सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

मल्लपुराण (ज्येष्ठिमल्ल - प्राचीन भारतीय मल्लविद्या, अखाड़ा व्यायाम व कुश्ती महाग्रन्थ)

Malla Purana: Ancient Indian Wrestling & Martial Arts

ज्येष्ठिमल्ल परम्परा (सम्पादक: भोगीलाल ज. सांडेसरा एवं आर. एन. मेहता) द्वारा

DevanagariSanskritpublished141 पृष्ठ

कुरुतेऽत्यन्तशोभा च मनस्थिरकरा तथा ।
भीमसेनी च दातव्या मांससारस्य मर्दना । ४८ ॥
त्वग्रुधिरमांसपुष्टस्य लघुसारेण वर्द्धयेत् ।
करोति च गुणान्सप्त शृणु सर्वसुखावहान् ॥ ४९ ॥
उत्साहं कुरुते चाशु तथा ह्रादं करोति च ।
सुखं करोति परमं लाघवं कुरुते परम् ॥ ५० ॥
मेधां ददाति परमां तन्द्रां च हरयेत्सदा ।
एवं सा कुरुते भद्र श्वाससारस्य मर्दना ॥ ५१ ॥
तेन सर्वैस्तथा सेव्यो मल्लैः सर्वाङ्गसिद्धये ।
तथा मांसास्थिसारस्य लघ्वी देया च मर्दना। ॥ ५२ ॥
त्वग्रुधिरपुष्टिकरा प्रजाह्लादप्रदायिनी ।
चलकरा दीप्तिकरा चक्षुरारोग्यकारिणी ॥ ५३ ॥
कायाशोधकरा चैव कायामार्दवकारिका ।
मर्दनाय परा नास्ति कार्या सौष्ठवकारका ॥ ५४ ॥
अस्थिगता मांसगता तथा मलगतापि वा ।
श्रुता सा परमा गुह्या साम्या चैव पृथक् पृथक् ॥ ५५ ॥
प्रथमा भीमसेनी च तथा नारायणी परा ।
तृतीया चित्रिणी प्रोक्ता मसृणी च तथा परा ॥ ५६ ॥
चेतःप्रकरा चैवेयं कथिता कैटभारिणा ।
प्रथमा चरणे देया द्वितीया जानुनि न्यसेत् ॥ ५७ ॥
तृतीया च करे देया मसृणी पट्टके तथा ।
पुनश्चतुर्विधा देया द्वात्रिंशद्गुणकारिका ॥ ५८ ॥
तथा त्रयोदशगुणैर्हेतुभिर्नामदोहरा ।
श्रमहरा तथा वातहरा च कफहारिणी ॥ ५९ ॥

५६ मल्लपुराणे
अग्निकरा वृद्धिकरा तनुविस्तारकारिका ।
काठिन्यदा प्राणकरा तथा श्वासहरापि च ॥ ६० ॥
इत्यास्थिता त्रिदशधा कथिता मर्दना मया ।
कष्टं हरन्ति निःशेषजडत्वं यात्यसंशयम् ॥ ६१ ॥
श्रमवानसि वातीति मांसस्य मर्दको भवेत् ।
भीमसेना च मल्लानां देवा(या) नारायणी शृणु ॥ ६२ ॥
चित्रिणी बालवृद्धानां तैलाभ्यङ्गेषु मर्दनी ।
भीमसेनी च विज्ञेया मर्दना सुखकारिका ॥ ६३ ॥
धातुपञ्चकपर्येन्तं जानुपादविमर्दनम् ।
सा ज्ञेया नारायणी चासौ मर्दना सुखहेतवे ॥ ६४ ॥
करस्तु केवलं यत्र दद्यात्त्वक्मांसमर्दना ।
सा मर्दना प्रयत्नेन चित्रिणी कथिता बुधैः ॥ ६५ ॥
तैलाभ्यङ्गे पटे नैव मसृणी त्वक्विमर्दना ।
इति विशेषतो युक्ता मर्दना लोकसंमता ॥ ६६ ॥
ज्ञात्वैतां च बहु शृणु चतुर्णामसमन्विताम् ।
या यस्य रोचतेऽत्यन्तं तां तस्य कारयेद्ध्रुवम् ॥ ६७ ॥
व्यायामः कफनाशाय वातनाशाय मर्दनी ।
स्नानं च पित्तनाशाय तेन मल्ला महाबला ॥ ६८ ॥
इति श्रीमल्लपुराणे सामान्यमर्दनं नामाष्टमोऽध्यायः [ एकादशोऽध्यायः ]

