मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
386 मानमेयरहस्यश्लोकवार्तिके
उद्देश्यतावच्छेदकव्यापकत्वं हि भासते ।
विधेयस्येत्येतदेव विवृतं नव्यतार्किकैः ॥
साध्येन साधनस्याथ व्याप्तिमन्थे प्रचक्षते ।
व्याप्तिरावृत्तिरेषा स्यादथवाऽधिकदेशता ॥
भूमौ प्रतिष्ठितो वह्निः धूमाग्रं व्योम्न्यवस्थितम् ।
व्याप्नोति कथमित्यत्र प्रत्यवस्थीयते परैः ॥
4 निरूपाधिकसम्बन्धो व्याप्तिरित्यपरे विदुः ।
उपाधिस्साधनाव्याप्तिसाध्यव्याप्त्यादिगर्भितः ॥
तत्रोपाधिव्याप्तिवस्तुनिर्णयेऽन्योन्यसंश्रयः ।
तत्रचेत्थं समाधानं परिशुद्धावुदीरितम् ॥
यो यावत्साध्यदेशस्थः न यावद्धेतुदेशगः ।
स उपाधिरिति ज्ञानान्न दोष इति निश्चितम् ॥
5 अन्तर्व्याप्तिः बहिर्व्याप्तिरिति व्याप्तिर्द्विधा मता ।
सिषाधयिषितव्यक्तिव्याप्तिरन्तरितीर्यते ॥
बहिः व्यक्त्यन्तरव्याप्तिरिति ह्यार्हतनिर्णयः ।
पक्षे व्याप्तिर्भवेदन्तः त्वन्यत्र बहिरिष्यते ॥
इति प्रमाणतत्त्वेऽपि विस्तृतं देवसूरिणा ।
विशेषव्याप्तिरन्तः स्यात् बहिसामान्यतो भवेत् ॥
वृथा विभाग इत्याहुः विबुधा न्यायवेदिनः ।
व्यतिरेकव्याप्तिबुद्ध्याऽप्यन्वयव्याप्तिरेव हि ॥
अवधार्येत सैव स्यादनुमाङ्गमितीतरे ।
इत्थं व्याप्तिविकल्पोऽयं संक्षेपादिह सूचितः ॥
6 अथ साधर्म्यवैधर्म्यविचारे किंचिदुच्यते ।
शाक्या वैधर्म्यवचनं पाक्षिकं नैव सेहिरे ॥
वैधर्म्यमेव वक्तव्यं सर्वदेत्यप्यवादिषुः ।
धूमत्वं नाम सामान्यं न वस्तु परमार्थतः ॥
अस्तु वाऽथापि साधर्म्यं न वक्तुमिह शक्यते ।
अशेषदेशकालेषु दुर्ग्रहः शिखिनोऽन्वयः ॥
विपक्षव्यतिरेकस्तु सुज्ञानः स्याददर्शनात् ।
सुकरं चैकदेशस्थैनैवानग्निष्वदर्शनम् ॥
तस्माद्धूमो ह्यनग्निभ्यो रिच्यमानोऽवबोधकः ।
अनग्निव्यावृत्तिमुखादग्नेरिह विनिश्चयः ॥
अतद्व्यावृत्तिविषयौ लिङ्गशब्दावतो मतौ ।
अत्र प्रत्युक्तिरेषा स्यादपोहश्लोकवार्तिकम् ॥
न चादर्शनमात्रेण ताभ्यां प्रत्यायनं भवेत् ।
सर्वत्रेव ह्यदृष्टत्वात्प्रत्याय्यं नावशिष्यते ॥
अस्य चायमभिप्रायस्संग्रहात्प्रतिपाद्यते ।
विपक्षादर्शनं त्वत्रादर्शनस्वनशब्दितम् ॥
प्रत्यायनं पुनरतद्व्यावृत्तिविषयं मतम् ।
तच्छब्दार्थौ लिङ्गशब्दौ तत्रापोहमतिः क्वचित् ।
388 मानमेयरहस्यश्लोकवार्तिके
अन्वयस्य सपक्षेऽपि विपक्षवददर्शनात् ।
द्वाभ्यां च व्यावृत्त एषः धूमस्संशयको भवेत् ॥
तथाचापोहहूपार्थो लोके नैव प्रसिद्ध्यति ।
अतोऽन्वयोऽप्यङ्गमिति स्वीकृतुमुचितं बुधैः ॥
अन्वयस्य क्वचिद्दृष्टौ ह्यतद्व्यावृत्तिनिश्चयः ।
यत्तु सर्वत्रान्वयोऽयं दुर्गहस्स्यादितीरितम् ॥
