मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 258, कुल 672 में से
संदर्भ में पढ़ें216 मानमेयरहस्यश्लोकवार्तिके
पुराणपुरुषैर्व्यासपराशरमुखैर्बुधैः ।
परिष्कृतो वेदमार्ग इति युक्त्या प्रचक्षते ॥
तदिष्टमपिचास्माकं अनादित्वेन जानताम् ।
व्यवहारं प्रपञ्चस्य चक्रवत्परिवर्तितम् ॥
अनादितोऽप्यहिंसायाः धर्मत्वे परिनिष्ठिते ।
बुद्धेनापि हि तत्साक्षात्कर्तुं शक्येत नान्यथा ॥
तस्मादहिंसाधर्मत्वं देशकालानुपस्कृतम् ।
आविर्भावतिरोभावौ देशे काले भविष्यतः ॥
सनातनस्स एवासौ धर्म इत्याहुरादिमाः ।
मन्वाद्याः परमोदाराः तस्मात्सर्वं समञ्जसम् ॥
(48) अदृष्टसामर्थ्यम्.
1 अथात्रावसरात्कर्मसामर्थ्ये किंचिदुच्यते ।
कर्मप्राधान्यवाङ्मात्रान्मूढाः पौरुषशालिनः ॥
अचेष्टमानमासीनं श्रीः कंचिदुपतिष्ठति ।
कर्मी कर्मापि कृत्वाऽन्यो न प्राश्यमधिगच्छति ॥
अज्ञो जन्तुरनीशोऽयमात्मनस्सुखदुःखयोः ।
ईश्वरप्रेरितो गच्छेत् स्वर्गं वा श्वभ्रमेववा ॥
कर्मादिनिरपेक्षं च कारणं परमेश्वरः ।
सर्वेषामिति सिद्धान्तमाहुः पाशुपताः परे ॥