सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

Malatimadhavam of Mahakavi Bhavabhuti with Commentary

महाकवि भवभूति द्वारा

DevanagariHindipublished377 पृष्ठ

सप्तमोऽङ्कः । १८१

मदयन्तिका—(निःश्वस्य ।) ¹किं एत्तिअं आसासिव्हि ।
बुद्धरक्षिता—²सहि, कहेहि ।
लवङ्गिका—³सहि, कहिदं एव हिअआवेअसूअएहिं दीह-
णीसासेहिं ।
मदयन्तिका—⁴सहि, काहं इमस्स देण एव अत्ताणं पणीक-
दुअ मिच्चुकवलणादो आकड्ढिअस्स तस्स एव्व परईअस्स किच्चकिं-
करस्स अप्पणो सरीरस्स ।
लवङ्गिका—⁵सरिसं खु महाणुभावदाए ।
बुद्धरक्षिता—⁶सुमरेसि एदं वअणं ।
मदयन्तिका—⁷कहं दुदिअआमविच्छेदपडहो ताडिअदि । ता
जाव णन्दणं णिब्भच्छिअ सपादपडणं वा अब्भत्थिअ मालदीए उ-
वरि अणुऊलइस्सं । (इत्युत्थातुमिच्छति ।)


१. कस्मादेतावदाश्वासितास्मि ।
२. सखि, कथय ।
३. सखि, कथितमेव हृदयावेगसूचकैर्दीर्घनिःश्वासैः ।
४. सखि, काहमेतस्य तेनैवात्मानं पणीकृत्य मृत्युकवलनादाकृष्टस्य तस्यैव
परकीयस्य कृत्यकिंकरस्यात्मनः शरीरस्य ।
५. सदृशं खलु महानुभावतायाः ।
६. स्मरिष्यसेतद्वचनम् ।
७. कथं द्वितीययामविच्छेदपटहस्ताड्यते । तद्यावन्नन्दनं निर्भर्त्स्य सपाद-
पतनं वाभ्यर्थ्य मालत्या उपर्यनुकूलयिष्यामि ।


दृसाहसेन सहधर्मचारिणीं करोति तदा कीदृशी प्रतिपत्तिः किं प्रतिपत्तव्यम् । मन्म-
थबलात्कारः संजातो यस्मिंस्तादृशः । कंदर्पजननीं प्रद्युम्नमातरं मन्मथविकारहेतुं
च । पुरुषोत्तमो हरिः पुरुषश्रेष्ठश्च ॥ मदयन्तिका । कस्मादेतावदाश्वासितास्मि ।
मनोरथमात्रमिदं न संभाव्यत इति भावः ॥ बुद्धरक्षिता । सखि, कथय । व्यक्ती-
कृतेति शेषः ॥ लवङ्गिका । सखि, कथितमेव हृदयावेगसूचकैर्दीर्घनिःश्वासैः ।
इष्टमेवैतद्यदि सिध्येदिति कथितमेवेत्यर्थः । तस्मान्मकरन्दानयनोपायश्चिन्त्यता-
मिति भावः ॥ मदयन्तिका । सखि, काहमेतस्य तेनैवात्मनः पणीकृत्य मृत्यु-
कवलनादाकृष्टस्य तस्यैव परकीयस्य कृत्यकिंकरस्यात्मनः शरीरस्य ॥ लवङ्गिका ।
सदृशं खलु महानुभावतायाः । तद्युक्तमिति शेषः ॥ बुद्धरक्षिता । स्मरिष्यस्येत-
द्वचनम् ॥ मदयन्तिका । कथं द्वितीययामविच्छेदपटहस्ताड्यते । तद्यावन्नन्दनं