द्वादशोऽध्यायः।
प्राणसाध्यो जयो युद्धे प्राणश्चाङ्गविमर्दनात् ।
श्रमः शरीरसाध्योयं शरीरं पुष्टिकारणम् ॥ १ ॥
अतः शरीरपुष्टीयमुपायं कथयाम्यहम् ।
उचिताहारचेष्टां तु यथा पुष्टिः प्रजायते ॥ २ ॥
वातपित्तकफानां तु प्रकोष्ठे तेन लक्ष्यते ।
तत्र प्रकुप्यति वातः प्रकारैः षोडशात्मभिः ॥ ३ ॥
आम्लतिक्तकषायाणां कटुकानां च सेवनात् ।
मथ्यमानां सर्वाङ्गानां वेगसंधारणादपि ॥ ४ ॥
व्यापीनमासनाच्चैव तथा जलतरणादपि ।
बलवृद्धिकराच्चैव तथा जागरणादपि ॥ ५ ॥
सामान्यमन्नशाकादिभोजनैश्च विशेषतः ।
मेघोद्य(द्भू)मनकाले च जीर्णवस्त्रैस्तथैव च ॥ ६ ॥
इति षोडशधा चैव जन्तोर्वातः प्रकुप्यति ।
इति क्षीयं(बं) प्रयत्नेन यथा सुखमवाप्नुयात् ॥ ७ ॥
अथ वातप्रकोपस्य लक्षणं कथयाम्यहम् ।
त्रायते येन विज्ञाय यथा युक्तिश्चिकित्सिते ॥ ८ ॥
शिरसीव तथा वाते वातश्च श्रोत्रयोरपि ।
नेत्रयोर्हृदये चैव हनुदेशे तथैव च ॥ ९ ॥
स्कन्धयोरङ्गसंधौ च जायते च दिवानिशम् ।
भुजयोश्चैव जङ्घायां सका(संको)चमपि जायते ॥ १० ॥
भ्रमः कम्पस्तथा स्वेदः सी(स्ने)हः पृष्ठोदरेषु च ।
बृंहणं कक्षयोश्चैव नाभिदेशे तथैव च ॥ ११ ॥

गुह्ये चैव तथापन्ने तथा पृष्ठे (क)क्षयोरपि ।
एतेष्वङ्गेषु मल्लानां विकारात् रुक् प्रजायते ॥ १२ ॥
आपरं (अल्पं) भवति चापल्यं त्वक्पारुष्यं च जायते ।
अग्निविषतमा(मता) चैव लक्ष्यन्ते वायुलक्षणम् ॥ १३ ॥
वातप्रशमनोपायं संपातं कथयाम्यहम् ।
स्नेहेनेनाभिषेकश्च नित्यं चोपक्रमादपि ॥ १४ ॥
मन्थादिमं मांसमयं ध्रुवं वातप्रशान्तये ।
दातव्यं भेषजं पश्चादुपवासादनन्तरम् ॥ १५ ॥
ज्ञात्वा प्रयत्नः कर्तव्यः संक्षेमाप्त्यै यशायसे ।
रक्षा च त्रिफलाभिश्च रेचना च अपि स्मृतम् ॥ १६ ॥
रुधिरस्रावमपि च घृतं दुग्धं च शर्करा ।
पित्तप्रशमनं चैव मल्ले कर्तव्यमुत्तमम् ॥ १७ ॥
एलया सितया मिश्रं पयःखण्डेन योजितम् ।
सप्तरात्रप्रयोगेण पित्तं नाशयति ध्रुवम् ॥ १८ ॥
कुर्वन् पित्तप्रशान्तिश्च प्राप्नोति परमं सुखम् ।
इति पित्तप्रशान्तिश्च सर्वं च कथितं मया ॥ १९ ॥
बहुमण्डजलाहारैर्मधुरैश्चातिशीतलैः ।
दधिदुग्धघनान्नैश्च तथैव च नवोदकैः ॥ २० ॥
तथा पित्तविकारैश्च भक्ष्यैश्चेक्षुसमुद्भवैः ।
लवणेन दिवास्वापात्तथैव विषमासनात् ॥ २१ ॥
एतैः प्रकारैश्चान्यैश्च कफः कुप्यति न संशयः ।
इति प्रकोपः कफजो ज्ञातव्यो लक्षणैः सदा ॥ २२ ॥
कथ्यन्ते लक्षणान्यत्र कफकोपभवानि च ।
अङ्गस्य गौरवं चैव तथाग्नेरपि मन्दता ॥ २३ ॥

द्वादशोऽध्यायः। ५९
हृदयस्य सदा क्लेशो सुखं चैव प्रशुष्यति ।
मुखे मधुरता चैव तथालस्यमपि ध्रुवम् ॥ २४ ॥
अतिकासप्रभावोपि तथैव चक्षु पाण्डवा(ण्डुता ) !
प्रज्ञाभ्रमे( मो ) रोमहर्षस्तथैव पीनसा(सो)द्भवः ॥ २५ ॥
कायो निद्रा च तन्द्रा च तथा लाला च पोतनम् ।
जायते यत्र यत्रेदं स्थानानि कथयाम्यहम् ॥ २६ ॥
कण्ठोष्ठरसनास्वेदो दन्तम्लेषु तत्क्षणम् ।
बालप्राणतलेष्वेव तथैव श्रवणान्तरे ॥ २७ ॥
तथा सर्वश्रमस्थाने भवेच्चलचलायनम् ।
विज्ञाय लक्षणैरेतैः श्रमं कुर्वन्ति तत्क्षणम् ॥ २८ ॥
नाशश्चैव प्रकर्तव्यः शुद्धोष्णोदकवारिणा ।
आद्रकं च त्रिकट् कर्म दर्पयित्वा प्रयत्नतः ॥ २९ ॥
बीजपूरकगर्भेण मेलयित्वा च सैन्धवम् ।
कवलानि मुखे धृत्वा चावयित्वा समुत्सृजेत् ॥ ३० ॥
योगमेनं कृतं प्राहुर्निश्चितं कफनाशनम् ।
तस्मादारोग्यप्राप्त्यर्थं शोचनीयं प्रयत्नतः ॥ ३१ ॥
हिंगु सौवर्चलं शुण्ठी दाडिमं मुस्तसंयुतम् ।
उष्णेन वारिणा पीतं हृद्रोगश्वासकासनुत् ॥ ३२ ॥
अन्यौषधानि विज्ञाय कर्तव्यानि च तत्क्षणात् ।
येनैवारोग्यमाप्नोति मल्लः सर्वच्च (त्र) सर्वदा ॥ ३३ ॥
इति श्रीमल्लपुराणे वातपित्तकफनाशकप्रकरणं नाम नवमोऽध्यायः [ द्वादशोऽध्यायः । ]

