मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
226 मानमेयरहस्यश्लोकवार्तिके
आर्षं छन्दश्च दैवं च मन्त्राणां ब्राह्मणं तथा ।
आत्मानं पूजयेन्नित्यं भूषणाच्छादनादिभिः ॥
स्वदेह एव दैवं स्यात् अन्यद्दैवं न विद्यते ।
दैवाधीनं जगत्सर्वं मन्त्राधीनं तु दैवतम् ॥
तन्मन्त्रं ब्राह्मणाधीनं तस्माद्विप्रा हि दैवतम् ।
शास्त्रेऽप्यस्मिन् दैवशब्दः प्रयुक्तः पुरुषे यथा ।
अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् ।
तस्माद्दैवमिह ब्रूमः परमात्मानमीश्वरम् ॥
2 ननु स्वतन्त्रः कर्तेति शिष्यते कर्तृलक्षणम् ।
स कारकप्रयोक्ता स्यात् न प्रयोज्यश्च कारकैः ॥
उच्यतेऽत्रोत्पन्नबुद्धिचिकीर्षाकृतिशालिनः ।
स्यात्कारकप्रयोक्तृत्वं ज्ञानाद्युत्पत्तिरेव तु ॥
श्रुता परात्मायत्तेति तदायत्तैव कर्तृता ।
सिद्धं स्वातन्त्र्यमपिच सामर्थ्ये चानिवार्यता ॥
अथेश्वरो यदि ज्योतिष्टोमादौ संप्रवर्तयेत् ।
तदा किंचिन्न जीवस्य विधेयं चोदनादिभिः ॥
बलिना ह्रियमाणेन न गन्तुमिह शक्यते ।
निरुन्धे परमात्माऽथ न विधेयं प्रसज्यते ॥
प्रबलेन निरुद्धस्य गमनं न विधीयते ।
यदि प्रवर्तयेदीशः निषेधोऽत्र हि निष्फलः ॥
शास्त्रसामर्थ्यम्
नासौ प्रवर्तयेद्यत्र निषेधो न ह्यपेक्ष्यते ।
चोद्यकाष्ठेयमखिलास्तिकैकान्तालम्बिनी ॥
निग्रहानुग्रहाख्यानपूर्वादृष्टप्रचोदितः ।
निग्रहानुग्रहायर्ह इतीदं घटते कथम् ॥
3 अपिचात्र पराधीनास्वापि सर्वप्रवृत्तिषु ।
कृतप्रयत्नापेक्षत्वं परस्य कथमुच्यते ॥
शास्त्रवैयर्थ्यचोद्यस्यावैयर्थ्यादिप्रसङ्गतः ।
परिहारे साध्यहेत्वोः अविशेषः प्रसज्यते ॥
अत्रेदमवधातव्यं यत्तावत्परमेशितुः ।
प्रवृत्तिशक्तकरणकळेबरसमर्पणम् ॥
यच्च सर्वाधारतयाऽवस्थानं भूतलादिवत् ।
स्वरूपाच्चापि संकल्पात् प्रवृत्त्याद्यानुगुण्यतः ॥
कळेबराद्यधिष्ठानशक्तिदानं च यत्पुनः ।
यच्चापि बाह्यविषयपुरस्करणमित्यपि ॥
तत्सर्वं जीवकर्तृत्वानुगुणं नात्र चोदना ।
प्रवृत्तौ च निवृत्तौ च साधारणमिदं यतः ॥
एतावतैव भगवानुदासीन इतीर्यते ।
प्रवृत्तिकाले भगवान् अनुमन्तेत्युपेयते ॥
सा चानुमन्तृता जीवकर्तृतां न निवारयेत् ।
किंतूत्तम्भातीति नातः शास्त्रवैयर्थ्यचोदना ॥
228 मानमेयरहस्यश्लोकवार्तिके
नैवानियोज्यताहेतुः कर्त्रन्तरसहायता ।
संभूयकार्येऽप्येकस्य दृश्यते हि नियोज्यता ॥
एवं प्रवृत्तिशक्तस्य चेच्छायामनिवार्यता ।
स्वतन्त्रताऽस्य सिद्धेति कर्तृत्वमपि सुस्थितम् ॥
4 यत्त्वथज्ञानशक्त्यादौ करणे च कलेबरे ।