१८२ मालतीमाधवे
(मकरन्दो मुखमुद्भाव्य तां हस्ते गृह्णाति ।)
मदयन्तिका—सहि मालदि, पडिबुद्धासि । (विलोक्य सहर्षं
ससाध्वसं च ।) अह्महे, एदं अण्णं एव्व वट्टइ ।
मकरन्दः—
रम्भोरु संहर भयं क्षमते विकार-
मुत्कम्पिनः स्तनतटस्य न मध्यभागः ।
इत्थं त्वयैव कथितप्रणयप्रसादः
संकल्पनिर्वृतिषु संस्तुत एष दासः ॥ २ ॥
बुद्धरक्षिता—(मदयन्तिकामुखमुन्नमय्य संस्कृतमाश्रित्य ।)
प्रेयान्मनोरथसहस्रवृतः स एष
सुप्तप्रमत्तजनमेतदमात्यवेश्म ।
प्रौढं तमः कुरु कृतज्ञतयैव भद्र-
मुत्क्षिप्तमूकमणिनूपुरमेहि यामः ॥ ३ ॥
१. सखि मालति, प्रतिबुद्धासि । अहो, इदमन्यदेव वर्तते ।
[

सप्तमोऽङ्कः । १८३
मदयन्तिका—सहि बुद्धरक्खिदे, कहिं पुणो दाणिं अह्मेहिं
गन्दव्वं ।
बुद्धरक्षिता—जेहिं एव्व मालदी गदा ।
मदयन्तिका—किं³ णिव्वुत्तसाहसा मालदी ।
बुद्धरक्षिता—अह इं । अण्णं अ तुमं भणासि । (‘का हं इमस्स’
इत्यादि पठति ।)
(मदयन्तिकाश्रूणि पातयति ।)
बुद्धरक्षिता—महाभाअ, दिण्णो खु सअं अप्पा पिअसहीए ।
मकरन्दः—
अद्योर्जितं विजितमेव मया किमन्य-
दद्योत्सवः फलवतो मम यौवनस्य ।
यन्मे प्रसादसुमुखेन समुद्यतेयं
देवेन बान्धवधुरा मकरध्वजेन ॥ ४ ॥

१. सखि, बुद्धरक्षिते, क्व पुनरिदानीमस्माभिर्गन्तव्यम् ।
२. यत्रैव मालती गता ।
३. किं निर्वृत्तसाहसा मालती ।
४. अथ किम् । अन्यच्च त्वं भणसि ।
५. महाभाग, दत्तः खलु स्वयमात्मा प्रियसख्या ।

स्यादेवं यामः । एहि । नूपुरध्वनिरन्यैर्यथा न श्रूयते, तथोर्ध्वमुत्क्षिप्य कैश्चित्पद्बल-
क्षिता यत्र मालतीमाधवौ तत्रैव यामस्त्वरितं मा लज्जस्वेत्यर्थः ॥ ३ ॥ मदय-
न्तिका । सखि बुद्धरक्षिते, क्व पुनरिदानीमस्माभिर्गन्तव्यम् ॥ बुद्धरक्षिता ।
यत्रैव मालती गता ॥ मदयन्तिका । किं निर्वृत्तसाहसा मालती । साहसं स्व-
यमेवात्मप्रदानम् ॥ बुद्धरक्षिता । अथ किम् । निर्वृत्तसाहसैवेत्यर्थः । अन्यच्च
त्वं भणसि । ‘काहमितस्य’ इत्यादि पठति । त्वया यदुक्तं तदनुरूपं विधेहीत्यर्थः ॥
मदयन्तिका गुरुजनविधीयमानसप्रदान इव स्वयमश्रूणि पातयति ॥ बुद्धरक्षिता
आनन्दाश्रुविमोचनेनैव तस्याः स्वात्मप्रदानमधिगम्याह—महाभाग, दत्तः खलु
स्वयमात्मा प्रियसख्या । आनन्दाश्रुपूर्वकमिति भावः ॥ मकरन्दः—अद्येति ।
अद्य प्रियतमालाभान्मयोर्जितं बलं यथा स्यादेवं विजितमेव सर्वोत्तरत्वं संपादित-
मेव । किमन्यदितः परमाश्रास्यमवशिष्टम् । न किंचिदित्यर्थः । तथा फलवतो द-
यिताप्राप्त्यैव सफलस्य मे नवयौवनस्याद्योत्सवो मङ्गलदिनम् । यन्मे प्रसादमुखेन
मकरध्वजेन माधवाभिलषितं संपाद्य मदभिलषितमपि संपादयता बान्धवधुरा
१७ माल०