तत्तुल्यं व्यतिरेकेऽपि नैषोऽदर्शनमात्रतः ।
किन्तु दृश्यादर्शनात, एकदेशास्थितस्य तु ॥
न कदाचिद्धि सर्वत्र दृश्यादर्शनसंभवः ।
तेन सर्वत्रान्वयेऽथ व्यतिरेके च सर्वतः ॥
अविज्ञातेऽपि बहुशः साहित्यावगमात्पुनः ।
व्यभिचारादर्शनेन सनाथादनुमोदयः ॥
सर्वैरभ्युपगन्तव्यः एवं शब्देऽपि दृश्यताम् ।
तद्वस्तुविषयौ लिङ्गशब्दौ नापोहगोचरौ ॥
अपोहवार्तिकश्लोकभाव एवं निरूपितः ।
7 अन्वयव्यतिरेकी च तथा स्यात्केवलान्वयी ॥
केवलव्यतिरेकी च हेतुः व्याप्तिप्रभेदतः ।
अतस्त्रिधाऽनुमानं स्यादिति न्यायविदां मतम् ॥
कौमारिलाद्याः नेच्छन्ति हेतुं तं व्यतिरेकिणम् ।
तथा वादीन्द्रादयश्च नेच्छन्त्यन्वयिनं पुनः ॥
व्याप्तिः 38
अन्वयव्यतिरेक्येकहेतुमात्रविदस्ति चेत् ।
तृतीयश्शोभते पन्थाः स च द्वावपि दूषयेत् ॥
नैयायिकास्तु तान्सर्वान् दूषयेयुः महाधियः ।
अत्रायमभिसंधिस्स्यात् केवलव्यतिरेकिणः ॥
निरासे वेदविदुषां न्यायशुद्ध्यादिसूचितः ।
हैतुकास्साधयन्त्यत्र केवलव्यतिरेकिणा ॥
यद्यदिच्छन्ति तत्सर्वं स चादौ भज्यते यदि ।
त्र्यंशोऽवरोपितो भारो भवेद्धैतुकभञ्जने ॥
प्रमाणवादारम्भे च तद्विस्तर उदीरितः ।
साध्याप्रसिद्धिः वैषम्यं व्यर्थतोपनयस्य च ॥
अन्वयेनैव सिद्धिश्च व्यतिरेकिणि दूषणम् ।
तत्स्थाने ह्यभिषिञ्चन्ति पञ्चमीं प्रमितिं तु ते ॥
व्यतिरेकव्याप्तिबुद्ध्या साऽन्यथाऽकारि तार्किकैः ।
यच्चानुकूलतर्के सत्यप्रसिद्धविशेषणः ॥
न दोष इति भाषन्ते तार्किकाः तदसङ्गतम् ।
तर्को हि नाप्रसिद्धार्थं क्वचित्साधयितुं क्षमः ॥
अतोऽप्रसिद्धतादोषः तर्के सत्यपि दुस्त्यजः ।
केवलव्यतिरेकी च स क्वचिद्भावगोचरः ॥
अभावगोचरश्चेति द्विविधो विबुधैर्मतः ।
गौरिति व्यवहर्तव्य इति स्याद्भावगोचरः ॥
इतरेभ्यो भिद्यत इत्यभावाविशेषयो मतः ।
व्यावृत्तिर्व्यवहारश्च लक्षणस्य प्रयोजनम् ॥
इति व्यवहृतिः प्राचां विदुषां तन्निबन्धना ।
8 केवलान्वयिहेतुश्च सम्मतो न्यायवेदिभिः ॥
अत एवाविनाभावः दुर्ग्रहः तत्र कथ्यते ।
धर्मादयः प्रमेयत्वात् प्रत्यक्षाः कस्यचित्त्विति ॥
उदाहरन्ति न्यायज्ञाः केवलान्वयिनं क्वचित् ।
इदं वाच्यं ज्ञेयतयेत्यपि क्वापि प्रयुज्यते ॥
तद्दूषयति वादीन्द्रः समाधिस्तत्र हि श्रुतः ।
वाच्यत्वं ज्ञायते चैवं ज्ञेयत्वमभिधीयते ॥
विरोधो व्यक्तिभेदेन यथावदुपशाम्यति ।
वाच्यत्वेऽपि च वाच्यत्वं ज्ञेयत्वे ज्ञेयता तथा ॥
व्यक्तिभेदाद्विरोधस्य शान्तिः बीजाङ्कुरादिवत् ।
नात्माश्रयप्रसक्तिर्वा नान्योन्याश्रयताऽपि वा ॥
प्रमेयत्वाभिधेयत्वप्रसङ्गे इति निर्णयः ।
तथापि विफलं त्वेतदिति केचन जानते ॥
इदं प्रयोजनं ज्ञेयं तत्त्वमुक्ताकलापतः ।