प्रदानं विषमं यच्चाकृत्यादावनिवारणम् ॥
यदप्यनुमतेर्दानं प्रत्यवायस्य सर्जनम् ।
तदप्यनादिप्राक्कर्म वैषम्याद्विषमं मतम् ॥
अकृत्यकारिणोऽपीशानुग्राह्यास्स्युर्यदीशितुः ।
शास्त्रमाज्ञात्मकं व्यर्थं सोऽपि स्यादव्यवस्थितः
अपुंस्त्वमावहेच्चास्य दण्ड्यानामप्यदण्डने ।
न गुणायोवकल्पेत लोके दुष्टस्य शिक्षणम् ॥
यद्यप्यदृष्टवैषम्यात्प्रवृत्तिर्विषमा मता ।
तत्त्वदृष्टं शास्त्रपुरस्कारादृष्टादि साधयेत् ॥
तदप्येवं तत्र विधिनिषेधावसरो यथा ।
यतः प्रवृत्तिः शास्त्रोत्थबुद्ध्यादिकमपेक्षते ॥
यज्ञादिकारणं पूर्वमनेन सुकृतं कृतम् ।
इत्येतेनैव नेदानीं यज्ञनिष्पत्तिसंभवः ॥
नापि पापं केवलं वा पापमारभतेऽपितु ।
स्वबुद्ध्यैव निषेधातिवृत्त्या पापस्य कारणम् ॥
शास्त्रसामर्थ्यम् 229
ननुचादृष्टमूलत्वे विध्यानर्थक्यमुच्यते ।
शास्त्रं च सार्थकं सर्वैः परैरभ्युपगम्यते ॥
तस्माददृष्टमूलत्वं त्यक्तव्यमिति चोद्यते ।
तन्नैवं लौकिकविधिनिषेधेऽपि प्रसङ्गतः ॥
लोके प्रवृत्तिवैचित्र्यं स्यात्सामग्रीविशेषतः ।
किंवा गामानयेत्यादिनियोगेनेति चिन्त्यताम् ॥
नियोगस्सोऽथ सामग्रीमध्यान्तर्भावमर्हति ।
इतिचेत् वैदिकश्चापि नियोगस्तादृगिष्यताम् ॥
परित्यजाम इतिचेत् नियोगमपि लौकिकम् ।
हन्त संव्यवहारस्यासिद्ध्या व्युत्पत्त्यसंभवः ॥
लौकायतेनापि लीनं जगदान्ध्यं प्रसज्यते ।
तस्माददृष्टं शास्त्रं च नान्योन्यप्रतिबन्धकम् ॥
तस्मादिष्टऽदृष्टमूलशास्त्रवश्यदशान्वयात् ।
पुनस्तथातथा दृष्टसंपत्तिरुपपद्यते ॥
पुमर्थसाधनत्वेन प्रतीते स्वेच्छया पुमान् ।
प्रवर्तेतेति तादर्थ्यात् सावकाशाऽत्र चोदना ॥
इत्येवं शास्त्रवैयर्थ्यचोदनाक्षेपदूषणम् ।
तात्पर्यचन्द्रिकाग्रन्थविस्तृतस्यात्र संग्रहः ॥
एवं शास्त्रं शास्त्रजन्यादृष्टं वा बुद्धिपूर्वकम् ।
प्रवर्तयेदतः शास्त्रवैयर्थ्यं न प्रसज्यते ॥
230 मानमेयरहस्यश्लोकवार्तिके
दैवाधीनं जगत्सर्वमिति तत्त्वविदां वचः ।
मयि सर्वाणि कर्माणीत्युक्तगीतार्थगोचरम् ॥
(50) कर्मवादः.
1 कर्मत्वजातिमत्कर्म प्रत्यक्षं चलनात्मकम् ।
अविभुद्रव्यसंस्थं तत् हेतुर्योगवियोगयोः ॥
वेगस्यापीति सिद्धान्तमाहुर्भाट्टाश्च तार्किकाः ।
न संयोगादिविषयः चलतिप्रत्ययो यतः ॥
सर्वसंयोगधाराऽपि धरा न चलतीति धीः ।
नवा तरङ्गिणीतीरपाषाणश्चलतीति धीः ॥
भूकम्पादौ महोत्पाते ह्यचला चलतीति धीः ।
संयोगो वा विभागो वा न कश्चित्तत्र दृश्यते ॥
2 प्राभाकरास्तु मन्यन्ते कर्म चैतदतीन्द्रियम् ।
