सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

परमाणुवादः 107
जालसूर्यमरीचिस्थं यत्सूक्ष्मं दृश्यते रजः ।
प्रथमं तत्प्रमाणानां त्रसरेणुरिति स्मृतिः ॥
त्रसरेणुपदं मण्डपादिवद्रूढमिष्यते ।
त्रिभिश्च सहितो रेणुस्त्रसरेणुरितीपरे ॥
7 अनन्तावयवत्वं चाप्यणोरिच्छन्ति केचन ।
विभज्यमाने नाभावपरिशेषः प्रसज्यते ॥
मेरुसर्षपवैधर्म्यं देशव्याप्त्या न संख्यया ।
व्यक्त्यानन्त्येऽपि जात्योस्तां परताऽपरते यथा ॥
अण्वंशानामनन्तत्वे गन्तॄणां तदतिक्रमः ।
कदाऽपि न स्यात्, किं न स्याद्वेगातिशयवैभवात्॥
द्युमणेरातपस्सर्पन्नुदयाद्रिशिखामणेः ।
तत्क्षणं किं न निर्भाति पश्चिमाद्रिशिखण्डकः ॥
नन्वनन्तावयवता मूर्त्तैरवयवैर्मिथः ।
अन्तरं त्वप्रयच्छद्भिः सर्वदिग्व्याप्तिकारिणी ॥
एकेन सर्षपेणैव पूर्येत सकलं जगत् ।
अतोऽनवयवाः केचित्स्वीकर्त्तव्याः किलेति चेत् ॥
अनन्तावयवत्वे तु सर्वदिग्व्याप्तिरित्यसत् ।
तावद्देशोऽपि सौक्ष्म्येणानन्तावयवसंभवात् ॥
सर्वापकृष्टः संघातस्सत्त्वादेरणुरित्यपि ।
सांख्यैरुक्तं निरंशाऽपि प्रकृतिश्चेति भाषितम् ॥

08 मानमेयरहस्यश्लोकवार्तिके
निरंशा प्रकृतिस्सैव परिणामविभागिनी ।
अनन्तांशात्मिका चेति विरुद्धं सांख्यदर्शनम् ॥
8 शास्त्रैकविषयत्वे च परमाणोर्न सिद्ध्यति ।
नित्यस्पर्शादियोगित्वं भूतानां विकृतित्वतः ॥
निर्धर्मका निराधारा प्रकृतिर्यद्यदिष्यते ।
निर्धर्मका निराधारा अणवः बौद्धसम्मताः ॥
आगमालम्बने कार्यं कारणे प्रतितिष्ठति ।
अन्ततः प्रकृतिस्साऽपि परे ब्रह्मणि तिष्ठति ॥
तदपि स्वे महिम्नीति यदि वा नेति चेत्यपि ।
श्रूयतेऽतो निराधारं सर्वाधारं परं पदम् ॥
वाचक्रवीयाज्ञवल्क्यसंवादोऽप्ययमेव हि ।
बृहदारण्यकेऽधीतः विचारोऽसौ महान् ततः ॥
9 जगत्कारणमेवेदं सर्वैर्जिज्ञास्यते ततः ।
सधर्मकांश्च साधारणान् पीलून् वैशेषिका विदुः ॥
तेभ्योऽपिच परां सूक्ष्मां प्रकृतिं कापिला विदुः ।
ततोऽपि परमं सूक्ष्मं ब्रह्मोपनिषदा विदुः ॥
10 सृष्टिप्रलयसंतानं शाबरा न प्रपेदिरे ।
न कदाचिज्जगच्चैतदनीदृगिति तन्मतम् ॥
केचित्पौराणिकाः कल्पमेकमेव विदुः ततः ।
तेषामेका सृष्टिरिष्टा प्रलयोऽप्येक एव हि ॥

शरीरवादः 10
एत एव तु कल्पान्तजीववादिन ईरिताः ।
परे सर्वे सृष्टिभङ्गप्रवाहानादिवादिनः ॥
तस्मात्कारणवाक्यानि सर्वासूपनिषत्स्वपि ।
लयपूर्वां सृष्टिमाहुः सृष्टिपूर्वो लयो यतः ॥
तत्र वैशेषिकाः सर्वजीवानां मुक्तिवादिनः ।
ते वै मताः सृष्टिभङ्गप्रवाहस्यान्तवादिनः ॥
ये पुनर्नित्यसंसारवादिवेदान्तिनो बुधाः ।
तेषां सृष्टिप्रवाहोऽयमनन्तोऽनादिरप्यसौ ॥
नित्यसंसार्यभावेऽपि जीवानन्त्यवचोबलात् ।
लीलाभूतिर्भगवतोऽनन्तेति सुधियो विदुः ।
(25) शरीरवादः
1 शरीरस्य स्वरूपं हि विज्ञेयं सर्ववादिभिः ।
तद्धेयं क्षणिकं चात्मभ्रमकारणमुच्यते ॥
अनुकूलो हि सर्वेषामात्मा, तादात्म्यविभ्रमात् ।
आनुकूल्यधिया प्रीतिर्देहे यादृशि तादृशि ॥
चेष्टेन्द्रियार्थाश्रयत्वं शरीरत्वं निरुच्यते ।
इष्टप्राप्त्याद्यनुगुणा क्रिया चेष्टेति कथ्यते ॥
आधेयत्वं विधेयत्वं शेषत्वं नियतं तु यत् ।
शरीरशब्दप्रवृत्तिनिमित्तमिति कैश्चन ॥