यतो वाचो निवर्तन्त इति श्रुत्येकदेशिनाम् ॥
सद्विवर्तविदां मार्गनिरोधः प्रथमं फलम् ।
दुस्साधं क्वचिदप्येवमवाच्यत्वादि चेत्तदा ॥
अनुमेयवादः 391
किं पुनस्सर्ववचसां प्रतिष्ठा यत्र तत्रतु ।
9 महाविद्या नाम कश्चिद्धेतुः वादीन्द्रसम्मतः ॥
स केवलान्वयी यावत्सपक्षेषु स्थितो मतः ।
महाविद्यासूत्रकर्ता यः कुलार्काभिधो बुधः ॥
महाविद्याप्रवीणश्च शिवादित्याभिधो बुधः ।
तस्यास्ति किंचिद्व्याख्यानं महाविद्याविडम्बनम् ।
तस्य प्रणेता वादीन्द्रः यस्स्याच्छङ्करकिङ्करः ।
विवादाध्यासितं स्वस्वेतरवृत्तित्ववर्जितः ॥
यस्सकर्तृकनिष्ठस्स्यात्तस्याधिकरणं भवेत् ।
प्रमेयत्वात्कलशवत् इत्यादिः केवलान्वयी ॥
एतेन क्षित्यङ्कुरादेस्स्यात्सकर्तृकतेति च ।
तर्कानुकूल्यतस्तत्र बलाबलविनिर्णयः ॥
इति प्राचीनसिद्धान्ताः प्रायस्संगृह्य दर्शिताः ।
वेदान्तसूरिभिर्न्यायपरिशुद्धाविति स्थितम् ॥
(79) अनुमेयवादः.
1 न्यायवार्तिकतात्पर्यटीकायां कारिका इमाः ।
दिङ्नागकथिताः वाचस्पतिमिश्रैरुदाहृताः ॥
केचिद्धर्मान्तरं मेयं लिङ्गस्याव्यभिचारतः ।
संबन्धं केचिदिच्छन्ति सिद्धत्वाद्धर्मधर्मिणोः ॥
392 मानमेयरहस्यश्लोकवार्त्तिके
लिङ्गं धर्मे प्रसिद्धं चेत् किमन्यत्तेन मीयते ।
अथ धर्मिणि तस्यैव किमर्थं नानुमेयता ॥
संबन्धेऽपि द्वयं नास्ति षष्ठी श्रूयेत तद्वति ।
अवाच्योऽनुगृहीतत्वात् न चासौ लिङ्गसंगतः ॥
लिङ्गस्याव्यभिचारस्तु धर्मेणान्यत्र दृश्यते ।
तत्र प्रसिद्धं तद्युक्तं धर्मिणं गमयेदिति ॥
२ मीमांसकानां सिद्धान्ते त्वनुमेयमिदं मतम् ।
इदानीं पर्वते वह्निरस्तीत्यनुमितिः भवेत् ॥
देशकालानुरक्तस्य वह्नेः प्रागप्रसिद्धितः ।
सिद्धसाधनशङ्का तु वारितैवं कुमारिलैः ॥
पर्वतस्याग्निरस्तीति संबन्धोऽस्तीति वा तयोः ।
न हि प्रयुञ्जते धीराः संबन्धोऽतो न साध्यते ॥
तस्माद्धर्मविशिष्टस्य धर्मिणः स्यात् प्रमेयता ।
तत्र धर्मी धूम एव प्राच्यतार्किकसम्मता ॥
३ गुरुभिस्त्वन्यथा तत्र निर्णीतं तत्प्रदर्श्यते ।
व्याप्तिग्रहणवेलायां धूमवत्यखिले स्थले ॥
वह्निमत्ताऽस्तीतिबुद्धेः प्रकृते पर्वते पुनः ।
धूमवत्त्वं ग्रहीतव्यं नच तेजस्विता पुनः ॥
सा हि पूर्वगृहीतैव संस्कारात्स्मर्यते तदा ।
प्रत्युत्पन्ननिदानोत्था संगतिस्त्वनुमा ततः ॥
अनुमेयवादः 393
4 सामान्यव्याप्तिसहितपक्षधर्मत्वधीबलात् ।
सामान्ये पक्षनिष्ठत्वं विशेषः न्यायविन्मतः ॥
अनुमेयं च मत्त्वर्थः नान्यशब्दार्थ इत्यतः ।
संबन्धसाध्यतापक्षाक्षेपास्सर्वे निवारिताः ॥
तस्माल्लोकायिताशङ्काः सर्वा अप्याकुलीकृताः ।
इति नैयायिकैकान्तः विश्रुतस्सर्ववादिनाम् ॥