त्रयोदशोऽध्यायः।
मल्लयुद्धं सविज्ञानं विशेषं कथितं तव ।
इदानीमुपयोगः स्यात्तस्य विस्तारयाम्यहम् ॥ १ ॥
द्रष्टव्यं सततं राज्ञा शास्त्रेण च विवेकिना ।
संग्रामरसिकेनैव नित्यं विविधबुद्धिना ॥ २ ॥
युद्धमुत्साहजननं दुःखहन्तृ विनोदनम् ।
मल्लयुद्धसमं नास्ति तेन युद्धं समारभेत् ॥ ३ ॥
जित्वा च सकलान् रिपून प्रायो निष्कण्टका मही ।
दाविनियाश्च युद्धेन राज्ञां नान्य(द्) विनोदनम् ॥ ४ ॥
अतो रङ्गं समाहूय चतुरैर्नागरैः परैः ।
कलाविद्भिरमात्यैश्च सुहृद्भिश्चैव उत्सवैः ॥ ५ ॥
आहारारोग्यसंपन्नाः श्रमोत्साहसमन्वितः(ताः) ।
संमतं मध्यमं ज्ञेयं सिंहमानं तथाऽधमम् ॥ ६ ॥
इति ज्ञात्वा विधानेव(नेन) देशकालविशेषि(ष)तः ।
कदाचित्कालयोगेन विशेषो भवति श्रमे ॥ ७ ॥
आरोग्यस्य समर्थं च कथं त्राणसमुद्भवः ।
यावत्संख्या पालिता तु श्रमविघ्नः प्रजायते ॥ ८ ॥
ततो द्विगुणाभिरभ्यस्तं प्राप्यते त्राणमुत्तमम् ।
श्रमेण मध्यमं तद्वत् हानाभिरधमं मतम् ॥ ९ ॥
एवं श्रमेण पुष्ट्या च पालिकापिसुखेन च ।
येन केन प्रकारेण त्राणमेवं विवर्द्धयेत् ॥ १० ॥
नियुद्धविद्याबीजमत्राणादपरं वरम् ।
हस्तमेलापकं (:) कार्यो यो येन सदृशो भवेत् ॥ ११ ॥

त्रयोदशोऽध्यायः । ६१
गजो गजेन संयोज्यो प्राणः प्राणवता सह ।
ज्येष्ठिना च समं ज्येष्ठि नियुद्धे विजयो भवेत् ॥ १२ ॥
अन्तरज्येष्ठिनासार्द्धमन्तरज्येष्ठिनं न्यसेत् ।
समं गोपकुलेनैव तथा गोपकुलोपि च ॥ १३ ॥
वृद्धो वृद्धेन संयोज्यो बालकेन तु बालकः ।
भविष्योपि भविष्येण यो यःस्यादपि धर्मतः ॥ १४ ॥
युद्धमेतत्सममात्रेषु कृष्णेन प्रतिपादितम् ।
दातव्यो ज्येष्ठिना ज्येष्ठि प्रतियोद्धा न लभ्यते ॥ १५ ॥
अन्तरज्येष्ठिनौ द्वौ तु योधयेतां परस्परम् ।
कथमप्यन्तरज्येष्ठी प्रतियोद्धा च नो भवेत् ॥ १६ ॥
तदा गोपकुलौ द्वौ च ताभ्यां चैव नियुद्धयेत् ।
भविष्योपि श्रमे पूर्वं सहायो न भवेद्यदि ॥ १७ ॥
समं गोपकुलेनासौ योधयेदविलम्बयेत् ।
वृत्ते गोपकुले द्वन्द्वे भविष्यो बलसंयुतः ॥ १८ ॥
अन्तरज्येष्ठिना सार्धं तथा गोपकुलेन च ।
अन्तरज्येष्ठिनं जित्वा भविष्येण योजयेत्पुनः ॥ १९ ॥
तस्मिन् द्वये पातिते च भविष्येण समं ततः ।
अन्तरज्येष्ठिनौ द्वौ च योज्यौ बलसमन्वितौ ॥ २० ॥
अधमज्येष्ठिना सार्द्धं भविष्यो युद्धमर्हति ।
उत्तमे ज्येष्ठिना जिते सर्वोपि परमं पदम् ॥ २१ ॥
देवकीपालितं पुत्रैर्मल्लवत्परमाप्नुयात् ।
एवं यत्र यस्य येन स तेन तत्र योधयेत् ॥ २२ ॥
हस्तमेलापकं कृत्वा दत्वा योग्यं यथार्थतः ।
मदेन युध्यते हस्ती मल्लश्लाघेण युद्धयति ॥ २३ ॥