10 मानमेयरहस्यश्लोकवार्तिके
वायवीयं तैजसं च जलीयं पार्थिवं तथा ।
चतुर्विधं शरीरं स्यात् कारणं च चतुर्विधम् ॥
भवेदुपष्टम्भकं तु प्रत्येकमितरत्त्रयम् ।
आरम्भकं सजातीयमन्यथा जातिसंकरः ॥
तच्छरीरं द्विधं ज्ञेयं मानसं यौनमित्यपि ।
देवर्ष्याद्या मानसास्स्युः योनिजास्त्वितरे मताः ॥
वाय्वादिषु हि लोकेषु तेते देहा व्यवस्थिताः ।
इति तार्किकसिद्धान्तः तत्र मीमांसका विदुः ॥
2 पार्थिवा एव देहाः स्युः ते सर्वे योनिजा मताः ।
देवाश्च देवलोकाश्च न प्रमाणपदे स्थिताः ॥
विग्रहो हविरादानं युगपत्कर्मसन्निधिः ।
तृप्तिः फलप्रदानं च देवतानां न विद्यते ॥
ततश्चैतन्यरहितदेवतावादिनस्त्विमे ।
इन्द्रादिशब्दरूपास्ताः ते शब्दाः स्वाभिधायिनः ॥
सर्वं शब्दात्मकमिति हर्यादिषु वदत्स्विह ।
शब्दात्मदैवतविदां कोऽपराधोऽतिरिच्यते ॥
3 अत्रेदमवधातव्यं कुमारिलमुखोद्गतम् ।
ग्रहैकत्वाधिकरणतन्त्रवार्तिकसंगतम् ॥
ऋग्वेदादिसमूहेषु क्षेत्रज्ञा ये प्रतिष्ठिताः ।
तेषां वाऽयमभिप्रायः स्याद्विवक्षाऽविवक्षयोः ॥

शरीरवादः 111
महाभौतिकदेहस्थाः यथाऽऽत्मानस्सचेतनाः ।
किंचिदर्थं विवक्षन्ति न विवक्षन्ति चापरम् ॥
तेषामन्तर्गताऽपीच्छा तद्वाक्यार्थविचारिभिः ।
ज्ञायते शब्दशक्त्यैव स्फुरन्तीव बहिःस्थिता ॥
देहभेदप्रकाराश्च कर्मशक्तिवशानुगाः ।
प्रकृत्यारम्भवैचित्र्यात् दृश्यन्ते परमात्मनाम् ॥
पार्थिवावयवप्रायाः शेषतोयाद्यनुग्रहात् ।
जरायुजादयो देहाः दृष्टा भुवि चतुर्विधाः ॥
भूतान्तरानुबद्धेन तोयेनैव विनिर्मिताः ।
श्रूयन्ते वारुणे लोके देहाः स्वच्छाङ्गलक्षणाः ॥
अन्तरिक्षे च बहवः प्राणिनो वातनिर्मितैः ।
भ्रमन्ति लघुभिस्सूक्ष्मैः देहैर्भूम्याद्यनुग्रहात् ॥
स्वर्लोके तैजसप्रायाः देहाः शुद्धप्रभान्विताः ।
आप्यायन्ते विकीर्णेन भानवीयेन तेजसा ॥
ये हि स्वर्गं यन्ति लोकं जनाः पुण्यकृतस्त्विह ।
ज्योतींषि तेषामेतानि नक्षत्राणीति वै श्रुतिः ॥
तथा व्योमशरीरोऽपि परमात्मा श्रुतौ श्रुतः ।
इज्यते वारिणा नित्यं यः खं ब्रह्मेति चोदितः ॥
रूपस्पर्शादयो येऽपि महाभूतगुणाः स्थिताः ।
प्रत्येकमात्मनां तेपि देहास्सम्भोगहेतवः ॥