स एव प्रायशस्सर्वैः स्वीकृतो नव्यसूरिभिः ।
निरूढतर्कसंस्काराः सुधियः प्रथमं यतः ॥
5 यत्सिषाधयिषन्त्यत्र तार्किकाः परमेश्वरम् ।
तत्रानुमाने यत्किंचित्प्रसङ्गादिह कथ्यते ॥
प्राधान्येनानुमानं तु त्रिविधं हीशसाधनम् ।
कार्यालिङ्गकमाद्यं स्यात् द्वितीयं वेदलिङ्गकम् ॥
अदृष्टलिङ्गकं चान्यत् विस्तरः कुसुमाञ्जलौ ।
वेदलिङ्गकमेवोपदेशलिङ्गकमुच्यते ॥
विवादाध्यासितं ह्येतत्कार्यत्वात्स्यात्सकर्तृकम् ।
कादाचित्कत्वतः कार्यं सर्ववित्कर्तृपूर्वकम् ॥
अन्वयव्यतिरेक्याद्यं द्वितीयं व्यतिरेकवत् ।
वेदवाक्यं कर्तृपूर्वं वाक्यत्वाद्भारतादिवत् ॥
वेदस्सर्वज्ञप्रणीतः वेदत्वात् व्यतिरेक्यदः ।
अदृष्टं सकलं साक्षात्कर्तृधीमदधिष्ठितम् ॥
394 मानमेयरहस्यश्लोकवार्तिके
अचेतनत्वे च सति कार्यकारित्वतस्त्विति ।
अत्र दोषादोषचिन्ता प्रवृत्ता महती कथा ॥
(80) न्यायवादः.
1 प्रतिज्ञा चापदेशश्च तथैव च निदर्शनम् ।
तथैव चानुसंधानं प्रत्याम्नायश्च पञ्चमः ॥
2 इति प्रशस्तपादोक्तमथ पक्षिलभाषितम् ।
प्रतिज्ञा च तथा हेतुरुदाहरणमित्यपि ॥
तथैवोपनयश्चापि भवेन्निगमनं ततः ।
जिज्ञासा संशयश्चैव शक्यप्राप्तिः प्रयोजनम् ॥
व्युदासस्संशयस्येति दशान्येऽवयवान्विदुः ।
प्रमाणसामर्थ्यबुद्धिः शक्यप्राप्तिरितीर्यते ॥
परे तु पञ्चावयवान् प्रतिज्ञादीन् प्रचक्षते ।
न्यायः परप्रत्ययार्थः वाच्यं यावदपेक्षितम् ॥
पञ्चावयवसंयुक्तमित्याहुरिह केचन ।
अत्रचावयवव्यूहे प्रमाणानि परस्परम् ॥
संभूयसंदिग्धमर्थं साधयन्तीति भाषितम् ।
शब्दः प्रतिज्ञाऽनुमानं हेतुः प्रत्यक्षमेव तत् ॥
उदाहरणमत्रोपमानं चोपनयो मतः ।
सर्वेषामुपसंहारो भवेन्निगमनं पुनः ॥
न्यायवादः ३९५
३ स्वाभिप्रायानुसारेण परः प्रत्यायते परैः ।
तत्र स्वप्रतिपत्तिर्हि क्रमेणैवं प्रजायते ॥
प्रथमं पर्वतोऽध्यक्षः कथ्यते स प्रतिज्ञया।
ततो लिङ्गस्योपलब्ध्या हेतुना तन्निवेद्यते ॥
ततो व्याप्तिस्मृतिः साऽपि दृष्टान्तेनाभिधीयते ।
ततः परामर्शसिद्धिः स चोपनयवेदितः ॥
ततश्चानुमितिस्सैषा प्रोक्ता निगमनादिह ।
एवं च पञ्चावयवाः जयन्तेन निगुम्भिताः ॥
४ इति तार्किकसिद्धान्तं प्रायस्सर्वोऽनुमन्यते ।
अथ मीमांसकानां तु मते भेदः प्रदर्श्यते ॥
प्रतिज्ञया निगमनं हेतुनोपनयस्तथा ।
गतार्थ इति कः कुर्यात् पञ्चावयवघोषणाम् ॥
तदेवं पौनरुक्त्येन तथाऽध्याहारदोषतः ।
तर्कबौद्धमते हित्वा वयं त्र्यवयवे स्थिताः ॥
तत्तु पञ्चतयं केचित् द्वयमन्ये वयं त्रयम् ।
उदाहरणपर्यन्तं यद्बोद्राहरणादिकम् ॥
५ तथाचावयवद्वैधवादिभिस्सौगतैरिह ।
यत्सत्तत् क्षणिकं सन्तश्चामी भावा इतीर्यते ॥