१८४ मालतीमाधवे
तदनेन पक्षद्वारेण साधयामः ।
(निभृतं परिक्रामन्ति ।)
मकरन्दः—अहो निशीथनिःसंचाररमणीयता राजमार्गस्य ।
संप्रति हि ।
प्रासादानामुपरि वलभीतुङ्गवातायनेषु
प्राप्तामोदः परिणतसुरागन्धसंस्कारगर्भः ।
माल्यामोदी मुहुरुपचितस्फीतकर्पूरवासो
वातो यूनामभिमतवधूसंनिधानं व्यनक्ति ॥ ५ ॥
(इति निष्क्रान्ताः सर्वे ।)
इति महाकविश्रीभवभूतिविरचिते मालतीमाधवे सप्तमोऽङ्कः ।
बन्धुकृत्यमुद्यतोचितपदं प्रापिता ॥ ४ ॥ पक्षद्वारेण पार्श्वद्वारेण । साधयामो ग-
च्छामः॥ समीहितं निशीथे निःसंचारेण राजमार्गस्य रमणीयतास्मत्प्रयाणानुगुण्यं
वर्तते ॥ प्रासादानामिति । सौधानामुपरिभागेषु वलभीजालगवाक्षमार्गेषु
प्रविश्य प्राप्तामोदः । 'भ्रान्त्यावृत्तः' इति पाठे गवाक्षमार्गेण हर्म्यतलेषु परिभ्रम्य
पुनरावृत्तः । अत एव परिणतमद्यगन्धजनितवासनानुविद्धः । माल्यामोदी पुनः
पुनरनुषक्तस्फुरद्धनसारगन्धी वातो यूनामभिलषितं युवतीसंनिधानं व्यनक्तीति
मद्यपानमाल्यादिभिः सुरतादिभोगो व्यज्यते ॥ ५ ॥
मद्व्याख्यामन्थमथिताद्भवभूतिवचोम्बुधेः ।
रसामृतमभिव्यक्तं स्वादयन्तु सुधाधियः ॥
इति श्रीमद्भारद्वाजकुलतिलकपर्वतनाथयायजूकनन्दनत्रि-
पुरारिसूरिविरचितायां मालतीमाधवभावप्रदीपिकायां
सप्तमाङ्कविवरणम् ॥

अष्टमोऽङ्कः ।
(ततः प्रविशत्यवलोकिता ।)
अवलोकिता—वन्दिदा मए णन्दणावसथपडिणिउत्ता भ-
अवदी । ता जाव मालदीमाहवसआसं गच्छामि । (परिक्रम्य ।) एदे
दे परिणिउत्तिदगिम्हदिअहावसाणमज्जणा दीहिआतीरसिलातलं अ-
लंकरेदि । ता उपसप्पमि । (इति निष्क्रान्ता ।)
प्रवेशकः ।
(ततः प्रविशतो मालतीमाधवौ उपविष्टावलोकिता च ।)
माधवः—(सानन्दम् ।) वर्धते हि मन्मथप्रौढसुहृदो निशीथस्य
यौवनश्रीः । तथा हि ।
दलयति परिशुष्यत्प्रौढतालीविपाण्डु-
स्तिमिरनिकरमुद्यन्नैन्दवः प्राक्प्रकाशः ।
वियति पवनवेगादुन्मुखः केतकीनां
प्रचलित इव सान्द्रः स्फारस्फारं परागः ॥ १ ॥
१. वन्दिता मया नन्दनावसथप्रतिनिवृत्ता भगवती । तद्यावन्मालती-
माधवसकाशं गच्छामि । एतौ तौ परिनिवर्तितग्रीष्मदिवसावसानमज्जनौ
दीर्घिकातीरशिलातलमलंकुरुतः । तदुपसर्पामि ।
विबुधरत्नावली ।
अथ मालतीमाधवयोः कामन्दक्यावसथस्थितयोः कृत्यवेशसंपादनानुगुणव्यापारा-
र्थमवलोकिताप्रवेशः । अवलोकिता । वन्दिता मया नन्दनावसथप्रतिनिवृत्ता भग-
वती।तद्यावन्मालतीमाधवयोःसकाशं गच्छामि।परिक्रम्यापश्यतीति शेषः। एतौ तौ
परिनिवर्तितग्रीष्मदिवसावसानमज्जनौ दीर्घिकातीरबिलातलमलंकुरुतः । तदुपसर्पा-
मि॥ माधवः। निशीथस्य वक्ष्यमाणचन्द्रोदयत्वेन मन्मथप्रौढसुहृदः। मन्मथसुहृत्ता
च मन्मथसाध्यानुकूलकरणात् । तत्र समये । ‘सानन्दसाध्वसाः सुरतव्यवसायिन्यो
भवन्ति’ इति वात्स्यायनः । तथा हीति कृत्वा तस्या एव निशीथयौवनश्रिय उत्क-
र्षनिमित्तं व्यनक्ति—दलयतीति । उद्यन्नैन्दवः प्रकाशस्तद्वच्छुष्यत्ताली