  1. शब्दब्रह्मेति यच्चेदं शास्त्रं वेदाख्यमुच्यते
    तदप्यधिष्ठितं सर्वं एकेन परमात्मना ॥
    तथर्ग्वेदादयो देहाः प्रोक्ता येऽपि पृथक्पृथक्
    भोग्यत्वेनात्मनां तेऽपि चैतन्यानुगतास्स
    तेषां चान्तर्गतेच्छानां वाक्यार्थप्रतिपादने
    विवक्षा वाऽविवक्षा वा ज्ञायते शब्दशक्ति
    विधिशक्त्या गृहीतं यत्तत्सर्वं हि विवक्षित
    तयैव तु परित्यक्तं व्याख्येयमविवक्षितम्
    शब्दब्रह्मात्मनोऽप्येवं सर्ववेदानुसारिणः ।
    विवक्षा वाऽविवक्षा वा वक्तव्या विधिशा
    अनादिनिधनेऽप्येवं वेदे वेदार्थगोचरे ।
    व्याख्यानं मुख्यवृत्त्याऽपि स्याद्विवक्षाऽवि
    5 अथ कापिलसिद्धान्ते शरीरपरिकल्पना
    विस्तरेणोदिता तत्र सारांशोऽयं निरूप्यते
    विशेषाः स्थूलनामानः पञ्च स्युः भूतलक्ष
    तन्मात्रलक्षणाः पञ्चाविशेषास्सूक्ष्मलक्षण
    विशेषाः त्रिविधाः ज्ञेयाः सूक्ष्मदेहोऽत्रच
    स्थूलदेहो द्वितीयः स्यात् प्रभूतस्तदनन्तर
    आ सर्गात्प्रतिसर्गान्तं याः पुंसां सन्ति
    बुद्धयहंकारतन्मात्रेन्द्रियसंहतिलक्षणाः ॥

शरीरवादः 113

ते सूक्ष्मदेहाः नियताः लिङ्गाख्याः प्रथमा इमे ।
षाट्कौशिकाः स्थूलदेहाः ये मातापितृसंभवाः ॥
निवर्तन्ते प्रजायन्ते प्रभूताः स्थावरा मताः ।
घटादीनां निवेशोऽत्रेत्येवं त्रैविध्यमीरितम् ॥
इति सांख्योक्तसिद्धान्तं प्राय इच्छन्ति सूरयः ।
नैयायिकादयो नोपयन्तीदं तत्त्वविप्लवात् ॥
विभ्वात्मवादे गत्युक्तिस्सर्वत्रैवौपचारिकी ।
जन्मान्तरोपपत्तिश्च स्थितस्यैव भविष्यति ॥
कुमारिलश्चात्मवादे मीमांसाश्लोकवार्तिके ।
अन्तराभवदेहस्तु निषिद्धो विन्ध्यवासिना ॥
तदस्तित्वे प्रमाणं हि न किञ्चिदिति पद्यतः ।
विन्ध्यवासिमतं प्राह सांख्यस्स्याद्विन्ध्यवास्यसौ ॥
6 तथौपनिषदैः कैश्चिल्लिङ्गदेहो मतो यथा ।
पञ्चप्राणमनोबुद्धिदशेन्द्रियसमान्वितम् ॥
अपञ्चीकृतभूतोत्थं सूक्ष्माङ्गं भोगसाधनम् ।
परं चाप्यपरं चेति द्विधा तत्परिकीर्तितम् ॥
परं हिरण्यगर्भीयं तन्महत्तत्त्वशब्दितम् ।
अपरं त्वस्मदादीनां सोऽहंकार इतीर्यते ॥
पञ्चीकृतेभ्यो भूतेभ्यश्चान्येषां सृष्टिरिष्यते ।
लिङ्गं मतं भेदविदां भेदाभेदविदामपि ॥

M.R. 15

114 मानमेयरहस्यश्लोकवार्तिके
7 प्राग्देहाकृष्टभूतांशसंघसंपत्तिमान् पुमान् ।
अणुस्संसरतीत्येकैर्लिङ्गदेहो न चेष्यते ॥
भूतसूक्ष्मपरिष्वङ्गविषयं शास्त्रमुच्यते ।
गतिसाधनमेवेदं न चेष्टं भोगसाधनम् ॥
आरम्भवादे सांकर्यं जात्यादेः स्थूल इष्यते ।
उपाधिसंकरन्यायादिति केचन जानते ॥
कुर्वद्रूपत्वाख्यजातिवादभङ्गाय संकरः ।
दोषोऽभ्युपगतः प्राज्ञैरिति तत्त्वविदो विदुः ॥
8 अवस्थावाइपक्षे तु नैव तस्य प्रसञ्जनम् ।
इत्याभिप्रेत्य बहुभिः शरीरं पाञ्चभौतिकम् ॥
क्षणिकं हेयमित्यादि बहुधा विजुगुप्स्यते ।
संरम्भस्तु तदत्यन्तभिन्ननित्यात्मधीफलः ॥
तत्सिद्धिश्च विरागस्य हेतुस्स्यादिति तन्मतम् ।
क्षणात्मवादे देहात्मवादे तत्सूपपादितम् ॥
द्रष्टृणामिह सर्वेषामास्थाया हि परिक्षयः ।
परमोद्देश्य इति च सर्वथा सुव्यवस्थितम् ॥
(26) इन्द्रियवादः
1 शरीरस्यैवेन्द्रियत्वात् नेन्द्रियं नाम किंचन ।
इति शाक्यविशेषा हि प्राहुर्लोकायता अपि ॥