सुसूक्ष्मो व्यापार एषः सर्वद्रव्यगतोऽपि च ॥
अनुमेयं हि संयोगाद्विभागाद्वाऽऽर्ककर्मवत् ।
अन्वयव्यतिरेकानुविधानं चक्षुरादिभिः ॥
लिङ्गस्य दर्शने क्षीणं, गमनं यच्च चाक्षुषम् ।
स च संयोग एव स्यात् संयोगस्सर्वसम्मतः ॥
तत्र कौमारिलास्त्वित्थमाक्षेपं संप्रचक्षते ।
गुरुर्गृहीतविषयमनुमानं प्रजल्पति ॥
कर्मवादः 23
अनुमानेन कर्मादिसिद्धिमप्यभिवाञ्छति ।
3 क्षणिकास्सर्वसंस्कारा अस्थिराणां कुतः क्रियाः ।
भूतिर्येषां क्रिया सैव कारकं सैव चोच्यत ।
ततोऽविरलदेशादेरुत्पादः कर्मलक्षणः ॥
संयोगादिस्स एवेति क्षणभङ्गोऽनुपद्रवः ।
इति युक्त्या सौगतास्तु कर्मैवापलपन्ति हि ॥
क्षणवादस्स दूष्यो हि प्रत्यक्षेणैव कर्मणा ।
कर्म चेदनुमेयं स्यात् जिता एव हि सौगताः ॥
संयोगेनान्यथासिद्धिः वक्तुं शक्येत कर्मणः ।
नित्यत्वे सर्वदा जन्म स्यात्संयोगविभागयोः ॥
अनित्यत्वेऽस्य यो हेतुस्तेनैव स्यात्तयोर्जनिः ।
तद्धेतुरेव तद्धेतुरिति न्यायोऽहि लौकिकः ॥
4 अतएवहि काणादाः कर्मणः कर्मसाध्यताम् ।
स्वभाववादभङ्गाय धूत्वाऽऽहुर्गुणसाध्यताम् ॥
आत्मजन्या भवेदिच्छा हीच्छाजन्या भवेत्कृतिः ।
कृतिजन्या भवेच्चेष्टा चेष्टाजन्या भवेत्क्रिया ॥
अदृष्टाधीनतां चाहुः ज्वलनोर्ध्वादिकर्मणाम् ।
एतेन चेतनायत्तं सर्वं कर्मेति साधितम् ॥
कृतेराख्यातवाच्यत्वस्थापनैतन्निबन्धना ।
व्यापारमात्रवादस्त सांख्यादिमितिमूलकः ॥
232 मानमेयरत्नश्लोकवार्तिके
अदृष्टं दृष्टसामग्रीं पुरस्कृत्यैव कारकम् ।
इतीरयद्भिरप्यग्नेरूर्ध्वज्वलनमिष्यते ॥
कर्मणः कर्मसाध्यत्वं निषेधत्यपि जैमिनिः ।
अभिक्रामं जुहोतीति वाक्यस्यार्थनिरूपणे ॥
क्रियाकारकनिष्पाद्या कारकं मूर्त्तमिष्यते ।
कर्म चैतदमूर्त्तं स्यात् इति न्यायोऽत्र शाबरः ॥
क्रियैव कारकमिति क्षणप्रध्वंसवादिनाम् ।
सिद्धान्तोऽनेन वाक्येन संक्षेपेण कटाक्षितः ॥
कर्मणः कर्मसाध्यत्वं स्वीकृतं श्लोकवार्तिके ।
कर्मणः कर्मसाध्यत्वं नास्मत्पक्षे विरुध्यते ॥
अनात्मसमवेतस्य निमित्तं कर्म हीष्यते ।
इति वाक्याधिकरणपद्यमत्र निशम्यताम् ॥
निषिद्धं समवायित्वं स्वीकृता तु निमित्तता ।
इति रत्नाकरव्याख्या विरोधपरिहारिणी ॥
यद्यपि क्षणवादोऽयमेतेन प्रतिहन्यते ।
स्वभाववादावसरो निमित्तत्वेऽपि दुस्तरः ॥
5 अत्र वेदान्तिनः केचिन्न्यायतत्त्वानुसारिणः ।
नैयायिकाश्च कतिचिन्न्यायभूषणयायिनः ॥
द्रव्ये गुणे वा विश्रान्तिं कर्मणो ये विजानते ।
तेषामाशयसारोऽयं संक्षेपादवधार्यताम् ॥
कर्मवादः 23.
