सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

शब्दवादः 197
शब्दनित्यत्ववादे हि विस्तरेण निरूपिता ।
तस्मात्सर्वेऽपि सिद्धान्ताः विश्रान्ताः किल युक्तिषु।
13 इति कौमारिलमतमथ प्राभाकराः पुनः ।
नभोगुणं ध्वनिं शब्दं वर्णं चापि प्रचक्षते ॥
14 भर्तृमित्रस्तु वदति श्रोत्रं नाम न किंचन ।
ध्वनिजन्यो हि संस्कारः श्रोत्रमित्युच्यते त्विति॥
ध्वनिर्विषयसंस्कारं श्रोत्रसंस्कारमेव वा ।
करोति न तु संस्कारमात्रं श्रोत्रमितीतरे ॥
15 श्रोत्रमप्राप्यकारीति प्राहुस्तथागताः पुनः ।
श्रोत्रवृत्तिश्शब्ददेशं गच्छतीति हि कापिलाः ॥
शब्दस्स्वभूमेर्निष्क्रम्य सर्पतीत्यार्हतं मतम् ।
स्वस्मिन् गृह्णाति संभूतमिति तार्किकपद्धतिः ॥
ध्वनयश्श्रवणग्राह्याः वर्णाः व्यज्यन्त इत्यपि ।
वर्णनित्यत्वसिद्धान्ते प्राहुर्मीमांसका बुधाः ॥
16 वेदानित्यत्वभीत्यैव स्थाप्यते वर्णनित्यता ।
शब्दनित्यत्ववादस्थं वार्तिकं त्ववधार्यताम् ॥
स्थिते कूटस्थनित्यत्वे व्यवहारस्य नित्यता ।
कूटस्थेन विनैतेन न तस्यालम्बनं भवेत् ॥
प्रसिद्धत्वाद्दृते सर्वो व्यवहारो हि नेष्यते ।
तस्माद्वेदप्रमाणार्थं नित्यत्वमिह साध्यते ॥

198 मानमेयरहस्यश्लोकवार्तिके
नित्येषु सत्सु वर्णेषु व्यवहारात्क्रमोदयः ।
घटादिरचना यद्वत् नित्येषु परमाणुषु ॥
अणुकल्पाश्च वर्णांशाः न सन्त्यनुपलम्भनात् ।
द्रष्टव्यो विस्तरस्तत्र, चेत्कुतूहलशीलता ॥
तस्माच्छ्रोत्रग्राह्यतैव शब्दलक्षणमिष्यते ।
अर्थप्रत्यायकत्वं तु स्फोटवादिभिरुच्यते ॥
तत्रेतरैषां सिद्धान्तस्वान्तमित्थं विचिन्त्यते ।
वर्णानामेव वेदत्वे वाङ्मात्रं नित्यमापतेत् ॥
नहि वर्णाः स्वयं वेदाः वाक्यं तद्व्यपदेशभाक् ।
अस्वातन्त्र्यं तु संदर्भे स्यात्प्रवाहनिबन्धनम् ॥
तत्र प्रवाहनित्यत्वं संदर्भेऽपि समत्यजन् ।
तार्किका हीश्वरत्वं स्यात्तदानीं पुष्कलं त्विति ॥
(44) ध्वनिवादः.
1 एवं वर्णविकल्पोऽत्र संगृहीतः प्रमाणतः ।
अथ ध्वनिविकल्पोऽपि विद्वद्भिः श्रूयतां मुदे ॥
शब्दत्वं नाम सामान्यं ध्वनिमाहुः परे बुधाः ।
ध्वनिborder/नादश्च -> ध्वनिborder/नादश्च -> ध्वनिborder/नादश्च -> ध्वनिborder: ध्वनिborder -> ध्वनिborder -> ध्वनिनादश्च घोषश्चेत्यनर्थान्तरवादिनः ॥
अतएव हि संस्थासु दूरस्थैः श्रूयते ध्वनिः ।
न व्यञ्जनं न स्वरो वा न पदं वाक्यमेववा ॥