इन्द्रियवादः 115
त्वगेकमेव वा तत्स्यात् मनो वाऽप्येकमेव वा ।
इति कश्चित्सौगतानां सिद्धान्त इति गम्यते ॥
कल्प्यते शक्तिभेदश्चेत् शक्तिरेवेन्द्रियं भवेत् ।
इत्ययुक्तं, वरं धर्मिकल्पनाद्धर्मकल्पना ॥
शक्तिशक्तिमतो रैक्यं प्रायशस्सर्वसम्मतम् ।
शक्तीनां नामभेदेन व्यवहारोऽनवस्थितः ॥
पुमिन्द्रियं स्त्रीन्द्रियं च द्विधा वेन्द्रियमित्यापि ।
प्राचीनानां व्यवहृतिः पूर्वाचार्यैरनूदिता ॥
क्षीणानि चक्षुरादीनि रूपादिष्वेव पञ्चसु ।
न षष्ठमिन्द्रियं द्रव्यग्राहकं विद्यते बहिः ॥
नैकं रूपाद्यभेदो वा दृष्टं चेन्नेन्द्रियेण तत् ।
अक्षानेकत्ववैयर्थ्यं स्वार्थे भिन्नेऽपि शक्तिमत् ॥
न सुखा दिप्रमेयं वा मनो वाऽस्तीन्द्रियान्तरम् ।
अनिषेधादुपात्तं चेदन्येन्द्रियमतं वृथा ॥
नैकमित्यादिपद्यस्याप्यर्थ एषोऽवधार्यताम् ।
दर्शनस्पर्शनाभ्यां यद्ग्राह्यं ग्राहकभेदतः ॥
रूपादिवत्ताद्भिद्येत नोचेद्रूपाद्यभेदिता ।
सामान्यं पञ्चभिर्ग्राह्यं दृष्टं चेत्तदसन्मतम् ॥
तथापीन्द्रियसांकर्ये व्यर्था तद्भेदकल्पना ।
त्वगेकमेवेन्द्रियं स्यात् नैकार्थे नैकशक्तिमत् ॥

[Page 116]
मानमेयरहस्यश्लोकवार्तिके

इत्येवं भिक्षुवाक्यस्य भावो रत्नाकरोदितः
एकेन्द्रियादिवादस्तु गौतमेनाप्यनूदितः ॥
तद्भेदसाधनं तत्रानात्मसाधनसंगतम् ।
2 यः पञ्चेन्द्रियसिद्धान्तः तत्रापि श्रोत्रचक्षुषी
अप्राप्यकारिणी स्यातामिति सौगतनिर्णयः
आभिमुख्यं च संबन्धोऽयस्कान्तादिवदिष्टः
अनवस्थाऽतिप्रसङ्गौ संबन्धस्य ग्रहेऽग्रहे ।
प्राप्तेश्च कल्पनाऽन्येषामेषां त्वनुपलब्धितः
प्राप्त्यभावस्सिद्ध एव स्वभावात्नियमः स्फुटः
सान्तरं ग्रहणं न स्यात्प्राप्तौ दूरादिदर्शनात्
महीमहीधरादीनां महतां चाग्रहो भवेत् ।
कणभक्षोऽक्षपादश्च जैमिनिः कपिलस्तथा
सर्वेन्द्रियाणामेते स्युः प्राप्यकारित्ववादिनः
चक्षुश्श्रोत्रेतरेषां तु केचित्ताथागतास्तथा
तत्रापि चक्षुर्भिन्नानां तेषां स्याद्वादिनस्तथा
3 अथ नैयायिकानां स्यादेष सिद्धान्तसंग्रहः
भौतिकानीन्द्रियाणि स्युः पञ्च बाह्यानि दे
न महान्ति न चाणूनि मध्यमानीति नि
अणु नित्यं द्रव्यमपि मनोऽन्तःकरणं म
तत्र पञ्चभिरप्यक्षैः बोधस्सत्तागुणत्वयोः

