मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 68, कुल 672 में से
संदर्भ में पढ़ें८० मानमेयरहस्यश्लोकवार्तिके
स नीयते निराधारश्चापि देशान्तरं स्वयम् ।
ज्वालाबुद्बुदवद्वृत्तिरन्तरालेऽस्य सम्मता ॥
प्रतिक्षणं जायते यो दीपसंतानवत्सदा ।
स ग्राहकाभिमानेनारूढ आत्मेति कीर्त्यते ॥
गर्भं गतस्ततस्सोऽयं विज्ञानत्वं समश्रुते ।
चित्ताभिज्वलनं नाम, संसर्गो विषयैरसौ ॥
उत्तरोत्तरविज्ञानं स्थूलं चित्तमितीर्यते ।
सह तेनोत्पत्तिनाशभाजश्चैत्ता उदाहृताः ॥
स्पर्शश्च वेदना संज्ञा चेतना च वितर्कणा ।
विचारः प्रीतिरैकाग्र्यं श्रद्धा वीर्यं स्मृतिस्तथा ॥
प्रज्ञादयश्च धर्मा ये कुशलाकुशलात्मकाः ।
त एते चित्तचैत्तास्स्युः ये नामाख्या इतीरिताः ॥
ततः पृथिव्यादिरूपिद्रव्यं तत्पुञ्जलक्षणम् ।
ततस्त्विन्द्रियषट्कं स्यात् षडायतनसंज्ञितम् ॥
ततः स्पर्शाभिधः कायः ततः स्युः वेदना स्पृहा ।
उपादानं भवो जातिः जरा मरणमेव च ॥
शोकश्च परिवेदश्च दुःखं दौर्मनसं तथा ।
मदमानादयश्चोपक्लेशाः प्रादुर्भवन्त्यपि ॥
स्पृहा वाक्कायचेष्टा स्यात् धर्माधर्मौ भवो मतः ।
शुभाशुभा वासना सा चित्तसन्तानवर्तिनी ॥