधितोऽपि वा ।
कारकत्वं वस्तुरूपं तदेकक्षणवृत्ति हि ॥
M.R. 5