प्रत्यक्षं कर्म येऽप्याहुः नूनं तैरपि कर्मजात् ।
संयोगाद्वा विभागाद्वा निपुणं नान्यदीक्ष्यते ॥
चलतिप्रत्ययोऽपि स्यात्तावतैव मनीषिणाम् ।
चलत्यचलदित्याद्या धियोऽवस्थानिबन्धनाः ॥
कर्मादीनां गुणैर्द्रव्यैर्वाऽन्यथासिद्धिसंभवात् ।
द्रव्यं चाद्रव्यमित्येव विभागो मेयसंग्रहः ॥
एतावताऽपि भग्नास्ते भवन्ति क्षणभङ्गिनः ।
कर्मापह्नवसिद्धान्तो दुःस्थ एवेति च स्थितम् ॥
कर्मैकं बुद्धिरप्येका जगत्येकस्सितो गुणः ।
वर्णोऽप्येको गकारादिरिति च श्लोकवार्तिके ॥
न प्रत्यक्षे इति ह्युक्तिश्शाबरी बुद्धिकर्मणी ।
प्रत्यक्षत्वे तयोस्स्याद्धि नित्यतेत्यपि तन्मतम् ॥
शब्दनित्यत्ववादे हि विस्तरेण निरूपितम् ।
उपालभन्ते चात्रेत्थमेतान् नैयायिकाः पुनः ॥
किंनाम शब्दनित्यत्वसमर्थनतृषातुरः ।
जङ्गमं स्थावरं चैव सकलं पातुमिच्छसि ॥
इत्येवं वादसंरम्भे विचित्रा धीमदुक्तयः ।
6 अथ चात्रात्मसंबन्धिक्रियाचिन्ता निशम्यताम् ॥
साक्षाद्यद्यपि संबन्धो नात्मनो यज्ञसाधनैः ।
तथाऽपि लक्षणावृत्त्या शरीरद्वारको भवेत् ॥
M.R. 30
34 मानमेयरहस्यश्लोकवार्तिके
प्रत्यक्षत्वं च देहस्थं भाक्तमात्मनि कल्पितम् ।
आत्मनः स्वर्गयानं वा शरीरस्योपचर्यते ॥
जन्मान्तरेऽभ्युपेतेऽपि ज्ञानमात्रात्मवादिनाम् ।
ज्ञानानां क्षणिकत्वाद्धि कर्तृभोक्त्रन्यता भवेत् ॥
निष्क्रियत्वाविभुत्वाभ्यां नच देहान्तराश्रितिः ।
ज्ञानशक्तिस्वभावोऽतो नित्यस्सर्वगतः पुमान् ॥
यजमानत्वमप्यात्मा सक्रियत्वात्प्रपद्यते ।
न परिस्पन्द एवैकः क्रिया नः कणभोजिवत् ॥
नच स्वसमवेतैव कर्तृभिः क्रियते क्रिया ।
क्रिया धात्वर्थमात्रं स्यात् अन्याधारेऽपि कर्तृता ॥
सत्ताज्ञानादिरूपाणां कर्ता तावत्स्वयं पुमान् ।
योऽपि भूतपरिस्पन्दः तत्राधिष्ठानतो भवेत् ॥
तदुद्देशप्रवृत्तेश्च याया देहेन्द्रियैः क्रिया ।
क्रियते पुरुषेणैव सासा सर्वा कृतोच्यते ॥
नैव ह्येषां प्रवृत्तिस्स्यात्पुरुषेणापरिग्रहे ।
अस्वातन्त्र्यादतो नैषां परिस्पन्देऽपि कर्तृता ॥
तत्कर्मोपार्जितैश्चैतैः क्रियमाणेषु कर्मसु ।
कर्तृता यजमानानामृत्विक्परशुकर्मवत् ॥
यथा परिक्रयान्नानाहत्विग्द्वारा क्रियोच्यते ।
गमनादिविधेस्तद्वत् भूतद्वारत्वमाश्रितम् ॥
नच सर्वत्र तुल्यंत्वं स्यात्प्रयोजककर्मणाम् ।
चलनेन ह्यसिं योद्धा प्रयुङ्क्ते छेदनं प्रति ॥
सेनापतिस्तु वाचैव भृत्यानां विनियोजकः ।
राजा सन्निधिमात्रेण विनियुङ्क्ते कदाचन ॥
तस्मादचलतोऽपि स्यात् चलने कर्तृताऽऽत्मनः ।
यथैवाभिद्यमानस्य देवदत्तस्य भेत्तृता ॥
तस्माद्यथाऽऽकृतौ शास्त्रं प्रवृत्तं व्यक्तिमाश्रयेत् ।
तथा पुंसि प्रवृत्तस्य भूतेन्द्रियसमाश्रयः ॥
शक्तिः कार्यानुमेयत्वात् यद्गतैवोपयुज्यते ।
तत्रैव साऽभ्युपेतव्या स्वाश्रयाऽन्याश्रयाऽपिवा ॥
आत्मैव चाश्रयस्तस्य क्रियाऽप्यत्रैव च स्थिता ।
आत्मवादे स्थितं ह्येतत् कर्तृत्वं सर्वकर्मसु ॥
यदि स्वसमवैतैव शक्तिरिष्येत कर्मणाम् ।
तद्विनाशे ततो न स्यात्कर्तृस्था तु न नश्यति ॥
प्रमाणवन्त्यदृष्टानि कल्प्यन्ते सुबहून्यपि ।
अदृष्टशतभागोऽपि न कल्प्यो ह्यप्रमाणकः ॥
कर्मजन्यो हिं संस्कारः पुंसो बुद्ध्यादिवद्गुणः ।
तस्य चाफलसंयोगादवस्थितिरुपेयते ॥
स यागदानहोमादिजन्यो धर्मगिरोच्यते ।
ब्रह्महत्यादिजन्यस्तु सोऽधर्म इति कथ्यते ॥
36 मानमेयरहस्यश्लोकवार्तिके
एवं कर्मविचारेण नास्तिक्यं परिहीयते ।
तस्मान्निःश्रेयसावाप्तिः तत्त्वज्ञानाद्धि सूच्यते ॥
(51) जातिवादः.