१८६ मालतीमाधवे
(स्वगतम् ।) तत्कथं वामशीलां मालतीमुपावर्तये । भवत्वेवं तावत् ।
(प्रकाशम् ।) प्रिये मालति,प्रत्यग्रस्नपनावशेषशीतलां भवतीं निदा-
घसंतापशान्तये किंचिद्विज्ञापयामि। तत्किमित्यन्यथैव मां संभावयसि ।
निष्योतन्ते सुतनु कबरीबिन्दवो यावदेते
यावन्मध्यः स्तनमुकुलयोराद्रंभावं जहाति ।
यावत्सान्द्रप्रतनुपुलकोद्भेदवत्यङ्गयष्टि-
स्तावद्गाढं वितर सकृदप्यङ्कपालीं प्रसीद ॥ २ ॥
अयि मालति निरनुक्रोशे,
रित्रत्वेन च तदभिप्रायस्यानुकूलं गम्यमित्याचरन्तीं वामशीलामिव वामशीलामुपाव-
र्तये स्वाभिमतसिद्धिप्रगुणचित्तां करोमि । भवत्वित्युपायस्मरणे । एवं तावत्कामसू-
त्रोक्तेन कन्याविस्रम्भणोपायैनोपावर्तनार्थं यतिष्य इत्यभिप्रायेण मतिं व्यवस्थाप्य
प्रकाशमाह—प्रिय इति । अत्र निदाघसंतापशान्तय इत्युक्त्या संतापप्रतीकारधिया
न रागितयैव त्वदङ्गसङ्गप्रार्थनार्थं विज्ञापयामीति प्रेमगर्भं विनयप्रदर्शनम् । निष्यो-
तन्त इति । सुतन्विति संबोधनेनालिङ्गनात्यन्तोपयुक्तस्य नायिकाशरीरस्याभिराम-
णीयकप्रदर्शनं किमितीदृश्यां दशायां दर्शनार्हं मां न संभावयसि । मया त्वं य-
स्मिन्नवसरे श्मशानभुवि संभावितासि तत्सदृश एवायं समय इत्याशयः । निष्यो-
तन्त इत्यात्मनेपदं चिन्त्यम् । अथ स्नानविमुक्तबन्धकबरीसङ्गिनो जलबिन्दवो
यावदेव पतन्ति, यावद्वा स्तनद्वन्द्वान्तर्भागः स्नानजलाद्रों वर्तते, यावच्च स्नानशैत्या-
त्सान्द्रपुलकत्वं गता तावदेवाश्लेषं देहि, प्रसन्ना भव । एतेन मालत्येवं जानातु य-
त्किल मदङ्गवर्ती मज्जनजनितशैत्यमेवास्य स्पर्शसंतापशान्तये सत्यमभीष्टम्, न पुनः
कामन्दकीलवङ्गिकाद्यभिप्रयानपेक्षमेव परिणयविधानमनादृत्य किंचिच्चिकीर्षुरिति
विमृश्य मालती मह्यं कापालिकवधोपकारबुद्ध्या वितरत्विति माधवस्याशयः । वस्तु-
तस्तु जलमज्जनजन्यां तात्कालिकीं कान्तिं शोभामिति स तत्र कान्तिगतालंका-
रत्वेन भरतमुनिसंमतामवलोक्यातिरागादेवाश्लेषप्रार्थनायां प्रवृत्तः । 'रूपयौवनला-
वण्यादुपभोगोपबृंहितैः । अलंकरणमङ्गानां शोभेति परिकीर्तिता । कान्तिरित्यु-
च्यते सापि शोभैवापूर्णमन्मथा ॥' तथा । 'उत्तिष्ठन्त्या रतान्ते भरमुरगपतौ पाणि-
नैकेन कृत्वा धृत्वा चान्येन वासो विलुलितकबरीभारमंसे वहन्त्याः । भूयस्तत्काल-
कान्तिद्विगुणितसुरतप्रीतिना शौरिणा वः शय्यामालिङ्ग्य नीतं वपुरतिविचलद्बाहु
लक्ष्म्याः पुनातु ॥' इति ॥२॥ अथ कामसूत्रविन्माधवस्तदूह्यस्यापि 'अनुत्तरां चोप-
लक्ष्यात्'(?) इत्यादिकां द्वितीयभूमिकामधिरोपयन्नाह—अयीति । निरनुक्रोशे इति
रोषोद्भावनेन मालत्या विभीषिका दर्शिता । यथाह वात्स्यायनः—'एवं चित्तानुगो
बालामुपायेन प्रसादयेत् । तथा चेत्सानुरागा च विस्रब्धा चापि जायते ॥ नात्यन्त-
मानुलोम्येन न चातिप्रातिकूल्यतः । सिद्धिं गच्छति कन्यासु तस्मान्मध्येन साध-