६२ मल्लपुराणे

वर्द्धनीयं द्वयं चैव मल्ले त्राणं गजे मदम् ।
मल्लानामनुकथ्यन्ते त्रयोविंशतिसंयमाः ॥ २४ ॥
चेतसा संयमश्चादौ तस्यादौ वाक्यसंयमः ।
दृष्टिसंयम एतस्य तथा वस्तुनि संयमः ॥ २५ ॥
मुखस्य संयमोप्यत्र नीतिसंयम एव च ।
भवस्य संयमः कार्यो मायायाः संयमोपि च ॥ २६ ॥
कामस्य संयमः पश्चात्कर्मणोपि च संयमः ।
अपत्यसंयमो नायमाहारस्य च संयमः ॥ २७ ॥
आसने संयमोप्यस्ति श्रमे वान्योस्ति संयमः ।
श्वासस्य संयमो दृष्टः शयने संयमस्तथा ॥ २८ ॥
पानेपि संयमस्तद्वत्तथा वातस्य संयमः ।
निद्रायाः संयमो यद्वदन्योन्यं सत्यसंयमः ॥ २९ ॥
दानस्य संयमो जातो दुर्लभो धर्मसंयमः ।
एते मल्लैः सदा कार्याः संयमास्त्वेकविंशतिः ॥ ३० ॥
एतैः कृतैः सदा मल्लो जयमाप्नोति निश्चितः ।
अन्नैरूत्पद्यते कामः कामाद्वेगा भवन्ति हि ॥ ३१ ॥
अतो मध्यं सेव्यं च मल्लैरेतच्चतुष्टयम् ।
वेगक्षुत्पिपासाश्च निद्रा चैव तथा पुनः ॥ ३२ ॥
असेवितास्ताडयन्ति प्रकुप्यन्ति हि सेविताः ।
अतो यथाक्षणं सेव्या कदर्पहर्षशान्तये ॥ ३३ ॥
बलहानिर्महान् रोगो नाहारात्कामसंक्षयः ।
तेनाहारः समास्थेयो योगक्षेमाय सर्वदा ॥ ३४ ॥
अपानाज्जायते शोषो ह्यग्निनाशोतिपानतः ।
अतो मुहुर्मुहुः सेव्यमल्पाम्भश्च प्रयत्नतः ॥ ३५ ॥

त्रयोदशोऽध्यायः । ६३
असेवितेङ्गजाड्यं च मोहं च कुरुते परम् ।
मेदोवृद्धिं करोत्यत्राङ्गानि(न)श्चैनाति(तानि) सेवते ॥ ३६ ॥
अतो मल्लैः सावधानैरङ्गसौख्यविवृद्धये ।
यथाक्षणमियं निद्रासेवनातिशयेन च ॥ ३७ ॥
असेविता पीडयन्ति(ति) नाशयत्यतिसेविता ।
अतो यथार्थतः सेव्यमन्नाद्येतच्चतुष्टयम् ॥ ३८ ॥
मलमूत्रमरुच्छुक्रवेगान् कापि न धारयेत् ।
भगन्दराश्मरीगुल्मगुदजानां प्रबोधयेत् ॥ ३९ ॥
जितेऽजितेन्द्रियग्रामे जितं तेन चराचरम् ।
अतश्च कामकं ज्ञेयं येन स्याद्विजितेन्द्रियः ॥ ४० ॥
मल्लैःसह शरीराणि मनसा गन्तुं दूषणम् ।
न बाध्योयं च सर्वेषां तस्मादेतत्समभ्यसेत् ॥ ४१ ॥
अभ्यासः क्रियते यस्मात्तस्मादध्यात्ममुच्यते ।
शब्दस्पर्शरूपरसगन्धाः पञ्च तथैव च ॥ ४२ ॥
आत्मबुद्धीन्द्रियाण्यर्था बहिः करणमुच्यते ।
एते बुद्धीन्द्रियाण्यत्र विषयाः परिकीर्तिताः ॥ ४३ ॥
उत्सर्गः खादनं चैव ग्रहणं लपनं गतिः ।
कर्मेन्द्रियाणामेते हि विषयाः परिकीर्तिताः ॥ ४४ ॥
आत्मा मनश्च बुद्धिश्च अन्तःकरणमुच्यते ।
आत्माबुद्धीन्द्रियाण्यर्था बहिः करणमुच्यते ॥ ४५ ॥
शब्दान्मृगो गजः स्पर्शात्पतङ्गो रूपतस्तथा ।
रसा(स)न्नलिर्गन्धान्मत्स्यो विषपंचे(षे पञ्च) पतन्ति च ॥ ४६ ॥
तस्माद्देशं च कालं च ज्ञात्वा विभवमात्मनः ।
अनासक्तैश्च सेव्यन्ते विषयान्भोगमात्मनः ॥ ४७ ॥

दोषसहस्रशरीरैर्मनसा च सहैन्द्रियैः ।
एवमध्यात्मशुद्धात्मा न मल्लः परिभूयते ॥ ४८ ॥
सजनाक्षुत्पिपासेच्छा वातपित्तकफोद्भवः ।
शरीरजस्तथा व्याधिर्मानं च कथितं बुधैः ॥ ४९ ॥
शीतोष्णवर्षसंभवं दोषमागन्तुकं विदुः ।
इत्याध्यात्मयुतो मल्लो न दोषोपि च पीड्यते ॥ ५० ॥
कामक्रोधस्तथा लोभो हर्षश्चैव तथा परः ।
मानस्तथा मदश्चैव शत्रवश्चातिसेविताः ॥ ५१ ॥
इति श्रीमल्लपुराणे अध्यात्मप्रकरणं नाम दशमोऽध्यायः ( त्रयोदशोऽध्यायः )

