सामग्री पर जाएँ
सर्वकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 281, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 281

जातिवादः 239
पूर्वाकारावमर्शेन ह्यनुवृत्तिमती तु सा ।
यो नानाव्यक्तिसंबन्धः साऽनुवृत्तिरितीर्यते ॥
तत्सामान्यं विशेषश्च बुद्धयपेक्षमिति स्मृतिः ।
इयान्विशेषशिष्टांशः वैशेषिकनये स्थितः ॥
4 जातिं व्यक्तिगतां नित्यां व्यक्तितादात्म्यशालिनीम्।
प्रत्यक्षगम्यां सर्वां तामाहुः कौमारिलाः पुनः ॥
सत्ता पदार्थमात्रे स्यान्महासामान्यमुच्यते ।
द्रव्यत्वब्राह्मणत्वादि सामान्यं स्यादवान्तरम् ॥
महासामान्यमपरे नैवेच्छन्त्यनवस्थितेः ।
पुनस्तेन सहान्येषु सामान्यमतिरस्ति हि ॥
जातिमेवाकृतिं प्राहुः व्यक्तिराक्रियते यया ।
सामान्यं तच्च पिण्डानामेकबुद्धिनिबन्धनम् ॥
सर्ववस्तुषु बुद्धिश्च व्यावृत्यनुगमात्मिका ।
जायते द्वयात्मकत्वेन विना सा च न सिद्ध्यति ॥
नचाप्यन्यतरा भ्रान्तिरूपचारेण गम्यते ।
दृढत्वात्सर्वथा बुद्धेः भ्रान्तिस्तद्भ्रान्तिवादिनाम् ॥
निर्विशेषं न सामान्यं भवेच्छशविषाणवत् ।
सामान्यरहितत्वाच्च विशेषास्तद्वदेवहि ॥
विशेषतो हि जिज्ञासा ज्ञाते सामान्यतो मता ।
सामान्यस्यानुपगमे प्रश्नोत्तरपराहतिः ॥