अष्टमोऽङ्कः । १८७
जीवयन्निव समूढसाध्वस-
स्वेदबिन्दुरधिकण्ठमर्प्यताम् ।
बाहुरैन्दवमयूखचुम्बित-
स्यन्दिचन्द्रमणिहारविभ्रमः ॥ ३ ॥
अथवा दूरे तावदेतत् । कथमालापसंविभोगस्याप्यभाजनमयं जनो
भवत्याः ।
दग्धं चिराय मलयनिलचन्द्रपादै-
र्निर्वापितं तु परिरभ्य वपुर्न नाम ।
आमत्तकोकिलरुतव्यथिता तु हृद्या-
मद्य श्रुतिः पिबतु किंनरकण्ठि वाच्यम् ॥ ४ ॥
अवलोकिता—अई अणिबहणसीले, जं दाणिं मुहुत्तमेत्तन्तरि-
अमाहवा दुम्मणाअन्ती मह पुरदो भणासि । चिराअदि अज्जउत्तो ।
अवि णाम किअच्छिरेण पेक्खिस्सं, जेण पुणो विवड्ढिआसेससज्जसा
१. अयि अनिर्वहणशीले

१८८ मालतीमाधवे
विसुमरिअनिमेसविग्घं ओलोअन्ती एवं भणिस्सं । दुउणिआवे-
ट्ठणपरिरब्भणेण संभाविस्सं ति । स एष अअं परिणामो ।
(मालती सासूयमिव तां पश्यति ।)
माधवः—(अपवार्य ।) अहो भगवत्याः प्रथमान्तेवासिन्याः सर्व-
तोमुखं वैदग्ध्यमक्षय्यसुभाषितरत्नसंचारसंस्करणम् । (प्रकाशम् ।)
प्रिये, सत्यमवलोकिता वदति ।
(मालती मूर्धानं चालयति ।)
माधवः—शापितासि मम लवङ्गिकावलोकितयोश्च जीवितेन
यदि मे न कथयसि ।
ष्ये, येन पुनर्विवर्धिताशेषसाध्वसा विस्मृतनिमेषविघ्नमवलोकयन्त्येवं भणि-
ष्यामि । द्विगुणितावेष्टनपरिरम्भेण संभावयिष्य इति । स एवायं परिणामः ।
मुहूर्त्तमात्रान्तरितश्चासौ माधवश्चेति विग्रहः। दुर्मनायमाना मम पुरतो भणसि॥चि-
रायत आर्यपुत्रः। अपि नाम कियता चिरेण प्रेक्षिष्ये।येन पुनर्विवर्धिताशेषसाध्वसा
विस्मृतनिमेषविघ्नं यथा स्यादेवं नयननिमीलनमेव विघ्नमवलोकयन्त्येवं भणिष्यामि
द्विगुणितावेष्टनपरिरम्भेण संभावयिष्य इति । मदग्रतः प्रागेवमङ्गीकृतस्स स एवाय-