शब्दाः स्युस्तन्मते नूनं स्वरव्यञ्जनलक्षणाः ।
ततो विशेषसामान्यभा क्स्स्यात् ध्वनिशब्दयोः ॥
२ शब्दत्वव्याप्यसामान्यं ध्वनित्वं कतिचिद्विदुः ।
मतमेतत्तु बहुशो भवेत्तार्किकसम्मतम् ॥
३ अनेकव्यक्त्यभिव्यङ्ग्या जातिः स्फोट इति स्मृता ।
शाब्दिकैः व्यक्तयस्तास्तु ध्वनित्वेन प्रकल्पिताः ॥
तन्मते ध्वनयो ज्ञेयाः स्वरव्यञ्जनलक्षणाः ।
४ अनित्यस्फोटपक्षे तु ध्वनितत्त्वमिदं मतम् ॥
यः शब्दः प्रथमं जातः स स्फोट इति कीर्त्यते ।
तद्रूपप्रतिबिम्बावग्राहिणः सर्वतोमुखाः ॥
मन्दप्रदीपप्रकाशरूपभानक्रमेण ये ।
भासमानाः श्रुतिं वाणीं ध्वनयो विभजन्ति ते ॥
५ स्फोटानित्यत्वपक्षे तु यस्संयोगविभागजः ।
स ध्वनिः तदभिव्यङ्ग्यः स्फोटो वर्णविभागशः ॥
६ आदौ कारणतो जातः शब्दः कैश्चित् ध्वनिः स्मृतः।
नादो द्वितीयादिशब्दः तद्व्यङ्ग्यः स्फोट इष्यते ॥
७ तथाऽऽकाशगुणश्शब्दः ध्वनिस्स्यात् गौरवे मते ।
वर्णास्ते तदभिव्यङ्ग्याः तेऽप्याकाशगुणा मताः ॥
८ वायुसंयोगादिरेव संयुक्तादिस्स एव वा ।
ध्वनिरित्याहुरपरे वायव्यध्वनिवादिनः ॥

200 मानमेयरहस्यश्लोकवार्तिके
यद्वा वायुगुणश्शब्दो ध्वनिनादपदाभिधः ।
पूर्वकल्पेऽतीन्द्रियस्स्यात् द्वितीये श्रुतिगोचरः ॥
9 ध्वनिनादश्च घोषश्च वीणाघण्टादिभेदतः ।
प्रायेण व्यवहारेण विभिन्ना लोकविश्रुताः ॥
एवं ध्वनिविकल्पस्तु बहुधा प्रसमीक्ष्यते ।
शब्दनित्यत्वाधिकृतौ वाक्यपद्यां च विस्तृतः ॥
(45) अदृष्टवादः.
1 धर्माधर्मावदृष्टं स्याद्धर्मः स्वर्गादिसाधनम् ।
गङ्गास्नानादियागादेः व्यापारस्स तु कीर्तितः ॥
नाश्यस्त्वसौ कर्मनाशास्पर्शसंकीर्तनादिना ।
अधर्मो नरकादीनां हेतुर्निन्दितकर्मजः ॥
प्रायश्चित्तादिना नाश्यः जीववृत्ती त्विमौ गुणौ ।
संस्कारः पुंस एवेष्टः प्रोक्षणाभ्युक्षणादिभिः ॥
स्वगुणाः परमाणूनां विशेषाः पाकजा मताः ।
इमौ तु तत्त्वविज्ञानादपि क्वापि विनश्यतः ॥
अपूर्वं कर्मनिर्वर्त्यं वृद्धमीमांसका विदुः ।
2 शाबरा ब्रुवते धर्मं कर्म यागादिलक्षणम् ॥
तस्मात्फले प्रवृत्तस्य यागादेश्शक्तिमात्रकम् ।
उत्पत्तौ वाऽपि पश्चादेः अपूर्वं न ततः पृथक् ॥

अदृष्टवादः 20
3 अपूर्व एव वाक्यार्थः नियोगः धर्मशब्दितः ।
इति प्राभाकराः प्राहुः ते वाच्यापूर्ववादिनः ॥
4 कर्मजन्यो हि संस्कारः पुंसो बुद्ध्यादिवद्गुणः ।
तस्य चाफलसंयोगादवस्थितिरुपेयते ॥
स यागदानहोमादिजन्यो धर्मगिरोच्यते ।
ब्रह्महत्यादिजन्यस्तु सोऽधर्म इति कथ्यते ॥
इति कौमारिलाः प्राहुः ते कल्प्यापूर्ववादिनः ।
5 सांख्याः पुनः प्राहुरन्तःकरणस्याचिदात्मनः ॥
बुद्धेः वृत्तिविशेषं तत् अदृष्टमिति कल्पितम् ।
6 धर्मः स्यात् शाक्यभिक्षूणामदृष्टा चित्तवासना ॥
7 धर्मत्वेन व्यपदिशन्त्यार्हताः पुण्यपुद्गलान् ।
विभुरूपं तत्तु तत्त्वान्तरं चेत्यपि कीर्त्यते ॥
8 आराध्यदेवताप्रीतिरिति वैयासिकं मतम् ।
स च सर्वेश्वरस्यैव सङ्कल्प इति निर्णयः ॥
9 विस्तरस्तस्य च पुनर्विवेकाय विलिख्यते ।
शास्त्रैकसमधिगम्यं श्रेयसस्साधनं तु यत् ॥
स धर्म इति जैमिन्याचार्यैर्लक्षणमुच्यते ।
तस्यैव शाबरो भाट्टो गौरवो निर्णयः कृतः ॥
द्रव्यक्रियागुणादीनां धर्मत्वं स्थापयिष्यते ।
तेषामैन्द्रियकत्वेऽपि न ताद्रूप्येण धर्मता ॥
M.R. 26

