मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 255, कुल 672 में से
संदर्भ में पढ़ेंहिंसावादः २
अजेन यष्टव्यमिति प्राहुर्देवाः द्विजोत्तमान् ।
स चाप्यजश्छाग एव नान्यः पशुरिति स्थितिः
बीजैर्यज्ञेषु यष्टव्यमित्याहुर्मुनयः पुनः ।
अजसंज्ञानि बीजानि छागं नो हन्तुमर्हथ ॥
व्रीह्यादिभिः पुनरजैः त्रिवर्षपरमोषितैः ।
बीजैरजं पिष्टमयं कृत्वा यष्टव्यमित्यपि ॥
नैष धर्मः सतां देवाः यत्र वध्येत वै पशुः ।
अथ ते संविदं कृत्वा विबुधा ऋषयस्तथा ॥
अपृच्छन् सहसाऽभ्येत्य वसुं राजानमन्तिकात्
भो राजन् केन यष्टव्यं अजेनाहोस्विदौषधैः ॥
देवानां तु मतं ज्ञात्वा वसुना पक्षसंश्रयात् ।
छागेनानेन यष्टव्यमेवमुक्तं वचस्तदा ॥
कुपितास्ते ततस्सर्वे मुनयस्सूर्यवर्चसः ।
सुरपक्षो गृहीतस्ते यस्मात्तस्माद्दिवः पत ॥
तत एनं समुत्क्षिप्य सहसा विनतासुतः ।
उत्पपात नभस्तूर्णं ततश्चैनममुञ्चत ॥
तस्मिन् मुहूर्ते संजज्ञे राजोपरिचरो वसुः ।
सशरीरो गतश्चैव ब्रह्मलोकान् नृपोत्तमः ॥
इदं कृतयुगं नाम कालः श्रेष्ठः प्रवर्तितः ।
अहिंस्या यज्ञपशवः युगेऽस्मिन्न तदन्यथा ॥