तत्रोदाहरणं चोपनयश्चेति द्वयं मतम् ।
सूच्यन्ते नहि पाठ्यन्ते धीमन्तो वादिनः खलु ॥
396 मानमेयरहस्यश्लोकवार्त्तिके
पक्षस्य वचनं नाम प्रतिज्ञा स च दुर्वचः ।
ज्ञातव्ये पक्षधर्मत्वे पक्षो धर्म्यभिधीयते ॥
व्याप्तिकाले भवेद्धर्मः साध्यसिद्धौ पुनर्द्वयम् ।
तस्मान्नयाये प्रतिज्ञायाः प्रयोगो नेति जानते ॥
सपक्षः स्यात्समानोऽर्थः साध्यधर्मसहत्तवतः ।
सपक्षलक्षणं त्वेतद्दिङ्नागविबुधोदितम् ॥
अनुमेयेऽथ तत्तुल्ये सद्भावः नास्तिताऽसति ।
इत्येवं धर्मकीर्तेश्च सपक्षविषयं वचः ॥
एवं स्थितेऽपि कैश्चित्तु बौद्धैः क्षणिकवादिभिः ।
सपक्षलक्षणं साध्यधर्मवत्त्वमितीरितम् ॥
ततश्च पक्ष एव स्यात्सपक्ष इति तन्मतम् ।
सत्त्वेन क्षणभङ्गानुमाने सर्वसपक्षता ॥
ततश्च पक्षवचनमनपेक्षितमुच्यते ।
तत्तु सर्वैरपि परैः विबुधैः प्रतिषिद्ध्यते ॥
6 प्रतिज्ञा हेतुरिति च द्वयमेवार्हता विदुः ।
मन्दबुद्धिविवेकाय दृष्टान्ताद्यपि कुत्रचित् ॥
7 न च शक्यं प्रतिज्ञातुं पक्षो नास्तीति केवलम् ।
एतत्प्रतिज्ञावाक्यार्थे पक्षोपगमसंभवात् ॥
तस्य चानभ्युपगमे न हि पक्षो निषिद्ध्यते ।
न हेतुनिरपेक्षात्मा पक्षो नामास्ति कश्चन ॥
न्यायवादः ३९
प्रसाधयितुमिष्टो हि हेतुना पक्ष उच्यते ।
हेतुमात्रनिषेधोऽपि न च सर्वत्र शक्यते ॥
स्वप्रवृत्तिविरोधेन न कारकनिषेधनम् ।
ज्ञापकस्य निषेधस्तु व्यवहारविरोधकृत् ॥
न दृष्टान्तनिषेधोऽपि सर्वलोकविसम्मतेः ।
तत्पक्षहेतुदृष्टान्तमर्यादा सुप्रतिष्ठिता ॥
तथा न्यायनिरुक्त्याख्यवादेऽधिकरणात्मकः ।
न्यायो निरूप्यते चैवं नयोऽप्यार्हत उच्यते ॥
८ यो वादिप्रतिवादिभ्यां निश्चितस्साधनं तु तत् ।
इति दिङ्नागोक्तमतः नासत्यात्सत्यधीः क्वचित् ॥
येऽपि रेखादयो दृष्टाः वर्णानां प्रतिपादकाः ।
न ते स्वेनापि रूपेण परमार्थत्ववर्जिताः ॥
वर्णात्मना न सत्याश्चेत्सर्वभावेष्वयं विधिः ।
पदार्थान्तररूपेण न सत्यं किंचिदिष्यते ॥
हेत्वादीनां तु भवतः स्वरूपेणाप्यसत्यता ।
तेन बाष्पादिवत्तेषामुपायत्वं न लेख्यवत् ॥
नन्वसत्यपि बाह्येऽर्थे बुद्ध्यारूढेन सिद्ध्यति ।
वासनाशब्दभेदोत्थविकल्पप्रविभागतः ॥
न्यायविद्भिरिदं चोक्तं धर्मादौ बुद्धिमाश्रिते ।
व्यवहारोऽनुमानादेः कल्प्यते न बहिः स्थिते ॥
३९८ मानमेयरहस्यश्लोकवार्तिके
अस्तीदं वचनं तेषामिदं तत्र परीक्ष्यताम् ।
भेदोऽसतः कथं हि स्यात् बुद्धिशब्दप्रकल्पनात्
निर्वस्तुके कथंचस्यात्प्रसवो बुद्धिशब्दयोः ।
शब्दभेदोऽपि भवतः तदभावान्न सिद्ध्यति ॥
ननु यद्वन्मया हेतुः नेष्यते दूषणं तथा ।
तेन मे दूषणाभावात् अदुष्टं किं न साधनम् ॥