इन्द्रियवादः 117
द्रव्यमाने पुनर्द्वाभ्यां रूपादावेकशः स्थितिः ।
मनोग्राह्यं सुखं दुःखमिच्छा द्वेषो मतिः कृतिः ।
स मानसीनो जनानामात्माऽप्येतैर्गुणैस्सह ।
अतीन्द्रियाणीन्द्रियाणि सिद्ध्यन्ति ह्यनुमानतः ॥
प्रतिदेहं विभिन्नानि षडेतान्यखिलात्मनाम् ।
शरीरावयवा एव स्युः कर्मेन्द्रियशब्दिताः ॥
शब्देतरोद्भूतगुणविशेषानाश्रयश्च सन् ।
ज्ञानहेतुमनोयोगस्याश्रयो हीन्द्रियाभिधः ॥
सर्वाणि प्राप्यकारीणि कारकाणि यतो धियाम् ।
संसृष्टं कारकं लोके तत्फलायावकल्पते ॥
सन्निकर्षस्ततस्सिद्धः सत्तयैवोपकार्यसौ ।
नानवस्थातिप्रसंगौ स्वभावनियतं जगत् ॥
नीरन्ध्रेऽप्यम्बुकाचादौ दृक्प्रभादेः प्रवेशनम् ।
वस्तुस्वभाववैचित्र्यात् इत्येतत्सर्वसम्मतम् ॥
लौकिकोऽलौकिकश्चेति सन्निकर्षो द्विधेष्यते ।
प्रथमः षड्विधस्तत्र द्वितीयस्त्रिविधो मतः ॥
पृथ्वग्रं चाक्षुषं तेजोऽधिकग्रहणशक्तिमत् ।
शालिकाचार्यसिद्धान्ते चक्षुर्बाह्येन तेजसा ॥
महच्चक्षुर्जनयति गृह्यते तेन चाधिकम् ।
तथा शाखाचन्द्रमसोर्यौगपद्येन च ग्रहः ॥

118 मानमेयरहस्यश्लोकवार्तिके
बाह्येन ज्योतिषा चक्षुःज्योतिस्संवलितं
दूरस्थं विपुलं चापि गृह्णातीति विदुः परे
4 अथ सांख्यास्त्विन्द्रियाणि विभून्यैकादशो
प्राहुराहंकारिकाणि वृत्त्या च व्याप्नुवन्त्य
ज्ञानकर्मात्मकं चेदं मनोऽन्तःकरणं मतम्
अहंकारश्च बुद्धिश्चाप्यन्तःकरणमिष्यते ॥
तथाच त्रिविधा तेषामन्तःकरणकल्पना
आनुमानिकतैतेषां प्रधानादिवदेवहि ॥
सात्त्विकाहंकार एषामुपादानमिति स्थितिः
अहंकारविशेषाः स्युरिन्द्रियाणीति केचन
हैरण्यगर्भा इति हि प्राह सर्वार्थसिद्धिकृत्
कर्मेन्द्रियं राजसं स्यादिति केचन तान्त्रि
प्रतिदेहं जनिध्वंसौ स्यातामस्येति केचन
5 मीमांसकास्तु प्रायेण नैयायिकमते स्थि
विजृम्भन्तेऽभीष्टसिद्धौ श्रोत्रे शब्दे च
दिशश्श्रोत्रमिति श्रुत्या श्रोत्रं ते दैशिकं
ध्वनिजन्यस्तु संस्कारः शब्दग्रहणकारणम्
6 न श्रोत्रमिन्द्रियमिति भर्तृमित्रादयो विदुः
कुमारिलस्त्विमं पक्षं निरास्थत् श्लोकवार्ति
विषयेन्द्रियदेशानां संस्कारमपि चेच्छति