1 विकल्पविभ्रमो जातिरिति केचित्प्रचक्षते ।
उपाधिभेदभिन्ना सा महासत्तेति केचन ॥
एके सतीमभिन्नां तामाश्रयेभ्यो विजानते ।
अभिन्नामपि तामेतामनुमेयां विदुः परे ॥
अपोहलक्षणां केचित्केचित्सारूप्यलक्षणाम् ।
स्वासाधारणरूपां तामन्ये संस्थानलक्षणाम् ॥
एकार्थकारितामेके विवादा बहवोऽत्र हि ।
संग्रहो वचसां तेषां पूर्वेषामवगम्यताम् ॥
अर्थक्रियासु नित्यस्य ह्यसामर्थ्यं स्फुटं ततः ।
जनकत्वस्य चाभावाद्विषयत्वाद्यसंभवः ॥
इति बुद्धिविरोधेन विकल्पो जातिरुच्यते ।
तथाऽवयविनोऽभावे निराधारा कथं नु सा ।
अन्यत्र वर्तमानस्य ततोऽन्यस्थानजन्मनि ।
तस्मादचलतः स्थानात् वृत्तिरित्यतियुक्तता ॥
यत्रासौ वर्तते भावः तेन सम्बध्यते न तु ।
तद्देशिनं च व्याप्नोति किमप्येतन्महाद्भुतम् ॥
जातिवादः 237
नायाति न च तत्रासीदस्ति पश्चान्न चांशवत् ।
जहाति पुनराधारमहो व्यसनसंततिः ॥
परतन्त्रैव सर्वत्र स्वात्मानं लब्धुमर्हति ।
अतो वृत्तिविरोधेन विकल्पो नैव संशयः ॥
पिण्डे सामान्यमेकत्र यदि कात्स्न्येन वर्तते ।
तत्रैवास्य समाप्तत्वान्न स्यात्पिण्डान्तरे ग्रहः ॥
एकदेशेन वृत्तौ तु गोत्वजातिर्न कुत्रचित् ।
समग्राऽस्तीति, गोबुद्धिः प्रतिपिण्डं कथं भवेत् ॥
पृथक्त्वे व्यक्तितो जातेः दृश्येत पृथगेव सा ।
अभेदे व्यक्तिमात्रं स्यात् द्वेधा चेन्न विरोधतः ॥
जात्याद्यर्थान्तरं यस्मादतद्रूपेऽपि वस्तुनि ।
भवत्यध्यस्य धीः तस्मान्मृगतृष्णादिभिस्समा ॥
तस्माद्यतोयतोऽर्थानां व्यावॄत्तिस्तन्निबन्धनाः ।
जातिभेदाः प्रकल्प्यन्ते तद्विशेषावगाहिनः ॥
2 अत्र वैशेषिकादीनामभिप्रायोऽवगम्यताम् ।
प्रत्यक्षबलसिद्धस्य सामान्यस्य कुतर्कतः ॥
न शक्यो निह्नवः कर्तुं प्रत्यक्षं जयि सर्वतः ।
नहिं दृष्टेऽनुपपन्नं नामेत्यपिच लोकवाक् ॥
सर्वा सर्वगता जातिरिति तावदुपैयते ।
सर्वत्राग्रहणं तस्याः व्यञ्जकव्यक्त्यसन्निधेः ॥
३८ मानमेयरहस्यश्लोकवार्तिके
अभिव्यक्तिस्तु तत्काला यत्कालं व्यक्तिदर्शनम् ।
तस्मात्सकृदभिव्यक्ता नान्यदाऽपि प्रतीयते ॥
व्यक्तिसर्वगतत्वेऽपि सयूथ्यैः कैश्चिदाश्रिते ।
भविष्यत्यद्यजातायां गवि गोधीस्तथा ग्रहात् ॥
जायमानैव हि व्यक्तिः जायते प्रतियोगिनी ।
एक एव हि कालोऽस्याः जातेस्संबन्धजन्मनोः ॥
नच जातेः पुराऽस्तित्वं नच संक्रान्तिरन्यतः ।
किंतु स्वहेतोस्सा व्यक्तिः तादृश्येवोपजायते ॥
वृषः पिशङ्गो गौः कृष्णा सा च नीलतृणादिनी।
ताभ्यामुत्पादितो वत्सः कथं भवति पाण्डरः ॥
तस्माद्वस्तुस्वभावेऽस्य विदित्वाऽननुयोज्यताम् ।
चोद्यचुश्रुत्वमुत्सृज्य प्रतिपत्तिर्निरूप्यताम् ॥
केचिन्नैयायिकाः जातिं नेच्छन्ति गुणकर्मणोः ।