202 मानमेयरहस्यश्लोकवार्तिके
श्रेयस्साधनता ह्येषां नित्यं वेदात्प्रतीयते ।
ताद्रूप्येण च धर्मत्वं तस्मान्नेन्द्रियगोचरः ॥
कार्यमात्रे कारणं तत् अदृष्टमिति वैदिकाः ।
तत्र लोकायताः प्राहुः कुतोऽदृष्टं प्रकल्प्यते ॥
नित्यसत्त्वा भवन्त्येके नित्यासत्त्वाश्च केचन ।
विचित्राः केचिदित्यत्र तत्स्वभावो नियामकः ॥
वह्निरुष्णो जलं शीतं समस्पर्शस्तथाऽनिलः ।
केनेदं चित्रितं तस्मात् स्वभावाद्द्व्यवस्थितिः ॥
दृष्टेषु कारणेष्वेव सूक्ष्मो भेदः प्रकल्प्यताम् ।
किं धर्म्यन्तरक्लृप्त्येति तत्रेत्थं यौक्तिका विदुः ॥
10 जगतो यच्च वैचित्र्यं सुखदुःखादिभेदतः ।
कृपिसेवादिसाम्येऽपि विलक्षणफलोदयः ॥
अकस्मान्निधिलाभश्च विद्युत्पातश्च कस्यचित् ।
क्वचित्फलमयत्नेऽपि यत्नेऽप्यफलता क्वचित् ॥
तदेतद्दुर्धटं दृष्ट्वा कारणाव्यभिचारिणः ।
तेनादृष्टमुपेतव्यमस्य किंचन कारणम् ॥
अदृष्टो भूतधर्मस्तु जगद्वैचित्र्यकारणम् ।
यदि कश्चिदुपैयेत को दोषः कर्मकल्पने ॥
संज्ञामात्रे विवादश्च तथा सत्यावयोर्भवेत् ।
भूतवद्भूतधर्मस्य नच दृश्यत्वसंभवः ॥

अदृष्टवादः 20.
दृष्टश्च साध्वीसुतयोर्यमयोः तुल्यजन्मनोः ।
विशेषो वीर्यविज्ञानसौभाग्यारोग्यसम्पदाम् ॥
स्वाभाविकत्वं कार्याणां बहुधा सुनिराकृतम् ।
तस्मात्कर्मभ्य एवैष विचित्रजगदुद्भवः ॥
सापेक्षत्वादनादित्वात् वैचित्र्याद्विश्ववृत्तितः ।
प्रत्यात्मनियमाद्भुक्तेरस्ति हेतुरलौकिकः ॥
चिरध्वस्तं फलायालं न कर्मातिशयं विना ।
संभोगो निर्विशेषाणां न भूतैस्संस्कृतैरपि ॥
अथ स्यात्कर्मवैचित्र्यं कर्मान्तरकृतं यदि ।
अनवस्था स्वतः तस्माज्जगत्स्यादिति चेन्न तत् ।
कर्मणां शास्त्रतो ज्ञाता विचित्रफलशक्तता ।
दृष्टार्थेषु च वाक्येषु दृष्टा प्रत्यक्षतश्च सा ॥
तस्माद्दृष्टस्य कार्यस्य युक्ता कारणकल्पना ।
कारणस्य त्वदृष्टत्वे किं हेत्वन्तरचिन्तया ॥
हेत्वन्तरनिमित्तेऽपि कर्मवैचित्र्यकल्पने ।
संसारस्य ह्यनादित्वात्नानवस्था भयावहा ॥
शपता यत्कृतं पुण्यं शप्यमानमुपैति तत् ।
शप्यमानस्य यत्पापं शपन्तमुपगच्छति ॥
तथाच पुण्यः पुण्येन पापः पापेन कर्मणा ।
जायते जन्तुरित्येवं धर्मशास्त्रेषु पठ्यते ॥

