सामग्री पर जाएँ
सर्वकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 280, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 280

३८ मानमेयरहस्यश्लोकवार्तिके
अभिव्यक्तिस्तु तत्काला यत्कालं व्यक्तिदर्शनम् ।
तस्मात्सकृदभिव्यक्ता नान्यदाऽपि प्रतीयते ॥
व्यक्तिसर्वगतत्वेऽपि सयूथ्यैः कैश्चिदाश्रिते ।
भविष्यत्यद्यजातायां गवि गोधीस्तथा ग्रहात् ॥
जायमानैव हि व्यक्तिः जायते प्रतियोगिनी ।
एक एव हि कालोऽस्याः जातेस्संबन्धजन्मनोः ॥
नच जातेः पुराऽस्तित्वं नच संक्रान्तिरन्यतः ।
किंतु स्वहेतोस्सा व्यक्तिः तादृश्येवोपजायते ॥
वृषः पिशङ्गो गौः कृष्णा सा च नीलतृणादिनी।
ताभ्यामुत्पादितो वत्सः कथं भवति पाण्डरः ॥
तस्माद्वस्तुस्वभावेऽस्य विदित्वाऽननुयोज्यताम् ।
चोद्यचुश्रुत्वमुत्सृज्य प्रतिपत्तिर्निरूप्यताम् ॥
केचिन्नैयायिकाः जातिं नेच्छन्ति गुणकर्मणोः ।
द्रव्यजात्यैव हि तयोः जातिव्यवहृतिं विदुः ॥
त्रिषु सत्तां केचिदाहुः सैव नास्तीति केचन ।
मानयोगार्हता सा स्यात् भावत्वं वेति ते विदुः॥
अनुमानं तु सामान्यापेक्षं सामान्यनिह्नवे ।
नालमित्यसमीक्ष्यैव वृथा कण्ठो विशोष्यते ॥
३ अथ प्रभाकरगुरोस्सिद्धान्तोऽत्र प्रकाश्यते ।
जातिराश्रयतो भिन्ना प्रत्यक्षज्ञानगोचरा ॥