सामग्री पर जाएँ
सर्वकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 439, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 439

न्यायवादः ३९
प्रसाधयितुमिष्टो हि हेतुना पक्ष उच्यते ।
हेतुमात्रनिषेधोऽपि न च सर्वत्र शक्यते ॥
स्वप्रवृत्तिविरोधेन न कारकनिषेधनम् ।
ज्ञापकस्य निषेधस्तु व्यवहारविरोधकृत् ॥
न दृष्टान्तनिषेधोऽपि सर्वलोकविसम्मतेः ।
तत्पक्षहेतुदृष्टान्तमर्यादा सुप्रतिष्ठिता ॥
तथा न्यायनिरुक्त्याख्यवादेऽधिकरणात्मकः ।
न्यायो निरूप्यते चैवं नयोऽप्यार्हत उच्यते ॥
८ यो वादिप्रतिवादिभ्यां निश्चितस्साधनं तु तत् ।
इति दिङ्नागोक्तमतः नासत्यात्सत्यधीः क्वचित् ॥
येऽपि रेखादयो दृष्टाः वर्णानां प्रतिपादकाः ।
न ते स्वेनापि रूपेण परमार्थत्ववर्जिताः ॥
वर्णात्मना न सत्याश्चेत्सर्वभावेष्वयं विधिः ।
पदार्थान्तररूपेण न सत्यं किंचिदिष्यते ॥
हेत्वादीनां तु भवतः स्वरूपेणाप्यसत्यता ।
तेन बाष्पादिवत्तेषामुपायत्वं न लेख्यवत् ॥
नन्वसत्यपि बाह्येऽर्थे बुद्ध्यारूढेन सिद्ध्यति ।
वासनाशब्दभेदोत्थविकल्पप्रविभागतः ॥
न्यायविद्भिरिदं चोक्तं धर्मादौ बुद्धिमाश्रिते ।
व्यवहारोऽनुमानादेः कल्प्यते न बहिः स्थिते ॥