204 मानमेयरहस्यश्लोकवार्तिके
11 इति यौक्तिकसिद्धान्ते धर्मादिरनुमीयते ।
चोदनैकाधिगम्यत्वसिद्धान्ते किंचिदुच्यते ॥
विहितप्रतिषिद्धत्वे मुक्त्वाऽन्यत् न च कारणम् ।
धर्माधर्मावबोधस्य तेनायुक्ताऽनुमानगीः ॥
अनुग्रहाच्च धर्मत्वं पीडातश्चाप्यधर्मताम् ।
वदतो जपसीध्वादिपानादौ नोभयं भवेत् ॥
क्रोशता हृदयेनापि गुरुतल्पादिगामिनाम् ।
भूयान् धर्मः प्रसज्येत भूयसी ह्युपकारिता ॥
अनुमानप्रधानस्य प्रतिषेधानपेक्षिणः ।
हृदयक्रोशनं कस्मात् दृष्टां पीडामपश्यतः ॥
पीडातश्चाप्यधर्मत्वं तथा पीडामधर्मतः ।
अन्योन्याश्रयमाप्नोति विना शास्त्रेण साधयन् ॥
तस्मादनुग्रहं पीडां तद्भावमपास्य च ।
धर्माधर्मार्थिभिर्नित्यं मृग्यौ विधिनिषेधकौ ॥
हिंसायाः विषयो यादृक् प्रेत्य कर्तुस्तथाविधम् ।
फलं प्रजायते यद्वच्छास्त्रोक्ते दानकर्मणि ॥
मां स भक्षयिताऽमुत्र यस्य मांसमिहाद्म्यहम् ।
एतन्मांसस्य मांसत्वं प्रवदन्ति मनीषिणः ॥
य एवमाह तस्यापि गुरुस्त्रीगमनादिभिः ।
सुरापानादिभिश्चापि विपक्षैः व्यभिचारिता ॥

अदृष्टवादः 20
क्षत्रं क्षत्रस्य यद्धर्मः नास्ति तस्मात्परं भुवि ।
इति सृष्टिप्रकरणे श्रुता शातपथी श्रुतिः ॥
12 इत्याहुर्धर्ममीमांसाविदो यद्यपि युक्तितः ।
तथापीदं बुधास्तत्र विमृशन्ति धिया यथा ॥
अनुग्रहो निग्रहो वा नैकस्यात्र विवक्षितः ।
अन्यथा दण्ड्यदण्डादावपि पापादि संभवेत् ॥
निग्राहकं भूयसां यत् यच्चानुग्राहकं तथा ।
विवक्षितं तदेवात्र जपादिष्वपि चास्ति तत् ॥
यत्परंपरया साक्षाद्वा स्याच्चेदुपकारकम् ।
भूयसां धर्म एवासौ विपरीतं विपर्ययः ॥
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः ।
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥
आर्याः प्रशंसन्ति यत्तु क्रियमाणमितीरितम् ।
आपस्तम्बादिभिः व्यासमहर्षिप्रमुखैः पुनः ॥
श्लोकार्धेन प्रवक्ष्यामि यदुक्तं ग्रन्थकोटिभिः ।
परोपकारः पुण्याय पापाय परपीडनम् ॥
इत्युदीरितमेतेन निष्कृष्टार्थोऽयमुच्यते ।
एतावज्जन्मसाफल्यं प्राणिनामिह देहिषु ॥
प्राणैरर्थैर्धिया वाचा श्रेयआचरणं सदा ।
निष्कर्षोऽयं सर्वनरदेशकालानुपप्लुतः ॥

206 मानमेयरहस्यश्लोकवार्तिके
13 कर्मानुष्ठानजनितदेवताबुद्धिरेव हि ।
अदृष्टमिति सिद्धान्तः बादरायणसम्मतः ॥
यागो हि देवतापूजा पूजनं प्रीणनं मतम् ।
अतो यज्ञाराधितस्सन् फलं देवः प्रयच्छति ॥
नच प्रीतेरपूर्णत्वं नच कोपात्सदुःखता ।
फलप्रदित्सारूपत्वादुभयोरपि कर्मणोः ॥
विग्रहो हविरादानं युगपत्कर्मसन्निधिः ।
प्रीतिः फलप्रदानं च देवतानां न विद्यते ॥
इति लाघवयुक्तिस्तु शास्त्रेणैव व्यपोद्यते ।
प्रजया पशुभिश्चैव तृप्त एनं समर्धयेत् ॥
अन्नादो वसुदानश्चेत्याद्याः बह्वीरधीयते ।
यथा स्वर्गपरो वेदः तथा वै देवतापरः ॥
प्रत्यक्षमुभयं कस्माद्देवताद्वेषसंभवः ।
कृष्यादौ मर्दनादौ च फलं स्यात्स्वस्वशक्तितः ।
न तद्वदेव शास्त्रीये कर्मण्यपि कुतो भवेत् ।
नहि दृष्टान्तमात्रेण श्रुतस्य त्याग इष्यते ॥
राज्ञामाज्ञानुवृत्त्यादेः प्रीतिकोपौ हि सिध्यतः ।
प्रधानकर्मवत्प्रीतिः गुणकर्मस्वपीष्यते ॥
केचित्सत्त्वसमुद्रेकं द्रव्यादिष्वनुजानते ।
सोऽपीशसंकल्पनिघ्नः तं विना न तृणं चलेत् ॥

अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च ।
इत्याह भगवान् देवः सर्वदेवमयोऽच्युतः ॥
आत्मनां विभुतासिद्धयै गीताऽधीता कुमारिलैः ।
अन्यत्र विस्मृता कस्मात् प्रमादो धीमतामपि ॥
तस्मादिन्द्राद्यपायेऽपि न फलस्य च्युतिः क्वचित् ।
सुप्तिर्मृतिः यस्य न स्तः तस्य चाज्ञा श्रुतिः स्मृतिः ॥
पितृत्वं देवतात्वं च केषां चित्कर्मणां फलम् ।
तेषां समाराध्यताऽतः द्वारं तत्सर्वशासितुः ॥
बहुधा दृश्यते धर्मः दुर्ज्ञानः सूक्ष्म इत्यपि ।
महर्षयोऽपि धर्मज्ञाः प्राहुरन्यत्र विस्तरः ॥
(46) कर्मविभागवादः.
1 वेदेन सकलं कर्म काम्यमेवोपदिष्यते ।
इत्येतत् भर्तृमित्रादेः मतमित्यूहितुं क्षमम् ॥
यतस्ते नोपगच्छन्ति फलं नित्यनिषिद्धयोः ।
इति कौमारिलाः प्राहुरित्यूचे पार्थसारथिः ॥
निषिद्धस्य फलाभावे न त्याज्यमितिचेन्न तत् ।
द्विजातिकर्मणो हानिः परत्रासिद्धिरित्यपि ॥
तमेते नरकं प्राहुरिति गौतमसूत्रणम् ।
नरकं स्यान्त्यक्करणं नीचैर्गमनमेव वा ॥

208 मानमेयरहस्यश्लोकवार्तिके

नास्यास्मिन् रमणं वेति निरुक्तं यास्कसूरिणा ।
इति गौतमशास्त्रस्य भाष्ये मस्करिणोदितम् ॥
विहितस्याननुष्ठानान्निन्दितस्य च सेवनात् ।
अनिग्रहाच्चेन्द्रियाणां नरः पतनमृच्छति ॥
हिंसास्तेयानृताब्रह्मचर्यग्रहणभेदतः ।
निषिद्धं कर्म सकलं संजग्राह पतञ्जलिः ॥
यत् शौचसंतोषतपस्स्वाध्यायेश्वरसेवनम् ।
विहितस्य च सर्वस्य पञ्चधा संग्रहो ह्ययम् ॥
2 नित्यकाम्यविभेदेन विहितं द्विविधं पुनः ।
काम्यमेव हि कर्मेति यदि मीमांसका विदुः ॥
सर्वस्यैव च काम्यत्वे कामना न भवेद्यदि ।
सर्वोऽपि वैदिकः पन्थाः भवेद्दत्तजलाञ्जलिः ॥
कैश्चित्तु सकलं कर्म नित्यमेवेति भण्यते ।
तथात्वे पुरुषाशक्त्या शास्त्रं हि स्यादवत्सलम् ॥
तन्नित्यकाम्यभेदेन विभागो न्यायविन्मतः ।
तत्र नित्यं तु शक्याङ्गं काम्यमुक्ताङ्गकं मतम् ॥
नित्यकाम्यस्वरूपैक्ये विनियोगपृथक्त्वतः ।
फलार्थं क्रियमाणेऽपि नित्यं भवति तन्त्रतः ॥
नित्येन काम्यसिद्धिं तु कल्पकाराः प्रचक्षते ।
प्रत्यवायपरीहारफलं नित्यं प्रचक्षते ॥