चतुर्दशोऽध्यायः ।
जयश्च सर्वमल्लानां युद्धे द्वादशधा भवेत् ।
उद्यमे विजयः कोपि व्यायामे विजयस्तथा ॥ १ ॥
अग्निजयस्तथाहारपरिणामजयस्तथा ।
बलजयः प्राणजयः पराक्रमजयोपि च ॥ २ ॥
तथा जयश्च क्रमणे लाघवेपि जयस्तथा ।
जयोपि सर्वसामान्यः ख्यातः सर्वजयोपि च ॥ ३ ॥
उद्यमो मानसो जातो व्यायामोप्युन्मदाद्भवेत् ।
व्यायामादग्निसंपत्तिरग्निराहारसंभवः ॥ ४ ॥
आहारात्परिणामस्तु परिणामाद्बलं तथा ।
बलादपि भवेत्प्राणः प्राणादपि पराक्रमः ॥ ५ ॥
पराक्रमादर्थक्रमः क्रमाल्लाघववानपि ।
लाघवाज्जायते त्राणं त्राणात्सर्वजयो भवेत् ॥ ६ ॥
अतो मल्लैः प्रयत्नेन त्याज्या एव दश स्त्रियः ।
द्विजपत्नी परपत्नी गुरुपत्नी च सर्वदा ॥ ७ ॥
राजपत्नी कुमारी च गोत्रिणी च व्रते स्थिता ।
अर्धशूरस्तथोर्ध्वं च प्राणशूरस्तथाधिकः ॥ ८ ॥
अप्राणशूर एवान्याः शूराः सर्वे भवन्त्यपि ।
तथावासिकशूरा यैर्वीरो भग्नशूरकः ॥ ९ ॥
अभग्नशूरकोप्यन्यः श्रमशूरस्तथा परः ।
तथा चाश्रमशूरोपि युद्धशूरपरोपि च ॥ १० ॥
अयुद्धशूरः कोपि स्यात् शूरोपि सहजेन च ।
गर्भशूरा भवन्त्येते द्वात्रिंशत्संख्यया स्फुटम् ॥ ११ ॥
९

६६ मल्लपुराणे
उत्तमाः कथिताश्चैवं कथयामि च मध्यमाः ।
षट्त्रिंशन्मध्यमाश्च कथ्यन्ते क्रमशो गताः ॥ १२ ॥
श्वेतशूरो भवेत्कश्चिद् दृष्टिभीरुस्तथा परः ।
सभाशूरोपि भवति कोपि दैवात्स्वभावतः ॥ १३ ॥
अज्ञाने भीरुकः कश्चिद्भवेदपि यथा तथा ।
वाक्यशूरस्तथा हस्तमेलने भीरुरेव च ॥ १४ ॥
अङ्गशूरकः कश्चिद्बाहोः स्फालनभीरुकः ।
स्थानशूरो भवेद्दन्यो आस्थाने भीरुरेव च ॥ १५ ॥
अङ्गभीरुस्तथा कोपि तथा शूरस्तथैव च ।
स्थानके शूर एव स्याद्भीरुर्विज्ञानकेपि च ॥ १६ ॥
विज्ञानशूरो भीरुश्च कोप्यविज्ञानकर्मणि ।
प्राणशूरो रक्षाभीरुश्चलेन भीरुरेव च ॥ १७ ॥
अधश्चालनभीरुश्च ऊर्ध्वभीरुस्तथैव च ।
अधोभीरूक्षणशूरोप्प्राणे भीरुकस्तथा ॥ १८ ॥
अशीके शूर एव स्यादाशीके भीरुरेव च ।
अभग्नशूरकोपि स्याद्भग्नो भीरुस्तथैव च ॥ १९ ॥
रोपणे च भीरु युद्धे युद्धे च भीरुरेव च ।
युद्धे भीरुः सदैव स्याद्युद्धे शूर एव च ॥ २० ॥
सहजे च तथा भीरुः सभाभीरुस्तथैव च ।
स्थानभीरुस्तथान्यश्च वाक्यभीरुस्थानपरः ॥ २१ ॥
हस्तमेलापके भीरू रङ्गभीरुस्तथापरः ।
अरङ्गभीरुकः कश्चित्पतने कोपि भीरुकः ॥ २२ ॥
स्थानके भीरुरन्योपि कथाभीरुस्तथैव च ।
अर्धभीरुरधोभीरुर्ज्ञाने च भीरुकस्तथा ॥ २३ ॥

