मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)
Malavikagnimitram of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 43, कुल 111 में से
संदर्भ में पढ़ें४० मालविकाग्निमित्रे
विदूषकः— १णरिहदि भवं अन्तेउरपइड्ठिदं दक्खिण्णं एक्क
पदे पिट्ठदो कादुम् ।
राजा—(विचिन्त्य ।) तेन हि प्रमदवनमार्गमादेशय ।
विदूषकः— २इदो इदो भवं ।
( उभौ परिक्रामतः ।)
विदूषकः— ३एदं पमदवणं पवणदरचलाहिं पल्लवङ्गुलीहिं तुव-
रेदि विअ भवन्तं पवेसिदुं ।
राजा—(स्पर्शसुखं रूपयित्वा ।) अभिजातः खलु वसन्तः । सखे,
पश्य ।
आमत्तानां श्रवणसुभगैः कूजितैः कोकिलानां
सानुक्रोशं मनसिजरुजः सह्यतां पृच्छतेव ।
अङ्गे चूतप्रसवसुरभिर्दक्षिणो मारुतो मे
सान्द्रस्पर्शः करतल इव व्यापृतो माधवेन ॥ ४ ॥
विदूषकः— ४पविस णिव्वुदि लाहाअ ।
( उभौ प्रविशतः ।)
विदूषकः— ५अवहाणेण दिट्ठिं देहि । एदं खु भवन्तं विअ वि-
१. नार्हति भवानन्तःपुरप्रतिष्ठितं दाक्षिण्यमेकपदे पृष्ठतः कर्तुम् ।
२. इत इतो भवान् ।
३. एतत्प्रमदवनं पवनदरचलाभिः पल्लवाङ्गुलिभिस्त्वरयतीव भवन्तं
प्रवेष्टुम् ।
४. प्रविश निर्वृतिलाभाय ।
५. अवधानेन दृष्टिं देहि । एतत्खलु भवन्तमित्र विलोभयितुकामया
मधुलक्ष्म्या युवतिवेषलज्जयितृकं वसन्तकुसुमनेपथ्यं गृहीतम् ।
नार्हति भवानन्तःपुरप्रतिष्ठितं दाक्षिण्यमेकपदे पृष्ठतः कर्तुम् ॥ इत इतो भवान् ॥
एतत्प्रमदवनं पवनदरचलाभिः पल्लवाङ्गुलिभिस्त्वरयतीव भवन्तं प्रवेष्टुम् ॥ आम-
त्तानामित्यादि। स्पष्टोऽर्थः ॥ प्रविश निर्वृतिलाभाय ॥ अवधानेन दृष्टिं देहि। एत-
त्खलु T वसन्तकु