माश्लेषावसरस्य परिणामोऽयमधुना संलापितेऽपि वैदग्ध्यमित्याशयः ॥ मालती
सासूयमिव पश्यतीत्याशयः। न तु सासूयमेव। असूया च कोपो विज्ञेयः। कोपाविष्क-
रणं मद्रहस्यमीदृशमनया व्यक्तीकृतमिति हेतोः । वस्तुतस्तु पूर्वानुरागदर्शितमनो-
रथोऽनयावसरे प्रकटीकृत इति सानन्दमेव पश्यतीत्याशयः॥माधवः। प्रथमान्ते-
वासिन्या इत्युक्त्या कामन्दक्या तादृग्दूत्याचार्यकमपि किमस्यै सम्यगुपदिष्टं यतः
प्रस्तावे मद्धियेयानुगुणमस्या रहस्योद्भेदनमिति कृतवतीत्याशयः । अक्षय्योऽशोष्यो
नवनवस्फूर्तिशोभनभाषितान्येव रत्नानि तेषां संचारोऽन्यत्र मुख्यवृत्तेरन्यत्रापि
कार्याानुकूलत्वेन निवेशनम् । संस्करणमग्राम्यतापादनम् । प्रकाशम् । पृच्छतीति
शेषः । यदवलोकितयोक्तं तत्सत्यमुतोत्पाद्यं कथयतीति प्रश्नस्यायमभिप्रायः । यदि
तावत्पृष्टा नोत्तरं दास्यति तदानुमतिरस्या इत्याकूतोपलब्धिर्भविष्यति । उत्तरप्रदाने
चास्या वचनश्रवणलाभो भवितेति वात्स्यायनोक्तेरालापयोजनेऽन्तर्भावः प्रश्नस्ये-
त्याशयः । तदाह—'सखीं चानुकूलामुभयोरपि विश्रब्धामन्तरा कृत्वा कथायोज-
नम् । तस्मिन्नधोमुखी विहसेत् । तां चातिवादिनीमविक्षिपेद्विदग्धा।परिहासार्थमि-
दमनयोक्तमिति चानुक्तमपि ब्रूयात् । तत्र तामपनुद्य प्रतिवचनार्थमसंपूर्णावाक्यार्थं
तूष्णीमासीत । निर्बध्यमाना तु नाहमेवं ब्रवीमीत्यव्यक्ताक्षरमनवसितार्थवचनं ब्रू-
यात् । नायकं च विहसन्ती कटाक्षैः प्रेक्षेत'इत्यादयोऽपीत्यत्रानवसितार्थमसंपूर्णावा-
क्यार्थम् । मालती न मयैवमुक्तमिति प्रतिपादनार्थं प्रातिकूल्येन शिरश्चालयति।'नि-
र्बध्यमाना तु शिरःकम्पेन प्रतिवचनं ददाति'इति वात्स्यायनः॥ माधवः। लवङ्गि-