इन्द्रियवादः 119
वीचीतरङ्गादिनीतिं शब्दानित्यत्वसाधकाः ।
ध्वनीनामुपगच्छन्ति ध्वनितत्त्वं पुरः स्थितम् ॥
7 मनसो वैभवं प्राहुः संयोगमजयोरपि ।
अदृष्टानियमः सिद्धयेत् अदृष्टशरणा हि ते ॥
ज्ञानस्यायौगपद्यार्थमणुत्वं तार्किका विदुः ।
दूरस्मृत्युपपत्त्यर्थं वैभवं वैदिका विदुः ॥
विकासो वृत्तिभेदो वाऽप्यायकप्रचयोऽपि वा ।
पृथुत्वहेतुः वेगस्तु यौगपद्यभ्रमावहः ॥
नैवाभिनिविशन्तेऽन्यप्रकारेपु बुधा इमे ।
8 अथौपनिषदानामप्येष सिद्धान्तसंग्रहः ॥
देहेन्द्रियमनःप्राणधीभ्योऽन्योऽनन्यसाधनः ।
आत्मा सेद्धव्य इति हि ब्रह्म मीमांस्यते बुधैः ॥
इन्द्रियस्य तु देवत्वं कारणत्वमुपास्यता ।
प्राणत्वाद्यं श्रूयतेऽतः स एवात्मेति संशयः ॥
एतादृक्संशयोच्छित्त्यै भगवान् बादरायणः ।
प्रावर्तयत्प्राणपादं द्वितीये लक्षणेऽन्तिमम् ॥
नेन्द्रियेष्वनुमानं स्यात् अप्राप्ते शास्त्रमर्थवत् ।
ज्ञानेन्द्रियाणां कॢप्तिश्चेन्न किं कर्मेन्द्रियेषु सा ॥
करणत्वेनेन्द्रियत्वं दोषदीपाञ्जनादिषु ।
प्रसज्यते सहायत्वव्यवस्था त्वनियन्त्रिता ॥

20 मानमेयरहस्यश्लोकवार्तिके
उद्विग्नो ह्यन्धकारेण क्वचिदेवं ब्रवीत्यपि ।
किं चक्षुषा ममैतेन दृष्टं दीपेन यन्मया ॥
अतीन्द्रियस्येन्द्रियस्यासिद्धिसिद्धिविकल्पतः ।
पक्षाप्रसिद्ध्यादिदोषात् विजृम्भन्ते न युक्तयः ॥
शुद्धा‌हंकृत्युपादानं द्रव्यमिन्द्रियमुच्यते ।
भूतैराप्यायनं तेषां मनोऽन्नमयताश्रुतेः ॥
इन्द्रियाणां भौतिकत्वं केचिद्वेदान्तिनो विदुः ।
पञ्चभूतमयत्वं च मनसः प्रतिपेदिरे ॥
शाब्दापरोक्षसिद्धान्ते मनो नेन्द्रियमिष्यते ।
कैश्चिदात्माऽपरोक्ष्यार्थं मनः करणमुच्यते ॥
9 एकं मनोऽन्तःकरणं नैयायिकमते मतम् ।
द्विविधं भास्कराः प्राहुः त्रिविधं कापिला विदुः ।
चतुर्विधं केचिदाहुः तदुक्तिरवधार्यताम् ।
मनो बुद्धिरहंकारश्चित्तं करणमान्तरम् ॥
संशयो निश्चयो गर्वः स्मरणं विषया इति ।
तत्र कापिलभिन्नास्तु वृत्तिभेदाद्भिदां विदुः ॥
मनः स्मृत्यनुभूतिभ्यां द्विधा भास्करभाषितम् ।
श्रुतिश्च विविधा मानं सर्वेषामिह विद्यते ॥
तदर्थनिर्णायकं च सूत्रं तात्पर्यभेदतः ।
व्याख्यायते यदि तदा कः पक्षः श्रुतिसम्मतः

आत्मवादः-लौकायतात्मा 121
अप्राप्यकारिणी श्रोत्रचक्षुषी इति सौगताः ।
चक्षुर्मात्रं विदुर्जैनाः सर्वेऽन्ये प्राप्तिवादिनः ॥
एवमिन्द्रियवृत्तान्ते विकल्पोऽत्र निरूपितः ।
प्रायस्सर्वार्थसिद्ध्यादौ विस्तरोऽस्यावलोक्यते ॥
(27) आत्मवादः—लौकायतात्मा.
1 अथ प्रस्तूयतेऽत्रात्ममीमांसा सर्वतोमुखी ।
यत्कृते सर्वमीमांसाः तीर्थकृद्भिः प्रवर्तिताः ॥
तथाहि लौकायतिकाः परलोकापवादिनः ।
चैतन्यखचितात्कायान्नात्माऽन्योऽस्तीति मन्वते ।
भीष्मः खल्वपवर्गोऽयं भद्रं बह्वत्र लुप्यते ।
संसारो हि वरं यत्र सुखलेशः कियानपि ॥
स्वर्गेण चिरसाध्येन मृतिव्यवहितेन किम् ।
अत्र भोजनशय्यादि सुखमेव त्रिविष्टपम् ॥
चैतन्यं भौतिकी शक्तिः न तत्त्वान्तरमिष्यते ।
भूतसंघावस्थितिर्वा धीसामग्र्यथवा भवेत् ॥
शरीरवृद्धौ तद्वृद्धिः तत्क्षये चापि तत्क्षयः ।
मूर्छा चैतन्यविकृतिः अभिघातादितो भवेत् ॥
दृश्यते चेतना पट्वी ह्यन्नपानादितृप्तितः ।
ब्राह्मीघृतादिसंस्कारे स्यात्पटुप्रज्ञता तथा ॥
M.R. 16