चतुर्दशोऽध्यायः । ६७
बालत्वे भीरुकः कोपि लागभीरुस्तथापरः ।
अलेण भीरुकश्चान्यो भग्नभीरुस्तथापरः ॥ २४ ॥
अभग्नभीरुकः कोपि तथैवाशार्किभीरुकः ।
प्राणे भीरुः परप्राणे भीरुको युद्धभीरुकः ॥ २५ ॥
अयुद्धभीरुकः कश्चिद्विज्ञानिनि भीरुकः ।
सहने च गर्भभीरूरगर्भे भीरुरेव च ॥ २६ ॥
अधमाः कथिताश्चैते चतुस्त्रिंशदिमे गुणाः ।
आहूय सकलान् मल्लन् सर्वं च पालिकादिने ॥ २७ ॥
यस्य प्राणं च प्राणं च सामर्थ्यं च दृढं बलम् ।
यस्यास्ति सदृशं धैर्यं यस्य स्यात्सदृशं बलम् ॥ २८ ॥
यस्य प्राणं च संपूर्णं ज्ञायते न च शोधयेत् ।
कृते मल्ले समर्थे च यस्य स्याद्भीमदर्शनम् ॥ २९ ॥
प्रातर्योधनमित्येवमुक्त्वा सर्वान् विसर्जयेत् ।
प्रभाते युद्धमस्तीति रात्रौ दिव्याश्च ततः ॥ ३० ॥
कर्पूरादिसुगन्धैश्च पुष्पधूपादिमङ्गलैः ।
नीराजनैश्च नैवेद्यैरर्घ्यदानैः प्रमाणभिः ॥ ३१ ॥
सन्तुष्टः स्याद्यथा कृष्णो मल्लानां च जयप्रदः ।
राजा च प्रातरुत्थाय मल्लानुत्थापयेत्पुनः ॥ ३२ ॥
तथा चन्दनकर्पूरकस्तूरी कुङ्कुमादिकम् ।
करेणुकं वाद्यानि बहून्युत्सवहेतवे ॥ ३३ ॥
राजा सर्वान् समाहर्तुं कर्माधिकृतपूरुषान् ।
आज्ञापयेन्मृत्तिकाया आनयनाय सत्वरः ॥ ३४ ॥
सामग्रीं कारयेत्पश्चाद्यथोक्तं विधिवत्ततः ।
मल्लयुद्धविधानाय रङ्गभूमिं तु विस्तराम् ॥ ३५ ॥

६८ मल्लपुराणे
प्रपूज्यां सुदृशां चैव सुवर्तुलाममां नवाम् ।
एकविंशतिहस्तैश्च विस्तीर्णां च प्रमाणतः ॥ ३६ ॥
हस्तेनोच्चामनीरक्षामतिमन्द्रा(म)निन्दिताम् ।
बीजपातक्षेत्रमिव कोमलां च मनोरमाम् ॥ ३७ ॥
रक्षा सन्तापयेन्म्लान् शोषं च कुरुते परम् ।
कण्टकाः कर्कराश्चैव वर्जनीयाः प्रयत्नतः ॥ ३८ ॥
छिद्राणि चैव रन्ध्राणि पूरयित्वा विशोधनैः ।
शोधयित्वा प्रपूज्या च बहुपुष्पाक्षतैः किल ॥ ३९ ॥
तत्र जयस्य प्राप्त्यर्थं हरिं संस्थापयेत्परम् ।
बीजपूरकमप्यत्र रङ्गमध्ये निवेशयेत् ॥ ४० ॥
एतलक्षणसंयुक्तं कारयेद्रङ्गमुत्तमम् ।
आयुरारोग्यदं सौख्यं श्रीकरं च यशस्करम् ॥ ४१ ॥
सुखं ददाति परमं रङ्गमेवंविधं परम् ।
अथ संपूज्य गोविन्दं सभामाक्रम्य पुष्कलाम् ॥ ४२ ॥
चतुरैः सहितो राजा पश्येद्युद्धं समाहितः ।
अथ व्यवस्थिते युद्धे सर्वसंपत्तिसंभवे ॥ ४३ ॥
मल्लानां परीक्षणाय श्रावयेत्प्रतिमान्दिरम् ।
नियुद्धमद्य चास्तीति कर्तव्यं दधिमण्डलम् ॥ ४४ ॥
ततो व च(वचनं) संस्कारवस्तूनि प्रतिपादयेत् ।
राजा भुक्त्वोत्तरं चैव विधिवत्क्रम्य तां सभाम् ॥ ४५ ॥
आहूय तान् जनेनैव मल्लान् शीघ्रं समाहितः ।
महादेव्या देवकुमारी तथामाल्यैः सकौतुकीम् ॥ ४६ ॥
विलासिनीभिः सहितो रङ्गं गच्छेत्समाहितः ।
स्थित्वा स्वस्थः सभां कृत्वा मल्लानां ज्ञापयेत्परम् ॥ ४७ ॥

