मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 153, कुल 672 में से
संदर्भ में पढ़ेंशरीरवादः 111
महाभौतिकदेहस्थाः यथाऽऽत्मानस्सचेतनाः ।
किंचिदर्थं विवक्षन्ति न विवक्षन्ति चापरम् ॥
तेषामन्तर्गताऽपीच्छा तद्वाक्यार्थविचारिभिः ।
ज्ञायते शब्दशक्त्यैव स्फुरन्तीव बहिःस्थिता ॥
देहभेदप्रकाराश्च कर्मशक्तिवशानुगाः ।
प्रकृत्यारम्भवैचित्र्यात् दृश्यन्ते परमात्मनाम् ॥
पार्थिवावयवप्रायाः शेषतोयाद्यनुग्रहात् ।
जरायुजादयो देहाः दृष्टा भुवि चतुर्विधाः ॥
भूतान्तरानुबद्धेन तोयेनैव विनिर्मिताः ।
श्रूयन्ते वारुणे लोके देहाः स्वच्छाङ्गलक्षणाः ॥
अन्तरिक्षे च बहवः प्राणिनो वातनिर्मितैः ।
भ्रमन्ति लघुभिस्सूक्ष्मैः देहैर्भूम्याद्यनुग्रहात् ॥
स्वर्लोके तैजसप्रायाः देहाः शुद्धप्रभान्विताः ।
आप्यायन्ते विकीर्णेन भानवीयेन तेजसा ॥
ये हि स्वर्गं यन्ति लोकं जनाः पुण्यकृतस्त्विह ।
ज्योतींषि तेषामेतानि नक्षत्राणीति वै श्रुतिः ॥
तथा व्योमशरीरोऽपि परमात्मा श्रुतौ श्रुतः ।
इज्यते वारिणा नित्यं यः खं ब्रह्मेति चोदितः ॥
रूपस्पर्शादयो येऽपि महाभूतगुणाः स्थिताः ।
प्रत्येकमात्मनां तेपि देहास्सम्भोगहेतवः ॥