अष्टमोऽङ्कः । १८९
मालती—णाहं किं वि जाणामि । (इत्यर्धोक्ते लज्जां नाटयति ।)
माधवः—अहो अनवसितार्थरम्यवचसश्चारुता । (सहसा निरूप्य ।)
अवलोकिते, किमेतत् ।
बाष्पाम्भसा मृगदृशो विमलः कपोलः
प्रक्षाल्यते सपदि राजत एष यस्मिन् ।
गण्डूषपेयमिव कान्त्यमृतं पिपासु-
रिन्दुर्निवेशितमयूखमृणालदण्डः ॥ ५ ॥
अवलोकिता—सहि, किं दाणिं उच्छलिअबाहप्पीडं रोदिअदि ।
मालती—सहि, केचिरं लवङ्गिआए असन्णिहाणदुक्खं अनु-
हविस्सं । पउत्तिलाहो वि से दुल्हहो ।
माधवः—अवलोकिते, किं नामैतत् ।
१. नाहं किमपि जानामि ।
२. सखि, किमिदानीमुच्छलितबाष्पोत्पीडं रुद्यते ।
३. सखि, कियच्चिरं लवङ्गिकाया असंनिधानदुःखमनुभविष्यामि । प्रवृ-
त्तिलाभोपि तस्या दुर्लभः ।
कावलोकितयोर्जीवितेन शापितासीत्युक्त्या लवङ्गिकावलोकिते तवात्यन्तहितप्रवृत्ते
अनतिक्रमणीयवचने चेत्याशयः ॥ मालती । नाहं किमपि जानामीत्युक्त्या चा-
त्मनः कुमारीभावप्रतिपादनार्थं लज्जामिव लज्जां दर्शयति । यथा गुरुजनानपेक्ष्य
साहसानुष्ठानेन सहजलज्जाया असंभवात् ॥ माधवः । अनवसितार्थत्वेन रम्यं
यद्वचस्तस्य चारुता निरूप्य । वदतीति शेषः । एतेनानवसितार्थत्वं गम्यते । तेन
च 'निर्बध्यमाना नाहमेवं ब्रवीमीत्यनवसितार्थं वचनं ब्रूयात्' इति वात्स्यायनोक्तं
स्मारयति । अथ मालत्येककरार्पितकपोलमश्रु पातयतीति गम्यते । तेनाश्रुपात-
निमित्तं माधवोऽवलोकितां पृच्छति । अवलोकिते, किमेतदनौपयिकमश्रुपातन-
मिति । त्वमस्या रहस्यवेदिनीति भावः । बाष्पेति । अस्या मृगाक्ष्याः स्वभावत
एव मलशून्यं किमिति प्रक्षाल्यते । सपदि । आवयोर्वचनान्तरमित्यर्थः । यत्र
कपोले स्वभावनिर्मलत्वेनाश्रुजलपूतत्वेन चेन्दुः प्रतिफलितमयूखत्वेन राजते ।
अस्या मुखामृतसरस्यमृतं पातुमिच्छन्विक्षिप्तरश्मिबिसकाण्ड इवैककरसंक्रान्त-
त्वेनैककपोलस्याश्रुणा प्रक्षालनं युज्यते ॥ ५ ॥ अवलोकिता । सखि, किमि-
दानीमुच्छलितबाष्पोत्पीडं यथा स्यादेवं रुद्यते ॥ मालती । सखि, कियच्चिरं लव-
ङ्गिकाया असंनिधानदुःखमनुभविष्यामि । प्रवृत्तिलाभोऽपि तस्या दुर्लभः । इति