द्रव्यजात्यैव हि तयोः जातिव्यवहृतिं विदुः ॥
त्रिषु सत्तां केचिदाहुः सैव नास्तीति केचन ।
मानयोगार्हता सा स्यात् भावत्वं वेति ते विदुः॥
अनुमानं तु सामान्यापेक्षं सामान्यनिह्नवे ।
नालमित्यसमीक्ष्यैव वृथा कण्ठो विशोष्यते ॥
३ अथ प्रभाकरगुरोस्सिद्धान्तोऽत्र प्रकाश्यते ।
जातिराश्रयतो भिन्ना प्रत्यक्षज्ञानगोचरा ॥
जातिवादः 239
पूर्वाकारावमर्शेन ह्यनुवृत्तिमती तु सा ।
यो नानाव्यक्तिसंबन्धः साऽनुवृत्तिरितीर्यते ॥
तत्सामान्यं विशेषश्च बुद्धयपेक्षमिति स्मृतिः ।
इयान्विशेषशिष्टांशः वैशेषिकनये स्थितः ॥
4 जातिं व्यक्तिगतां नित्यां व्यक्तितादात्म्यशालिनीम्।
प्रत्यक्षगम्यां सर्वां तामाहुः कौमारिलाः पुनः ॥
सत्ता पदार्थमात्रे स्यान्महासामान्यमुच्यते ।
द्रव्यत्वब्राह्मणत्वादि सामान्यं स्यादवान्तरम् ॥
महासामान्यमपरे नैवेच्छन्त्यनवस्थितेः ।
पुनस्तेन सहान्येषु सामान्यमतिरस्ति हि ॥
जातिमेवाकृतिं प्राहुः व्यक्तिराक्रियते यया ।
सामान्यं तच्च पिण्डानामेकबुद्धिनिबन्धनम् ॥
सर्ववस्तुषु बुद्धिश्च व्यावृत्यनुगमात्मिका ।
जायते द्वयात्मकत्वेन विना सा च न सिद्ध्यति ॥
नचाप्यन्यतरा भ्रान्तिरूपचारेण गम्यते ।
दृढत्वात्सर्वथा बुद्धेः भ्रान्तिस्तद्भ्रान्तिवादिनाम् ॥
निर्विशेषं न सामान्यं भवेच्छशविषाणवत् ।
सामान्यरहितत्वाच्च विशेषास्तद्वदेवहि ॥
विशेषतो हि जिज्ञासा ज्ञाते सामान्यतो मता ।
सामान्यस्यानुपगमे प्रश्नोत्तरपराहतिः ॥
40 मानमेयरहस्य श्लोकवार्तिके
स्वाभाविकश्च संबन्धो जातिव्यक्त्योर्न हेतुमान् ।
तेनैतस्य प्रसिद्धयर्थं नान्यसामान्यमिष्यते ॥
विषयेण हि बुद्धीनां विना नोत्पत्तिरिष्यते ।
विशेषादन्यदिच्छन्ति सामान्यं तेन तद्भवम् ॥
तस्मात्सास्नादिमत्स्वेव गोत्वं यस्मात्तदात्मकम् ।
तादात्म्यमस्य कस्माच्चेत्स्वभावादिति गम्यताम् ॥
एकानेकत्वमेकस्य तथाऽन्यानन्यता कथम् ।
तत्सामान्यं विशेषश्चेत्येवमादि च दुष्करम् ॥
विरोधस्तावदेकान्ताद्वक्तुमत्र न युज्यते ।
सामान्यानन्यविज्ञाते विशेषे नैकवृत्तिता ॥
सामान्यानन्यवृत्तित्वं विशेषात्मैकभावतः ।
तेन नात्यन्ततो भेदस्स्यात्सामान्यविशेषयोः ॥
या चावयवशो वृत्तिः स्रक्सूत्रादिषु दृश्यते ।
भूतकण्ठगुणोदेश्च प्रतिपिण्डं समाप्तिः ॥
तत्रावयवयोगित्वमविभुत्वं च कारणम् ।
आकृतेस्तदभावेन न प्रसक्तमदोद्वयम् ॥
नच द्वैविध्यमेवेति वृत्तेरस्ति नियामकम् ।
त्रैविध्यमपि दृष्टत्वात्संभवेत् द्वे विधे यथा ॥
दीर्घह्रस्वत्ववच्चात्र व्यपेक्षाभेदतो भवेत् ।
अविरोध इति ज्ञात्वा प्रतिपत्तिर्निरूप्यताम् ॥
जातिवादः 241
5 शाब्दिकास्तां विदुस्सत्तां तदुक्तिरवधार्यताम् ।
