सामग्री पर जाएँ
सर्वकोश
मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)

मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)

Malavikagnimitram of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा

DevanagariSanskritpublished111 पृष्ठ

पृष्ठ 40, कुल 111 में से

संदर्भ में पढ़ें
पृष्ठ 40

तृतीयाऽङ्कः । ३७
मधुरिका—हेला, समं एव गच्छह्म । अहं वि इमस्स चि-
राअमाणकुसुमोग्गमस्स तवणीआसोअस्स दोहलनिमित्तं देवीए
विण्णावेमि ।
समाहितिका—जुज्जइ । अहिआरो क्खु तुह ।
( इति निष्क्रान्ते )
इति प्रवेशकः ।
(ततः प्रविशति कामयमानावस्थो राजा विदूषकश्च ।)
राजा—(आत्मानं विलोक्य ।)
शरीरं क्षामं स्यादसति दयितालिङ्गनसुखे
भवेत्सास्रं चक्षुः क्षणमपि न सा दृश्यत इति ।
तया सारङ्गाक्ष्या त्वमसि न कदाचिद्विरहितं
प्रसक्ते निर्वाणे हृदय परितापं व्रजसि किम् ॥ १ ॥
विदूषकः—अलं भवदो धीरं उज्झिअ परिदेविदेण । दिट्ठा
मए तत्तहोदीए मालविआए पिअसही बउलावलिआ । सुणाविदो
अअं अत्यो जो भवदा संदिट्ठो ।
१. सखि सममेव गच्छावः । अहमप्यस्य चिरायमाणकुसुमोद्गमस्य
तपनीयाशोकस्य दोहदनिमित्तं देव्यै विज्ञापयामि ।
२. युज्यते । अधिकारः खलु तव ।
३. अलं भवतो धीरतामुज्झित्वा परिदेवितेन । दृष्टा मया तत्रभवत्या
मालविकायाः प्रियसखी बकुलावलिका । श्रावितोऽयमर्थो यो भवता
संदिष्टः ।
णकुसुमोद्गमस्य तपनीयाशोकस्य दोहदनिमित्तं देव्यै विज्ञापयामि ॥ युज्यते । अधि-
कारः खलु तव ॥ इति प्रवेशकः ॥ ततः प्रविशतीत्यादि । कामयमानावस्थः ।
कामयमानानां कामिनामवस्थेवावस्था दशा यस्य स तथोक्तः ॥ शरीरमित्यादि ।
दयितालिङ्गनसुखे प्रियाश्लेषसौख्येऽसत्यविद्यमाने सति शरीरं वपुःक्षामं स्यात्कृशं
भवेत् । क्षणमपि क्षणमात्रमपि सा मालविका न दृश्यत इति न लक्ष्यत इति चक्षुः
सास्रं सबाष्पं भवेत्स्यात् । हे हृदय चित्त, सारङ्गाक्ष्या हरिणनेत्रया तया मालविकया
कदाचिज्जातुचिद्विरहितं वियुक्तं नासि न भवसि । अतस्तत्सात्कारणान्निर्वाणे सुखे
माल० ४