मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 71, कुल 672 में से
संदर्भ में पढ़ेंसौगतदर्शनम्
भावानां निस्स्वभावानां न सत्ता विद्यते यतः।
सतीदमस्मिन् भवतीत्येतन्नैवोपपद्यते ॥
फलं च प्रत्ययमयं प्रत्ययाश्चास्वयंमयाः।
कथमस्वंमयेभ्यो यत् तत्प्रत्ययमयं कथम् ॥
पटः कारणतस्सिद्धः सिद्धं कारणमन्यतः।
सिद्धिर्यस्य स्वतो नास्ति तदसज्जनयेत्कथम् ॥
अनुत्पन्नोऽयमुत्पादः स्वात्मानं जनयेत्कथम्।
अथोत्पन्नो जनयति जातः किं जन्यते पुनः ॥
यः प्रतीत्यसमुत्पादं पश्यतीदं स पश्यति।
दुःखं समुदयं चैव निरोधं मार्गमेव च ॥
प्रपञ्चोपशमायैव शून्यता सोपदिश्यते।
तस्मात् प्रपञ्चोपशमः शून्यतायां प्रयोजनम् ॥
शून्यत्वं नास्तितारूपं भवांस्तु परिकल्पयन्।
प्रपञ्चं वर्धयन्नेव न च वेत्ति प्रयोजनम् ॥
अपरप्रत्ययं शान्तं प्रपञ्चैरप्रपञ्चितम्।
निर्विकल्पमनानार्थमेतत्तत्त्वस्य लक्षणम् ॥
प्रपञ्चविनिवृत्त्येकस्वभावा या च शून्यता।
तस्यां तु नास्तितादृष्टिरमलायां नयुज्यते ॥
यं चार्थं शून्यताशब्दस्समुपादाय वर्तते।
स प्रतीत्यसमुत्पादः मध्यमा प्रतिपत्तु सा ॥