संबन्धिभेदात्सत्तैव भिद्यमाना गवादिषु ॥
जातिरित्युच्यते तस्यां सर्वे शब्दा व्यवस्थिताः ।
तां प्रातिपदिकार्थं च धात्वर्थं च प्रचक्षते ॥
सा नित्या सा महानात्मा तामाहुस्त्वतलादयः ।
अनेकव्यक्त्यभिव्यङ्ग्या जातिः स्फोट इति स्मृता॥
कैश्चिद्व्यक्तय एवास्याः ध्वनित्वेन प्रकल्पिताः ।
सत्यासत्यौ तु यौ भावौ प्रतिभावं व्यवस्थितौ ॥
सत्यं यत्तत्र सा जातिः असत्या व्यक्तयो मताः ।
तद्ब्रह्म स च शब्दः स्यात् सकलं तदधिष्ठितम् ॥
आकृतिग्रहणा जातिः लिङ्गानां च न सर्वभाक् ।
सकृदाख्याननिर्ग्राह्या गोत्रं च चरणैस्सह ॥
प्रादुर्भावविनाशाभ्यां सत्त्वस्य युगपद्गुणैः ।
असर्वलिङ्गां बह्वर्थां तां जातिं कवयो विदुः ॥
6 अभाषत च संस्थानजातिपक्षं पतञ्जलिः ।
जातिनित्यत्वपक्षोक्तिरन्वारुह्येति नीयताम् ॥
संस्थानजातिसिद्धान्तसारांशोऽत्रावगम्यताम् ।
संस्थानं चाप्यवयवव्यूहस्सास्नादिलक्षणः ॥
जातेस्तु०व्यञ्जकं यत्स्यात् जातितस्तस्य संग्रहे ।
जातिमालाऽनवस्थाऽतः संस्थानं जातिरिष्यते ॥
M.R. 31
242 मानमेयरहस्यश्लोकवार्तिके
यद्यप्येकैकसंस्थं तत्संस्थानं गळकम्बळम् ।
स्वभावतः तथाऽप्येतत्सप्रतिद्वन्द्विकं मिथः ॥
प्रामाणिकं स्वरूपं यत् स स्वभाव इतीर्यते ।
तत्तथैव स्वीक्रियते यद्यथैव प्रतीयते ॥
सन्निवेशाः स्वभावेन नियतप्रतियोगिकाः ।
अन्योन्यसादृश्यरूपाः मिथः स्मारकतावशात्
एकस्मृतिसमारूढाः एकबुद्धिनियामकाः ।
सादृश्यसामान्यशब्दावेकार्थाविति निर्णयः ॥
उपाधिसंकरन्यायादवस्थासंकरो मतः ।
भ्रमणस्यन्दनत्वाद्यमेकस्मिन् गमने मतम् ॥
अन्योन्यसप्रतिद्वन्दि रूपं सादृश्यमुच्यते ।
तदेवानुगतज्ञप्तिहेतुः जातिर्न चाधिका ॥
कथ्यते यैस्तु सादृश्यं संस्थानादिविलक्षणम् ।
गुरुत्वं जातिगुप्तौ च धृतं तैर्जातिगुप्तिवत् ॥
जातिखण्डनयुक्तीनां नावकाशोऽत्र लभ्यते ।
प्रायः परीक्षकाणामप्येतदेव मनोरमम् ॥
7 तिर्यगूर्ध्वत्वभेदेन द्विविधं त्वार्हता विदुः ।
तुल्या परिणतिर्यत्र प्रतिव्यक्ति प्रदृश्यते ॥
तत्तिर्यग्यद्धि शबलाशावलेयादिवस्तुषु ।
गोत्वादिकं तथाऽश्वत्वनरत्वामरतादिकम् ॥
पूर्वापरपरीणामसाधारणमवस्थितम् ।
द्रव्यं तदूर्ध्वताख्यं स्यात् कटकादिषु काञ्चनम् ॥
तथौपनिषदाः प्रायः तार्किकं वाऽथ वैदिकम् ।
पन्थानमाश्रिताः किंचित्किंचिद्भेदं समाश्रिताः ॥
8 अथच ब्राह्मणत्वादिजातिव्यवहृतौ मताः ।
प्राचां ग्रन्थकृतां मार्गाः निशम्यन्तां समाहृताः ॥
अनादाविह संसारे दुर्वारे मकरध्वजे ।
कुले च कामिनीमूले का जातिपरिकल्पना ॥
यन्मे माता प्रलुलुभे विचरन्त्यपतिव्रता ।
तन्मे रेतः पिता वृङ्क्तामित्यप्यस्य निदर्शनम् ॥