नेदानीं दूषणं कार्यं साधनाभावतो यदि ।
त्वयैवास्मदभिप्रेता स्वपक्षासिद्धिराश्रिता ॥
एवमादिवचोभेदैः निरालम्बनसाधनम् ।
दूषितं विस्तरेणेदं वीक्ष्यतां श्लोकवार्तिके ॥
असत्यात्सत्यधीयुक्तिं समालम्ब्य हि शाङ्करे ।
शारीरके जगन्मिथ्यावाद एष समर्थितः ॥
नन्वेकत्वैकान्तवादे नानात्वं न प्रसिद्ध्यति ।
प्रत्यक्षादिप्रमाणानि व्याहतानि भवन्ति हि ॥
तथा विधिप्रतीषेधशास्त्राण्यप्यफलानि च ।
मोक्षशास्त्रं तथा शिष्यशासित्रादि विहन्यते ॥
कथंवा सत्यमेकत्वमनृतादवगम्यते ।
अत्रोच्यते प्राक्प्रबोधात् सर्वं सत्स्वाप्नवत्ततः ॥
सर्वोपपत्तिरेकत्वं त्वसत्यादपि गम्यते ।
यथा शङ्काविषाद्धेतोर्मरणाद्युपजायते ॥
हेत्वाभासाः 399
रज्जुसर्पान्मृगजलाद्दंशनस्नानधीरपि ।
सत्याप्रबोधनिर्बाधा फलमप्युपलभ्यते ॥
शुभाशुभस्वप्नदृग्भ्यां सूच्येते साध्वसाधुनी ।
तथा सत्याक्षरज्ञानमस्ति रेखानृताक्षरात् ॥
देहात्मप्रत्ययो यद्वत्प्रमाणत्वेन कल्पितः ।
लौकिकं तद्वदेवेदं प्रमाणं त्वात्मनिश्चयात् ॥
इत्यादिः विस्तरो ज्ञेयः, तत्र श्रीभाष्यकृत्पुनः ।
असत्ये विषयेऽप्यत्र प्राह ज्ञानस्य सत्यताम् ॥
तेन ज्ञानेन सत्येन मता सर्वत्र सत्यधीः ।
सत्यादसत्यधीर्वा स्यान्नासत्यात्सत्यधीः क्वचित् ॥
सर्वस्यास्य विवादस्य निदानं वचनं पुनः ।
अनिर्वाच्यविचारे प्राक् धर्मकीर्तेरुदाहृतम् ॥
(81) हेत्वाभासाः.
1 अनुमेयेन संबद्धं प्रसिद्धं च तदन्विते ।
तदभावे च नास्त्येव तल्लिङ्गमनुमापकम् ॥
विपरीतमतो यत्स्यात् एकेन द्वितयेन वा ।
विरुद्धासिद्धसंदिग्धमलिङ्गं काश्यपोऽब्रवीत् ॥
इति प्रशस्तपादेन प्रोक्तं वैशेषिकं मतम् ।
अथ नैयायिकमते विश्वनाथस्य संग्रहः ॥
00 मानमेयरहस्यश्लोकवार्तिके
२ अनेकान्तो विरुद्धश्चाप्यसिद्धः प्रतिपक्षितः ।
कालात्ययापदिष्टश्च हेत्वाभासास्तु पञ्चधा ॥
आद्यस्साधारणस्तु स्यादसाधारणोऽपरः ।
तथैवानुपसंहारी त्रिधाऽनैकान्तिको भवेत् ॥
यस्सपक्षे विपक्षे च भवेत्साधारणस्तु सः ।
यस्तूभयस्माद्व्यावृत्तः स चासाधारणो मतः ॥
तथैवानुपसंहारी केवलान्वयिसाध्यकः ।
यस्साध्यवति नैवास्ति स विरुद्ध उदाहृतः ॥
आश्रयासिद्धिराद्या स्यात् स्वरूपासिद्धिरप्यथ ।
व्याप्यत्वासिद्धिरपरा स्यादसिद्धिरतः त्रिधा ॥
विरुद्धयोः परामर्शो हेत्वोस्सत्प्रतिपक्षता ।
साध्यशून्यो यत्र पक्षः त्वसौ बाध उदाहृतः ॥
३ असिद्धिश्च विरुद्धश्चानैकान्तिक इति त्रयः ।
हेत्वाभासा इति प्राहुरार्हता अपि कोविदाः ॥
यस्संदिग्धविपक्षस्स्यात् स त्वनैकान्तिको मतः ।
बाधादिरप्यसिद्ध्यादावन्तर्भावमिहार्हति ॥
प्रमाणानां स्वरूपेण संख्यया विषयेण च ।