हिंसावादः 209
पापक्षयफलं केचित् काम्यं चापि क्वचित् यदा ।
आरब्धे कामनाहानादुक्ताङ्गशक्तिसंभवे ॥
नित्यं सामान्यफलतः काम्यं फलविशेषतः ।
पापक्षयादिस्सामान्यं पश्वादिस्तु विशेषतः ॥
प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते ।
एवमेव प्रवृत्तिश्चेच्चैतन्येनास्य किं फलम् ॥
3 नैमित्तिकं कर्मभेदं प्रायश्चित्तादिलक्षणम् ।
प्राहुः परे तत्तु कर्म काम्यमेवेति केचन ॥
(47) हिंसावादः.
1 कर्माङ्गपशुहिंसादिः हिंसेत्येव हि कापिलाः ।
यत्पशुर्मायुमित्यादिमन्त्रलिङ्गेन सा दृढा ॥
तत्त्याज्यं दोषवदिति चान्ववादीद्यदूत्तमः ।
यज्ञदानतपःकर्म न त्याज्यमिति चाब्रवीत् ॥
2 अपि पापं निषिद्धं स्यात् श्येनस्य विहितत्वतः
यागाङ्गपशुहिंसावत् हिंसात्वं नेति केचन ॥
3 साक्षान्मरणहेतुर्यः स हिंसाशब्दशब्दितः ।
श्येनस्यातादृशत्वेन न हिंसेत्यपरे विदुः ॥
अदृष्टद्वारकत्वेन मृतिः कैश्चिद्विवक्ष्यते ।

[Header]
मानमेयरहस्यश्लोकवार्तिके

अभिचारे कृते प्रायश्चित्तस्यापि विधानतः ।
अधर्म एव श्येनादिरिति तार्किकपद्धतिः ॥
धर्मस्त्विष्टस्य बलवदनिष्टाननुबन्धिनः ।
साधनं स्यात्ततो हिंसानिषेधश्श्येनगोचरः ॥
4 मीमांसकास्तु श्येनस्य धर्मत्वमनुजानते ।
तत्र कौमारिलमते हिंसा श्येनफलं मतम् ॥
अभिचारो हि मरणानुगुणव्यापृतिर्मता ।
श्येनो विधीयते तस्मान्न निषेधस्य गोचरः ॥
तथाऽपि तामसत्वेन शिष्टास्तावन्न कुर्वते ।
प्रभाकरमते श्येनापूर्वं कर्तव्यमिष्यते ॥
यागो निषेधविषयः विरोधविरहस्ततः ।
प्रायेणाधर्म इत्येव परेषामिव सम्मतः ॥
कर्मस्वपि च काम्येषु विधिरेव प्रवर्तकः ।
फलरागात्प्रवृत्तिश्चेत् निषिध्येत क्रतौ वधः ॥
साध्यसाधनविध्यन्तलक्षणांशत्रयस्थिता ।
हिंसा तत्र फलांशस्था निषेधविषयो मता ॥
अङ्गद्वये तु या नाम तन्निषेधाभिधायिनाम् ।
अविशेषेण यच्छास्त्रं शिरोवदिति चोत्तरम् ॥
निषेधेनानवष्टब्धे विषये न ह्यनर्थता ।
प्रत्यक्षादेरशक्यत्वात् कल्प्यते निष्प्रमाणिका ॥

हिंसावादः 21
ज्ञानमेव च शक्तीनां नावापोद्वापनक्रियाः ।
ज्ञायन्ते शास्त्रतस्तास्तु क्रियाभेदव्यवस्थिताः ॥
व्यवस्थाश्चाशक्तिभेदानां दृष्टार्थेष्वपि कर्मसु ।
अभिन्नत्वेऽपि दृश्यन्ते भुजेः स्वस्थातुरेष्वपि ॥
इति वार्तिककारीययुक्तिसिद्धान्तसंग्रहः ।
5 अथ वेदान्तिनां तत्त्वविदां सिद्धान्तसंग्रहः ॥
अनर्थपर्यवसितः दुःखस्य जनकश्च यः ।
व्यापारस्त हि हिंसेति श्रीरामानुजनिर्णयः ॥
सर्वापहारे नाव्याप्तिः नातिव्याप्तिश्चिकित्सने ।
यज्ञे वधोऽवधो यस्मात्पशुर्देवत्वमृच्छति ॥
यत्किंचिदपि कार्यं तु नियोगादेव कुर्वताम् ॥
न प्रत्यवायशङ्काऽस्ति शासनादिव भूभृताम् ॥
श्येनादिवचनं शत्रुहिंसायत्तवतां स्वतः ।
उपायबोधनपरमिति वैषम्यकल्पना ॥
तत्र प्रायश्चित्तकाम्यपश्वालम्भनकर्मणाम् ।
प्रत्यवायापादकत्वप्रसङ्गः श्येनसाम्यतः ॥
अकुर्वन् विहितं कर्म निन्दितं च समाचरन् ।
प्रसजंश्चेन्द्रियार्थेषु प्रायश्चित्ती भवेन्नरः ॥
इत्यादिशास्त्राद्विहिताकरणादिनिमित्ततः ।
प्रत्यवायाद्धि भीतोऽसौ प्रायश्चित्तमिहेच्छति ॥