अब्राह्मणो ब्राह्मणस्स्यात्प्रवरस्यानुमन्त्रणात् ।
इतिश्रुत्यर्थजिज्ञासा शाबरादिषु विस्तृता ॥
न संस्थानं नापि धातुः न भयाद्यं न चौषधम् ।
न वृत्तिः नापि चाचारः किंतु संकेत एव सः ॥
इत्यादीनि च वाक्यानि जातिविप्लववादिनाम् ।
विश्रुतान्येव सर्वत्र विज्ञेयोऽन्यत्र विस्तरः ॥
9 श्रुतिस्मृतिनिबन्धेषु तद्व्याख्यानेषु यच्छ्रुतम् ।
भाष्यादिषु च यच्चोक्तं तत्सारांशोऽयमुच्यते ॥
जातिनाम्नोऽतिरिक्तस्य स्वीकर्तारस्तु वस्तुनः ।
ब्राह्मणत्वादिकां जातिं नरत्वावान्तरं विदुः ॥
244 मानमेयरहस्यश्लोकवार्तिके
तत्र क्वचिद्ब्राह्मणादिशब्दानां गुणवाचिताम् ।
वृत्तादिवाचितां चापि मन्वते तत्त्वदर्शिनः ॥
नञ्सूत्रेऽतो महाभाष्ये गुणसंदोहवर्तिनः ।
ब्राह्मणाया अमी शब्दाः क्वचिदंशेष्वितीरितम् ॥
जात्यनभ्युपगन्तारः व्यवहारस्य गोचरम् ।
विदुश्शुद्धकुलोत्पत्तिं जातिजन्मादिशब्दिताम् ॥
सैव संततिसंतानकुलशब्दादिशब्दिता ।
सर्ववर्णेषु तुल्यास्वित्यादिस्मृतिवचोबलात् ॥
तमश्शूद्रे रजः क्षत्रे ब्राह्मणे सत्त्वमुत्कटम् ।
इत्याश्वमेधिकस्मृत्या सत्त्वाद्यं केचिदभ्यधुः ॥
सन्निवेशसमानत्वेऽप्यारणेयादिवह्निषु ।
क्षीरभेदादिकेऽप्यस्ति शक्तिभेदास्तथाऽत्र हि ॥
परेऽदृष्टविशेषं तमात्मस्थमनुजानते ।
तदभिव्यञ्जिकां शुद्धकुलोत्पत्तिं प्रचक्षते ॥
ब्राह्मणो जायते ह्येष यो यज्ञाज्जायते त्विति ।
ब्राह्मणत्वं कर्मरूपमिति शातपथी श्रुतिः ॥
यथैव दीक्षणीयेष्ट्या जायन्ते ब्राह्मणादयः ।
इति पाद्मे पाञ्चरात्रे तन्निमित्तमनूदितम् ॥
मुखबाहूरुपज्जत्वं पुंसूक्तोक्तं विदुः परे ।
तत्र प्रभानुरोधेन तद्रूपणमितीतरे ॥
जातिवादः
मनूनां सर्गमकरोन्मुखबाहूरुपादतः ।
एते सावर्ण्यनामानः विष्वक्सेनागमोदिताः ॥
महर्षयस्सप्त पूर्वे चत्वारो मनवस्तथा ।
इत्यत्र मनवस्तादृक्सावर्ण्या इति भाषितम् ॥
10 प्रत्यक्षं ब्राह्मणत्वादि सहकारिव्यपेक्षया ।
घृतत्वादिवदित्युक्तं मीमांसातन्त्रवार्तिके ॥
सहकार्यत्रोपदेशः स पारम्परिको मतः ।
समूहलेख्यानि परंपराऽविस्मृतिकारणम् ॥
नहि तत्करणं लोके वेदे वा किंचिदीदृशम् ।
इतिकर्तव्यतासाध्ये यस्य नानुग्रहेऽर्थिता ॥
तथाच संततिस्मृत्याऽनुगृहीतेन चक्षुषा ।
विज्ञायमानं ब्राह्मण्यं प्रत्यक्षत्वं न मुञ्चति ॥
तथाच दृश्यते नानासहकारिव्यपेक्षया ।
चक्षुषो जातिविज्ञानजनकत्वं यथोदितम् ॥
सुवर्णं व्यज्यते रूपात् ताम्रत्वादेरसंशयम् ।
तैलाद्धृतं विलीनं च गन्धेन तु रसेन वा ॥
भस्मप्रच्छादितो वह्निः स्पर्शनेनोपलभ्यते ।
अश्वत्वादौ च दूरस्थे निश्चयो जायते ध्वनेः ॥
संस्थानेन घटत्वादि ब्राह्मणत्वादि योनितः ।
क्वचिदाचारतश्चापि सम्यगाज्ञाऽनुपालितात् ॥