फलेन च चतुष्पात्त्वं आभासस्तद्विपर्ययः ॥
४ प्रत्यक्षादिप्रमाणानामाभासस्यापि दर्शनात् ।
हेत्वाभासस्य चैकस्य ग्रहणं चोपलक्षणम् ॥
हेत्वाभासाः 4
5 अनुमानाभास एव साध्याभासादिसंभवात् ।
सोऽपि ग्राह्य इति प्राहुरपरे विबुधोत्तमाः ॥
6 समासमाविनाभावावेकत्र स्तो यदा तदा ।
समेन यदि नो व्याप्तस्तयोर्हीनोऽप्रयोजकः ॥
विपक्षे बाधकाभावादुपाधेर्वाऽपि संभवात् ।
हेत्वाभासोऽन्यथासिद्धयन् अप्रयोजक इष्यते ॥
संदिग्धनैकान्तिकस्स्यादप्रयोजक इत्यपि ।
सौगतोक्तिरयुक्ता यदसिद्धेरुपजीव्यता ॥
7 स्वेनैव स्वस्य रोधश्चेत्स्वव्याघातो ननूच्यते ।
स्वस्य सिद्धावासिद्धौ वा विरोधः किं करिष्यति।
अत्रोच्यते या हि युक्तिः परपक्षापनुत्तये ।
उपात्ता तत्सजातीया स्वपक्षं चेत्प्रतिक्षिपेत् ॥
तादृश्या परपक्षस्य नच दोषः प्रसज्यते ।
स्वपक्ष एव दुष्टस्स्यादिति दूषकतोदिता ॥
दुष्टस्यापिच यद्यस्ति दूषकत्वं तदा भुवि ।
नित्यं स्यात्कलहः मौनं शरणं वाऽथ वादिनाम्।
8 सर्वं बाधितमेवास्तु वादिनामिति नैव सत् ।
बाधस्य बाधेऽबाधेऽपि सर्वाबाधोऽवतिष्ठते ॥
विचारो वस्तुरूपश्चेत्किं सिद्धयेत्सर्वशून्यता ।
विचारोऽवस्तुरूपश्चेदपि नो सर्वशून्यता ॥
M.R. 51
402 मानमेयरहस्यश्लोकवार्तिके
9 मीमांसकानां सिद्धान्ते त्वथाभासो निरूप्यते ।
दोषोऽनुमाने द्विविधः प्रतिज्ञाहेतुभेदतः ॥
त्रिधा प्रतिज्ञादोषस्स्यात् स्ववाग्विहतिलक्षणः ।
वन्ध्या मे जननीत्येवं सर्वं वाक्यं मृषेत्यपि ॥
यावज्जीवमहं मौनी धर्मिधर्मोक्तिरोधतः ।
असिद्धिश्चाप्यनैकान्तिकत्वं बाधकतेति च ॥
हेतुदोषस्त्रिधा ख्यातः पञ्चधाऽसिद्धिरुच्यते ।
स्वरूपासिद्धिसंबन्धासिद्धी च व्यतिरेकतः ॥
असिद्धिराश्रयासिद्धिः व्याप्त्यसिद्धिश्च पञ्चमी ।
शशशृङ्गादिहेतुत्वे स्वरूपासिद्धिरुच्यते ॥
पक्षावृत्तेस्तु हेतुत्वे संबन्धासिद्धिरुच्यते ।
व्यतिरेकासिद्धिरेषा हेतुः पक्षात्मको यदि ॥
आश्रयासिद्धिरत्र स्यान्नचेत्पक्षः प्रसिद्धयति ।
भिन्नाधारे साध्यहेत्वोः व्याप्यत्वासिद्धिसंभवः ॥
द्विधाऽनैकान्तिकत्वं स्याद्धेतुदोषोऽप्यनन्तरः ।
आद्यं सव्यभिचारं स्यात् परं सप्रतिसाधनम् ॥
बाधकत्वं विरुद्धत्वं तृतीयो दोष इष्यते ।
10 भाट्टानां संशयोभीष्टः फलं सप्रतिसाधने ॥
गुरूणां तादृशो दोषः नेष्टः वस्तुविरोधतः ।
नहि वस्तु विकल्प्येत न विरुद्धसमुच्चयः ॥
एतेन वस्तुनो नानाकारता भाट्टसम्मता ।
सोऽनेकान्तो वाद इति गुरुभिस्त्वधरीकृतः ॥
अतएवानित्यदोषं प्राहुर्नैयायिका अपि ।
रत्नकोशकृतोऽप्यत्र विदुस्संशयहेतुताम् ॥
असाधारणदोषस्य शाक्यास्संशयहेतुताम् ।
वदन्ति तच्चानुमतं दूषितं च कुमारिलैः ॥
