मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 441, कुल 672 में से
संदर्भ में पढ़ेंहेत्वाभासाः 399
रज्जुसर्पान्मृगजलाद्दंशनस्नानधीरपि ।
सत्याप्रबोधनिर्बाधा फलमप्युपलभ्यते ॥
शुभाशुभस्वप्नदृग्भ्यां सूच्येते साध्वसाधुनी ।
तथा सत्याक्षरज्ञानमस्ति रेखानृताक्षरात् ॥
देहात्मप्रत्ययो यद्वत्प्रमाणत्वेन कल्पितः ।
लौकिकं तद्वदेवेदं प्रमाणं त्वात्मनिश्चयात् ॥
इत्यादिः विस्तरो ज्ञेयः, तत्र श्रीभाष्यकृत्पुनः ।
असत्ये विषयेऽप्यत्र प्राह ज्ञानस्य सत्यताम् ॥
तेन ज्ञानेन सत्येन मता सर्वत्र सत्यधीः ।
सत्यादसत्यधीर्वा स्यान्नासत्यात्सत्यधीः क्वचित् ॥
सर्वस्यास्य विवादस्य निदानं वचनं पुनः ।
अनिर्वाच्यविचारे प्राक् धर्मकीर्तेरुदाहृतम् ॥
(81) हेत्वाभासाः.
1 अनुमेयेन संबद्धं प्रसिद्धं च तदन्विते ।
तदभावे च नास्त्येव तल्लिङ्गमनुमापकम् ॥
विपरीतमतो यत्स्यात् एकेन द्वितयेन वा ।
विरुद्धासिद्धसंदिग्धमलिङ्गं काश्यपोऽब्रवीत् ॥
इति प्रशस्तपादेन प्रोक्तं वैशेषिकं मतम् ।
अथ नैयायिकमते विश्वनाथस्य संग्रहः ॥