22 मानमेयरहस्यश्लोकवार्तिके
चलन्ति दध्यवयवाः काले नातिदवीयसि ।
स्वेदादिनैव वर्षासु पूतरक्रिमिलक्षणाः ॥
गौरोऽहमस्मि स्थूलोऽहं कृशोऽहमिति सम्मताः ।
व्यवहाराश्चानुभवाः भूतचैतन्यसाक्षिणः ॥
अहं जानामीति मतिः शरीरमवलम्बते ।
इत्याहुरात्माऽप्रत्यक्षवादिनोऽपि हि तार्किकाः ॥
मम पाणिर्भुजो वेति भिन्नत्वादुपपद्यते ।
शरीरं तु ममेत्येषा कल्पना राहुमूर्धवत् ॥
2 चैतन्यं यदि शक्तिः स्यात् शक्तिशक्तिमतोर्यदा ।
भेदस्तदा शक्तिनाम्ना तत्त्वान्तरपरिग्रहः ॥
इति शङ्का नैव कार्या संघातशक्तिरिष्यते ।
ज्ञानं नाम पदार्थो यः स नास्त्येवेति तन्मतम् ॥
ज्ञानस्योत्पादिका याऽस्ति सामग्री सर्वसम्मता ।
तयैव सर्वनिर्वाहात्किमन्तर्गडुनाऽमुना ॥
देहधातुविशेषो वा विकासो वाऽस्य कश्चन ।
ज्ञानमित्येव वक्तव्यं वरं धर्मिप्रकल्पनात् ॥
हृदयस्थः पित्तभागः प्रकाश इति वैद्यकम् ।
एवमाद्यास्तु सर्वार्थसिद्धौ वादाः ह्यनूदिताः ॥
स एव भूतचैतन्यवादिनः परमाशयः ।
अन्यथा तस्य चैतन्यं तस्यापीत्यनवस्थितिः ॥

सौगतात्मा 123
सुखदुःखेच्छादयोऽपि परिणामा हि भौतिकाः ।
संघातवेद्यास्ते सर्वे न संज्ञा प्रेत्य विद्यते ॥
भूतेभ्यश्च समुत्थाय तान्येवानुविनश्यति ।
इतिहि ब्राह्मणं येयं प्रेते संशय इत्यपि ॥
नाचिकेतानुयोगश्च सिद्धान्तं द्रढयत्यमुम् ।
एष देहात्मसिद्धान्तः सुराचार्यप्रवर्तितः ॥
चार्वाककृतभाष्यादिनिबन्धैः प्रचयं गतः ।
कामनीतिस्तेयशास्त्रप्रमुखं तस्य विस्तरः ॥
शेषः सिद्धान्तसारांशः सूचितः प्रायशः पुरा ।
प्रमेयसंग्रहे सोऽपि वैशद्यायावधार्यताम् ॥
(28) सौगतात्मा.
1 अथो तथागताः प्राहुः किं पुंसा कल्पितेन वा ।
ज्ञानमात्रेण सर्वोऽपि व्यवहारोऽवकल्पते ॥
ज्ञानस्यैव प्रभेदोऽयमिच्छाद्वेषसुखादिकः ।
न वस्त्वन्तरमित्येवं न ततोऽन्यप्रकल्पनम् ॥
गुणत्वमपि नास्त्यस्य यतोऽधिष्ठानकल्पना ।
न गुणव्यतिरिक्तश्च गुणी नामास्ति कश्चन ॥
स्मृतिवत्परिहर्त्तव्यौ कृतनाशाकृतागमौ ।
तत्संतानोपसंक्रान्त्या कुसुमे बीजरागवत् ॥

24 मानमेयरहस्यश्लोकवार्तिके
यस्मिन्नेव हि संताने आहिता कर्मवासना ।
फलं तत्रैव बध्नाति कार्पासे रक्तता यथा ॥
वर्षातपाभ्यां किं व्योम्नः चर्मण्यस्ति तयोः फलम्
चर्मोपमश्चेत्सोऽनित्यः खतुल्यश्चेदसत्समः ॥
बुद्धिर्जन्मनि पुंसश्च विकृतिर्यद्यनित्यता ।
अथाविकृतिरात्माऽयं प्रमातेति न युज्यते ॥
अत्यन्तमलिनः कायः देही चात्यन्तनिर्मलः ।
उभयोरन्तरं ज्ञात्वा कस्य शौचं विधीयते ॥
2 निर्धर्मका निराधारा निर्मूर्त्तिश्चित्तसंततिः ।
प्रतिक्षणं जायमाना दीपसन्तानसन्निभा ॥
ज्वालाबुद्बुदवद्वृत्तिः मातृकुक्षिप्रवेशभाक् ।
सा ततो विषयज्ञप्तिः चित्ताभिज्वलनात्मिका ॥
कामक्रोधौ लोभमोहौ रागद्वेषौ च सैव हि ।
रागो द्वेषश्च मोहश्च यद्युत्कटदशां गतः ॥
कामः क्रोधो लोभ इति व्यवहारस्य गोचरः ।
देवासुरमनुष्याणां भेदोऽतो गुणभेदतः ॥
आत्मा यद्यप्रतीत्य स्यात्क्लेशानां नैव संक्षयः ।
अतो नैरात्म्यसिद्धान्तः बौद्धानामिति निर्णयः ।
आत्मग्रहो महामोहः प्रथमं तन्निवृत्तितः ।
मम किं नाहमेवेति विरंस्यति ममग्रहः ॥