योद्धव्याः सर्वमल्लास्तु द्वन्द्वशोथ यथाबलम् ।
मल्लैस्तु सावधानैश्च कर्तव्यं युद्धमुत्तमम् ॥ ४८ ॥
कराङ्गुलिषु संवेश्य सूत्रग्रन्थितमायुधम् ।
तेन सूत्रमयेनाथ जयमन्त्रकृतेन वा ॥ ४९ ॥
शत्रुभङ्गे भवेन्मल्लो जयश्रीः प्राप्यतेऽचिरात् ।
तेन बाणप्रहारस्तु मेल्लाङ्गेषु प्रजायते ॥ ५० ॥
चरणेन प्रहारस्तु प्रहारो जानुभिस्तथा ।
कटिप्रहार उरसा पृष्ठनाथ करेण च ॥ ५१ ॥
मुष्टिप्रहार इतरः शिरसा च ललाटये(के) ।
राजा च जयिनं मल्लं कुर्याच्छृङ्गारसंयुतम् ॥ ५२ ॥
गजारोहणकं कृत्वा वादित्रैश्चैव संयुतम् ।
पुष्पवस्त्रसमायुक्तं कुङ्कुमारक्तचन्दनैः ॥ ५३ ॥
अलंकृतं गजारूढं भ्रामयेत्प्रतिमन्दिरम् ।
लोकानां कौतुकार्थाय जयशब्दैश्च वाचयेत् ॥ ५४ ॥
पुरः प्रदक्षिणां कृत्वा प्रत्यागत्य सभां पुनः ।
ततोवतीर्य मल्लो वै गजाद्रङ्गं प्रविश्यति ॥ ५५ ॥
नारायणं नमस्कृत्य प्रणम्य च गुरूनपि ।
राजाग्रे च समागच्छेत् करास्फोटनपूर्वकम् ॥ ५६ ॥
प्रणम्य राजानमितो महादेवीं प्रणम्य च ।
कृतवारङ्गं नमस्कृत्य पुष्पप्रकरसंयुगे ॥ ५७ ॥
सोमेश्वर समस्तानां कलाश्च कथयाम्यहम् ।
आदौ करणकला ॥ १ ॥ तर्ककला ॥ २ ॥ विद्याकला ॥ ३ ॥ काव्यकला
॥ ४ ॥ धर्मकला ॥ ५ ॥ कामकला ॥ ६ ॥ या(का)चकला ॥ ७॥ पुराणकला ॥ ८ ॥
पाषाणकला ॥ ९ ॥ काष्ठकला ॥ १० ॥ चित्रविचित्रकला ॥:११॥ स्त्रीकला ॥ १२ ॥
गजकला ॥ १३ ॥ वाजिकला ॥ १४ ॥ ज्ञानकला ॥ १५ ॥ लक्षणकला ॥ १६ ॥

युद्धकला ॥ १७ ॥ ताम्रचूडकला ॥ १८ ॥ मेषकला ॥ १९ ॥ पक्षिकला ॥ २० ॥
रणकला ॥ २१ ॥ मण्डनकला ॥ २२ ॥ वस्त्रकला ॥ २३ ॥ नीतिकला ॥ २४ ॥
सर्वशास्त्रकला ॥ २५ ॥ लेखनकला ॥ २६ ॥ गन्धकला ॥ २७ ॥ ज्योतिःशास्त्रकला
॥ २८ ॥ वैद्यकला ॥ २९ ॥ विषकला ॥ ३० ॥ भूतकला ॥ ३१ ॥ मन्त्रकला ॥ ३२ ॥
तन्त्रकला ॥ ३३ ॥ नियुद्धकला ॥ ३४ ॥ इन्द्रकला ॥ ३५ ॥ वृक्षकला ॥ ३६ ॥
धातुकला ॥ ३७ ॥ व्यापारकला ॥ ३८ ॥ शिल्पकला ॥ ३९ ॥ भूमिकला ॥ ४० ॥
कर्मकला ॥ ४१ ॥ स्वेदकला ॥ ४२ ॥ भुजकला ॥ ४३ ॥ वाद्यकला ॥ ४४ ॥
स्थैर्यकला ॥ ४५ ॥ शौर्यकला ॥ ४६ ॥ मणिकला ॥ ४७ ॥ परहि(चि)त्तरञ्जनकला ॥ ४८ ॥
परचित्तज्ञानकला ॥ ४९ ॥ शत्रुकला ॥ ५० ॥ रथकला ॥ ५१ ॥ आयुधकला ॥ ५२ ॥
मृगकला ॥ ५३ ॥ दानकला ॥ ५४ ॥ ग्रहणकला ॥ ५५ ॥ दूतकला ॥ ५६ ॥
नाटककला ॥ ५७ ॥ पलायनकला ॥ ५८ ॥ क्रीडाकला ॥ ५९ ॥ शयनकला ॥ ६० ॥
आसनकला ॥ ६१ ॥ मानकला ॥ ६२ ॥ परीक्षाकला ॥ ६३ ॥ सैन्यकला ॥ ६४ ॥
इति चतुःषष्टिकलाः ।
सूतकाधिकृतश्चैव अन्तःपुरनिवारणम् ॥ ५८ ॥
यानीयरक्षकाःस्कन्धधराश्चेटकवेदिनः ।
वणिका व्यवहारज्ञा ज्ञेया रत्नपरीक्षकाः ॥ ५९ ॥
वेश्याश्चैव विलासिन्यो लेखका दूतकारकाः ।
दासाश्चैव तु भृत्याश्च गजवैद्यास्तथापरे ॥ ६० ॥
कौतूहलकराः प्रोक्ता रसवाक्यविदस्तथा ।
इति युक्तिविदश्चैव गन्धयुक्तिविदस्तथा ॥ ६१ ॥
हास्यकाराः कथाकारा युद्धेषु कुशलास्तथा ।
देशमायाविदश्चैव काव्यादिकुशलास्तथा ॥ ६२ ॥
अनेकभाषाकुशलाः कवितायां तथैव च ।
क्रीडायां कुशलाश्चैव धूर्तकर्मविदस्तथा ॥ ६३ ॥
धातुवादविदः केचिन्नौकाकर्मविदस्तथा ।
अग्निस्तम्भो जलस्तम्भो मन्त्रवादस्तथापरः ॥ ६४ ॥