11 विरुद्धव्यभिचारीति केचिज्जात्यन्तरं विदुः ।
साधारणविशेषं तं प्राहुः केचन सूरयः ॥
असाधारणमित्यन्ये प्रतिपक्षं परे विदुः ।
यथा परोदितैरेव पक्षहेतुनिदर्शनैः ॥
विरुद्धसाधने तत्र विरुद्धव्यभिचारिता ।
सर्वसत्प्रतिपक्षाणां विरुद्धव्यभिचारिताम् ॥
कदाचिदूचुराचार्याः समासरुचयो बुधाः ।
12 पक्षेण व्यभिचारस्य चोदना शाक्यसम्मता ॥
संदिग्धानैकान्तिकता सोच्यते, नान्यसम्मता ।
अनुमानस्य चोच्छित्तिस्तादृग्दोषानुधावने ॥
13 स व्यधिकरणासिद्धः हेतुः पक्षेतरस्थितः ।
इत्याहुरपरे सोऽपि संबन्धासिद्धिमान् भवेत् ॥
14 असाधारण एवायमनध्यवसिताभिधः ।
हेत्वाभासान्तरमिति भूषणन्यायसम्मतः ॥
भासर्वज्ञादयो न्यायसारादाविममाश्रिताः ।
पन्थानमिति विज्ञेयं मानमेयोदयादितः ॥
सर्वोदाहरणं न्यायमञ्जर्यादिषु विश्रुतम् ।
पश्यन्त्वपेक्षावन्तश्चेदयं दिङ्मात्रसूचकः ॥
(82) कथा.
1 एकाधिकरणौ धर्मौ तुल्यकालौ विरोधिनौ ।
पृथक्परिग्रहौ पक्षप्रतिपक्षावुदीरितौ ॥
परस्परविरुद्धार्थवादिनोर्हि विवादिनोः ।
व्यवहारः कथेत्युक्तः सा कथा त्रिविधा मता ॥
वादजल्पवितण्डाभिः तत्स्वरूपं पुनस्त्विदम् ।
वीतरागकथा वादः विजिगीषुकथा परः ॥
वितण्डा स्थापनाहीना परपक्षैकदूषणम् ।
प्रतिज्ञा साधनं चैव दूषणं च विनिर्णयः ॥
व्यवहारश्चतुष्पादः लोकवच्चैव निर्णयः ।
सर्वथा सदुपायानां वादमार्गः प्रवर्तते ॥
2 अधिकारोऽनुपायत्वान्न वादे शून्यवादिनः ।
इति सत्यविदः प्राहुः, आद्यो वादस्स खण्डने ।
यदि शून्यविदं वादानधिकारं वदेत्सुधीः ।
तस्मिन्नेव विवादेनाधिकारं दित्सति स्वयम् ॥
[Header] कथा 40
यदि शून्यविदन्यं प्रत्याहानाधिकृतिं सुधीः ।
तस्य चाप्रतिवादित्वात् निग्रहस्थानमेव तत् ॥
अत्रोत्तरं पुनरिदं ते वादानधिकारिणः ।
इत्यन्तेवसतां सोऽयमुपदेशो भवेदिति ॥
कथानधिकारवाचा निष्प्रयोजनतोदिता ।
इति मार्गान्तरं न्यायपरिशुद्धावुदीरितम् ॥
प्रयोजनानुयोगेन वितण्डावादिनिग्रहः ।
वात्स्यायनोदितः सोऽध्वा विद्वद्भिरनुगम्यते ॥
विस्तरश्शतदूषण्यां वेदान्ताचार्यसूरिभिः ।
कृतः कथाऽनधिकारवादे नावमिके पुनः ॥
3 वादेषु नियमा एते कल्प्यन्ते प्रौढिसिद्धये ।
अदन्त्यो वा निरोष्ठ्यो वा लुङ्प्रयोगोऽथवा तथा
यङ्प्रयोगो यक्प्रयोगः इत्यादिश्शब्दगोचरः ।
अनुमानेनैव तथा शब्देनैव तथेति वा ॥
वैदिकेनागमेनैवेत्येवं मानव्यवस्थितिः ।
छलजात्यादयोऽप्येवं निग्रहस्थानलक्षणाः ॥
कक्ष्यादिनियमाश्चापि न्यायशास्त्रे हि विश्रुताः ।
एवंविधा हि निर्बन्धाः वादिनां जयहेतवः ॥
4 अर्थिप्रत्यर्थिनोस्तावन्न द्वयोर्जयसंभवः ।
एकस्य विजयेऽपि स्यात् सफला सत्कथैव सा