मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 70, कुल 672 में से
संदर्भ में पढ़ें28 मानमेयरहस्यश्लोकवार्तिके
रजतं न मया दृष्टमित्येवमुपलम्भनम् ।
निषेधविषयं स्वप्ने जागरे चानुभूयते ॥
द्रष्टृदर्शनसंसर्गाध्यासाधिष्ठानलक्षणे ।
समूहे कस्य वाऽसत्त्वं कस्य सत्त्वं विविच्यते ॥
अविशेषेण सर्वस्य निषेधोऽत्र विनिश्चितः ।
न चार्धजरतीयं चोचितं प्रेक्षावतां यथा ॥
न ह्येकभागः कुक्कुट्याः पाकाय प्रविभज्यताम् ।
प्रसवायापरो भागः कल्प्यतामिति कल्पते ॥
बुद्ध्या विविच्यमानायां स्वभावो नावधार्यते ।
अतो निरभिलप्यास्ते निःस्वभावाश्च दर्शिताः ॥
यः प्रतीत्यसमुत्पादः शून्यतां तां प्रचक्षते ।
सा प्रज्ञप्तिरुपादाय प्रतिपत्सैव मध्यमा ॥
पूर्वोपलम्भोपशमः प्रपञ्चोपशमाञ्शिवः ।
न क्वचित्कस्यचित्कश्चित् धर्मो बुद्धेन देशितः ॥
यो हेतुप्रत्ययापेक्षो भावोत्पादश्च कीर्त्यते ।
स प्रतीत्यसमुत्पादः नेश्वरात् न च कालतः ॥
नाणुभ्यो न स्वभावाच्च न वा प्रकृतितोऽपि च ।
अहेतोरेकहेतोर्वा विषमाद्वा न संभवः ॥
अप्रतीत्यास्तिता नास्ति कदाचित्कस्यचित्क्वचित् ।
न कदाचित्क्वचित्कश्चित् विद्यते तेन शाश्वतः ॥