कामी च पुत्रपश्वन्नस्वर्गभूत्यादिसाधने ।
प्रवर्त्ततेऽतः श्येनादिसाम्यं स्यान्निष्प्रतिक्रियम् ॥
तत्त्वटीकाकृतामुक्तिरत्रैषाऽप्यवधार्यताम् ।
एषौपनिषदानां स्यात् गतिः प्रायेण सम्मता ॥
मुमुक्षुत्वामुमुक्षुत्वदशाभेदेन कर्मिणः ।
कर्मैकं पापपुण्यत्वे साध्यैक्येऽपि समश्रुते ॥
श्येनादेश्चोदितस्यैव द्वैरूप्यं द्विविधश्रुतेः ।
एकस्यैवैकदैवास्ति कालभेदे तु किम्पुनः ॥
श्येनेषुवज्रप्रभृतिष्वपि नानर्थचोदना ।
इष्टस्यारातिभङ्गादेरुपायांशोपदेशतः ॥
घोरोपायान्तरेभ्यश्च लभ्येतात्र निवारणा ।
लघुनिष्कृतिनिस्तार्यं ह्यभिचारं प्रचक्षते ॥
किंचानभिचरन् षट्सु पतेदित्यपि शिष्यते ।
तेन धर्मोपयुक्तत्वमाततायिवधे विदुः ॥
6 वेदो हिंसामयस्तस्मादनुपादेय इत्यपि ।
आपाततस्तु पश्यन्तो बाह्या नार्हन्ति शङ्कितुम् ॥
7 अथ कार्त्तयुगो धर्मः पुंविशेषव्यवस्थितः ।
नारायणीये विस्पष्टः भारते शान्तिपर्वणि ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
ऋषीणां चैव संवादं त्रिदशानां च भारत ॥

हिंसावादः २
अजेन यष्टव्यमिति प्राहुर्देवाः द्विजोत्तमान् ।
स चाप्यजश्छाग एव नान्यः पशुरिति स्थितिः
बीजैर्यज्ञेषु यष्टव्यमित्याहुर्मुनयः पुनः ।
अजसंज्ञानि बीजानि छागं नो हन्तुमर्हथ ॥
व्रीह्यादिभिः पुनरजैः त्रिवर्षपरमोषितैः ।
बीजैरजं पिष्टमयं कृत्वा यष्टव्यमित्यपि ॥
नैष धर्मः सतां देवाः यत्र वध्येत वै पशुः ।
अथ ते संविदं कृत्वा विबुधा ऋषयस्तथा ॥
अपृच्छन् सहसाऽभ्येत्य वसुं राजानमन्तिकात्
भो राजन् केन यष्टव्यं अजेनाहोस्विदौषधैः ॥
देवानां तु मतं ज्ञात्वा वसुना पक्षसंश्रयात् ।
छागेनानेन यष्टव्यमेवमुक्तं वचस्तदा ॥
कुपितास्ते ततस्सर्वे मुनयस्सूर्यवर्चसः ।
सुरपक्षो गृहीतस्ते यस्मात्तस्माद्दिवः पत ॥
तत एनं समुत्क्षिप्य सहसा विनतासुतः ।
उत्पपात नभस्तूर्णं ततश्चैनममुञ्चत ॥
तस्मिन् मुहूर्ते संजज्ञे राजोपरिचरो वसुः ।
सशरीरो गतश्चैव ब्रह्मलोकान् नृपोत्तमः ॥
इदं कृतयुगं नाम कालः श्रेष्ठः प्रवर्तितः ।
अहिंस्या यज्ञपशवः युगेऽस्मिन्न तदन्यथा ॥