चतुर्दशोऽध्यायः । ७१
नापिताश्च बन्दिनश्च सङ्केतज्ञास्तथैव च ।
विनोदकराश्च विज्ञेयाः सभासंपत्तिहेतवे ॥ ६५ ॥
एतैः पात्रै राजसभा नियुद्धालोकनोनमुखैः ।
शोभिता शुद्धधर्मज्ञै रत्नसंपत्तिमण्डितैः ॥ ६६ ॥
इति श्रीमल्लपुराणे युद्धसमये राजसभावर्णनं नामैकादशोऽध्यायः [ चतुर्दशोऽध्यायः ] ।

पञ्चदशोऽध्यायः।
चतुर्विधं नियुद्धं तु शृणु मतिमन्तां वर ।
आद्यं धरणिपातं च आसुरं च द्वितीयकम् ॥ १ ॥
तृतीयं नारमित्युक्तं युद्धं पुनश्चतुर्थकम् ।
तेषां धरणिपातस्य भेदः पञ्चविधो भवेत् ॥ २ ॥
तलप्रहारः प्रथमः करप्रहार एव च ।
निपत्य चात्मना भूमौ परं पातयति ध्रुवम् ॥ ३ ॥
पातितस्य स्फुटं हारनिरुद्धे विजयो भवेत् ।
ज्ञात्वैवं बलबुद्धिभ्यां युद्धमेतत्समाचरेत् ॥ ४ ॥
अथैतद्भासुरं युद्धं द्वात्रिंशद्भेदभीषणम् ।
केषाकर्षणपीडा च कर्णस्फोटनमेव च ॥ ५ ॥
नासिकास्फोटनं चैव तथा चर्वणमेव च ।
दन्तपातनमेव स्यान्मुखे पांशुनिपातनम् ॥ ६ ॥
अथ पांशौ परिक्षेपो नखैरेव विदारणम् ।
नाडिकापीडनं चैव ग्रीवाग्रहणकं तथा ॥ ७ ॥
एकाङ्गुलीमोडनं वा तथा द्व्यङ्गुलिमोडनम् ।
अङ्गुलीत्रितयस्यापि मोडनं कथितं क्वचित् ॥ ८ ॥
कराङ्गुष्ठमोडनं च पादाङ्गुष्ठस्य मोडनम् ।
समग्राङ्गुलिभङ्गो वा फणग्रहणमेव च ॥ ९ ॥
भारेण च प्रहारेण विज्ञानेन पुनस्तथा ।
वाल्केन प्रकारेण मारयुद्धमथापि च ॥ १० ॥
प्राणेन चौजसा चैव तथा वह्णिनापि च ।
येन केन प्रकारेण मारयुद्धं समागताः ॥ ११ ॥
१०

पञ्चदशोऽध्यायः । ७३
स एव मर्मो मल्लानां पातनं च महीतले ।
भारं च भारभङ्गं च वितरं समरे त्यजेत् ॥ १२ ॥
येनाषाढकमध्ये तु जीवितं च विमुञ्चति ।
इदानीं धर्मयुद्धस्य द्वात्रिंशत्कथिता गुणाः ॥ १३ ॥
तानहं कथयिष्यामि यथा विक्रमणागताः ।
केशानांकर्षयति च कर्णौ च त्रोटयत्यपि ॥ १४ ॥
अक्षिणी न स्फोटयत्यपि मुखं च स्फोटयत्यपि ।
नासिकां च त्रोटयति नन्दाति सर्वयत्यति ॥ १५ ॥
न दन्तान् पातयति च पांशुक्षेपो न वै मुखे ।
नाक्ष्णोः पांशुपातनं च विदारयति नो नखैः ॥ १६ ॥
न नालिका पीडयति ग्रीवां चैव न पीडयेत् ।
न कच्छछोटनं कुर्याद्दण्डं गृह्णाति नैव हि ॥ १७ ॥
शिरसो घातनं नैव मर्मभङ्गं च वर्जयेत् ।
प्रकाशयन् धर्मयुद्धं यशोहर्षविवर्धनम् ॥ १८ ॥
धरणीपातितस्याथ मत्सरं परिवर्जयेत् ।
यः कश्चिद्दर्पसंयोगादासुरं युद्धमारेभेत् ॥ १९ ॥
भग्ने वापि मृते तस्मिन् राजा च दोषभागभवेत् ।
इत्यङ्गसङ्गरे मल्लं ज्ञात्वा यत्नेन भूपतिः ॥ २० ॥
निवारयति यो भूयः संप्राप्नोति परं यशः ।
पक्षपातो न कर्तव्यः सर्वत्र समतां वरः ॥ २१ ॥
समेन पालयेद्राजा यशः प्राप्नोति निश्चितम् ।
धर्मयुद्धे कृते मल्लो मल्ल मारयते यदि ॥ २२ ॥
राजा चोपेक्षते चैव तदा दोषो महान् भवेत् ।
प्रमदा (मादान्) म्रियते वापि न दोषो राजमल्लयोः ॥ २३ ॥
१०

७४ मल्लपुराणे
घाताश्चैवोपघाताश्च विज्ञाताश्चैव विक्रमाः ।
इत्येते धर्मयुद्धस्य द्वात्रिंशत्कथिता गुणाः ॥ २४ ॥
इति श्रीमल्लपुराणे युद्धप्रकरणं नाम द्वादशोऽध्यायः [ पञ्चदशोऽध्यायः ] ।