सांख्यात्मा
तस्मादादावहंकारममकारप्रहाणतः ।
निर्वाणद्वारमेवैतत्सिद्धं नैरात्म्यदर्शनम् ॥
(29) सांख्यात्मा.
1 अथ कापिलसिद्धान्तरीत्याऽऽत्माऽत्र विचार्यते ।
विदितः सांख्यपुरुषः सोऽसौ पुष्करपर्णवत् ॥
श्रुतिर्ह्यपौरुषेयेषा कल्पादौ कपिलादिभिः ।
स्मर्यते चापि विद्वद्भिः सर्वा सुप्तप्रबुद्धवत् ॥
तथा स्मृतीतिहासाद्याः प्रमाणं वेदमूलकाः ।
प्रकृतेः पुरुषस्यापि विवेकस्तैर्विशोध्यते ॥
तच्छ्रुत्वा शास्त्रयुक्त्या च व्यवस्थाप्य ततः परम्
निरन्तरं दीर्घकालमादरेण च सेवितात् ॥
साक्षात्काराच्च विज्ञानान् मुच्यते भावनामयात्
अभेदधीरुपायेयाऽन्येषामेषां तु भेदधीः ॥
2 तत्र युक्तिस्तु शास्त्रीया प्रयुक्ता तैः पुनर्यथा ।
अतिरिक्तोऽस्ति पुरुषः ह्यव्यक्तादेर्यतस्त्विमे ॥
अव्यक्ताद्याः परार्थाः स्युः संघातत्वात् गृहादिवत्
परस्स्यात्संहतो देहो दर्शनादिति चेन्न तत् ॥
तस्यापि संहतत्वेन स्यात्संघातान्तरार्थता ।
नच सत्यां व्यवस्थायामायुष्मत्यनवस्थितिः ॥

स व्यापकपरार्थत्वव्यावृत्त्या चागुणो मतः ।
पुरुषोऽयमधिष्ठाता बुद्ध्यादेरगुणत्वतः ॥
भोक्ता च पुरुषस्सिद्धयेत् बुद्ध्यादेर्भोक्त्रभावतः ।
पुमान्न कस्यचित्कर्ता किन्तु भोक्तैव केवलम् ॥
इति सांख्यास्त्वाहुरिति न्यायरत्नाकरोदितम् ।
द्रष्टा वा पुरुषश्रेष्ठः बुद्ध्यादेर्दृश्यभावतः ॥
शास्त्राणां च महर्षीणामन्येषां दिव्यचक्षुषाम् ।
कैवल्यार्थं प्रवृत्तेश्च स्यात्पुमान् प्रकृतेः परः ॥
दुःखात्मका हि बुद्ध्यायाः स्वभावो दुरतिक्रमः ।
वियोगश्शक्यसंपादः पुरुषस्यातदात्मनः ॥
तस्माद्योऽस्ति स आत्मेति सिद्धः सत्त्वविलक्षणः ।
सुखदुःखव्यवस्थातः नाना सर्वगतश्च सः ॥
शरीरभेदाद्भेदश्चेत्स्यात्पाण्यादिविभेदतः ।
मध्यस्थः केवलः साक्षी द्रष्टाऽकर्तेति निश्चितः ॥
चिदभिव्यक्तिचित्सङ्गचिच्छायापत्तिलक्षणात् ।
संनिधेः बुद्धिरप्येषाऽचेतना चेतनायते ॥
विमृश्य शास्त्रयुक्त्यैवं कूटस्थं ज्ञानलक्षणम् ।
साक्षात्कृत्वाऽन्यताख्यात्याऽनन्तं कैवल्यमश्नुते ।
इति कापिलसिद्धान्तसिद्धः पुरुष ईरितः ।
प्रमेयसंग्रहोक्तं यत्तदप्यत्रोपयुज्यताम् ॥