214 मानमेयरहस्यश्लोकवार्त्तिके
चतुष्पात्सकलो धर्मः भविष्यत्यत्र वै सुराः ।
ततस्त्रेतायुगं नाम त्रयी यत्र भविष्यति ॥
प्रोक्षिता यत्र पशवः वधं प्राप्स्यन्ति वै मखे ।
यत्र पादश्चतुर्थो वै धर्मस्य न भविष्यति ॥
यत्र देवाश्च यज्ञाश्च तपस्सत्यं दमस्तथा ।
अहिंसाधर्मसंयुक्ताः प्रचरेयुस्सुरोत्तमाः ॥
स वो देशस्सेवितव्यः मा वो धर्मः पदा स्पृशेत्
इत्याह भगवान् साक्षाद्देवान्प्रति हरिः स्वयम् ॥
8 अतीते तु महाकल्पे जातो विद्वान् बृहस्पतिः ।
तस्य शिष्यो बभूवाग्र्यो राजोपरिचरो वसुः ॥
स राजा भावितः पूर्वं दैवेन विधिना वसुः ।
पालयामास पृथिवीं दिवमाखण्डलो यथा ॥
तस्य यज्ञो महानासीत् अश्वमेधो महात्मनः ।
बृहस्पतिरुपाध्यायः तत्र होता बभूव ह ॥
प्रजापतिसुताश्चात्र सदस्याश्चाभवन् त्रयः ।
एकतश्च द्वितश्चैव त्रितश्चैव महर्षयः ॥
संभृतास्सर्वसंभाराः तस्मिन् राजन् महाक्रतौ ।
न तत्र पशुघातोऽभूत् राजैवावस्थितोऽभवत् ॥
अहिंस्रश्शुचिरक्षुद्रः निराशीः सर्वसंस्तुतः ।
आरण्यकपदोद्भूता भागास्तत्रोपकल्पिताः ॥

हिंसावादः 215
प्रीतस्ततोऽस्य भगवान् देवदेवः पुरातनः ।
साक्षात्तं दर्शयामास सोऽदृश्योऽन्येन केनचित् ॥
स्वयंभागमुपाघ्राय पुरोडाशं गृहीतवान् ।
अदृश्येन कृतो भागः देवेन हरिमेधसा ॥
पशुयज्ञैः कथं हिंस्रैर्मादृशो यष्टुमर्हति ।
अन्तवद्भिरुत प्राज्ञः क्षत्रयज्ञैः पिशाचवत् ॥
शान्तियज्ञरतो दान्तः ब्रह्मयज्ञे स्थितो मुनिः ।
वाङ्मनःकर्मयज्ञश्च भविष्याम्युपगायने ॥
कुर्याद्धृतपशुं सङ्गे कुर्यात्पिष्टपशुं तथा ।
न त्वेव तु वृथा हन्तुं पशुमिच्छेत्कदाचन ॥
९ पुरूरवस आख्याने पुराणे वैष्णवेऽपिच ।
एकोऽग्निरादावभवत् स च त्रेधा प्रवर्तितः ॥
तेन मन्वन्तरे तत्र ततो यज्ञसमुद्भवः ।
इति श्रुतं ततः पूर्वं हिंसा नास्तीति गम्यते ॥
एवंच देशकालादेर्विपर्य्यासात्तदातदा ।
हिंसाऽहिंसाविभागः स्यात्पुंशक्त्यनुगुणस्त्वसौ ॥
१० अत्र केचित्पुरा हिंसाबहुला जगति स्थिता ।
प्रवृत्तिरथ बुद्धादेरुपदेशादनन्तरम् ॥
अहिंसा प्रथमो धर्मः इति सर्वत्र सुस्थितम् ।
स एव धर्मः प्रागासीदस्माकमिति वैदिकैः ॥

216 मानमेयरहस्यश्लोकवार्तिके
पुराणपुरुषैर्व्यासपराशरमुखैर्बुधैः ।
परिष्कृतो वेदमार्ग इति युक्त्या प्रचक्षते ॥
तदिष्टमपिचास्माकं अनादित्वेन जानताम् ।
व्यवहारं प्रपञ्चस्य चक्रवत्परिवर्तितम् ॥
अनादितोऽप्यहिंसायाः धर्मत्वे परिनिष्ठिते ।
बुद्धेनापि हि तत्साक्षात्कर्तुं शक्येत नान्यथा ॥
तस्मादहिंसाधर्मत्वं देशकालानुपस्कृतम् ।
आविर्भावतिरोभावौ देशे काले भविष्यतः ॥
सनातनस्स एवासौ धर्म इत्याहुरादिमाः ।
मन्वाद्याः परमोदाराः तस्मात्सर्वं समञ्जसम् ॥
(48) अदृष्टसामर्थ्यम्.
1 अथात्रावसरात्कर्मसामर्थ्ये किंचिदुच्यते ।
कर्मप्राधान्यवाङ्मात्रान्मूढाः पौरुषशालिनः ॥
अचेष्टमानमासीनं श्रीः कंचिदुपतिष्ठति ।
कर्मी कर्मापि कृत्वाऽन्यो न प्राश्यमधिगच्छति ॥
अज्ञो जन्तुरनीशोऽयमात्मनस्सुखदुःखयोः ।
ईश्वरप्रेरितो गच्छेत् स्वर्गं वा श्वभ्रमेववा ॥
कर्मादिनिरपेक्षं च कारणं परमेश्वरः ।
सर्वेषामिति सिद्धान्तमाहुः पाशुपताः परे ॥