१९२ मालतीमाधवे
माधवः—(सहर्षं परिष्वज्य ।) प्रियं नः । (इति बकुलमालां कण्ठे
ददाति ।)
अवलोकिता—१णिव्वूढो भअवदीए संभावनाभारो बुद्धर-
क्खिदाए ।
मालती—(सहर्षम् ।) २अम्हेहिं वि पिअसही लवङ्गिआ दीसइ ।
(इत्युत्तिष्ठति ।)
(ततः प्रविशति संभ्रान्तः कलहंसो बुद्धरक्षिता लवङ्गिका मदयन्तिका च ।)
सर्वाः—३परित्ताअदु महाभाओ । अद्धमग्गे क्खु णअररक्खि-
पुरिसामिओओ मअरन्दस्स जादो । तदो तक्कालमिलिदेण कलहंस-
एण समं अम्हे अणुप्पेसिदाओ ।
कलहंसः—४जह इदोमुहागदेहिं अम्हेहिं कलअलो सुदो, तह
तक्केमि अण्णं वि पारक्किअं बलं उवागदं ति ।
मालत्यवलोकिते—५हद्धि । समं एव हरिसुव्वेअसंबेदो उवणदो ।
१. निर्व्यूढो भगवत्याः संभावनाभारो बुद्धरक्षितया ।
२. अस्माभिरपि प्रियसखी लवङ्गिका दृश्यते ।
३. परित्रायतां महाभागः । अर्धमार्गे खलु नगररक्षिपुरुषाभियोगो मकर-
न्दस्य जातः । ततस्तत्कालमिलितेन कलहंसकेन समं वयमनुप्रेषिताः ।
४. यथेतोमुखागतैरस्माभिः कलकलः श्रुतः, तथा तर्कयाम्यन्यदपि पा-
रक्यं बलमुपागतमिति ।
५. हा धिक् । सममेव हर्षोद्वेगसंभेद उपनतः ।
वर्धसे मदयन्तिकालाभेन॥माधवः। परिष्वज्य।प्रथमं मदयन्तिकाभिलाषतः प्रस-
ङ्गादेवालिङ्गनं विधाय पश्चाद्देवानुरागपाशमिव प्रियं नः संवृत्तं यन्मदयन्तिकालाभो
जात इत्युक्त्वा केसरस्रजं प्रेमसूत्रपाशमिव मालत्याः कण्ठे ददाति ॥ अवलो-
किता । निर्व्यूढो निर्वाहं नीतो भगवत्याः संभावनाभारो बुद्धरक्षितया । संभावना-
भारो मदयन्तिकामकरन्दयोर्दूल्यव्यापारः ॥ मालती । अस्माभिरपि प्रियसखी
लवङ्गिका दृश्यते । अपि संभावनायाम् । इदमपि संभाव्यत इति शेषः ॥ सर्वाः।
परित्रायतां महाभागः । अर्धमार्गे खलु नगररक्षिपुरुषाभियोगो मकरन्दस्य जातः ।
अभियोगः प्रतिरोधः । ततस्तत्कालमिलितेन मकरन्दसंबाधाद्विनिर्गतेन वृत्तावेद-
नाय कलहंसकेन समं वयमनुप्रेषिताः ॥ कलहंसः । यथेतोमुखागतैरस्माभिरायो-
धनकलकलः श्रुतः, तथा तर्कयाम्यन्यदपि पारक्यं बलमुपागतमिति । पारक्यं परकी-
यसैन्यमिति देशी । 'पार' इति लोके ॥ मालत्यवलोकिते । सममेव हर्षोद्वेगसंभेद-

अष्टमोऽङ्कः । १९३
माधवः—सखि मदयन्तिके, स्वागतम् । अनुगृहीतमसद्गृहं
भवत्या । ननु स्वस्था भवन्तु भवत्यः । एकाकिनोऽपि बहुभिरभि-
योग इति यत्किंचिदेतद्वयस्यस्य ।
हरेरतुलविक्रमप्रणयलालासः साहसे
स एव भवति कणत्कररुहप्रचण्डः सखा ।
स्फुटत्करटकोटरस्खलितदानसिक्तानन-
द्विपेश्वरशिरःस्थिरास्थिदलनेकवीरः करः ॥ ७ ॥
तदहमपि विक्रान्तिपूतं विलसतः प्रियसूहृदः प्रत्यनन्तरीभवामि ।
(विकटं परिक्रम्य कलहंसकेन सह निष्क्रान्तः ।)
अवलोकितादयः—अँवि णाम अप्पडिहदा पडिणिवट्टि-
स्सन्दि महाणुहावा ।
मालती—सँहिओ बुद्धरक्खिदावलोइदाओ, तुरिअं गदुअ
भअवदीए उत्तन्दं णिवेदेहो । तुमं वि सहि लवङ्गिए, तुरिअं
१. अपि नामाप्रतिहतौ प्रतिनिवर्तिष्येते महानुभावौ ।
२. सख्यौ बुद्धरक्षितावलोकिते, त्वरितं गत्वा भगवत्या इमं वृत्तान्तं नि-
उपनत उपागतः ॥ माधवः । अस्मद्गृहमनुगृहीतं भवत्येत्युक्त्या मकरन्दे स्वात्म-
निर्विशेषत्वं मकरन्दस्वीकारेणास्मद्भवनमेव त्वयालंकृतमित्याशयः । एकाकिनोऽपि
वीरस्य बहुभिरभियोगः । तथाविधशार्दूलव्यतिकरप्रत्यक्षीकृतपौरुषस्य मत्सहचरत-
या मत्समानपराक्रमस्य मकरन्दस्य न किंचिदेतद्भवति संत्रासनिमित्तं चित्ते न भवि-
तव्यम् । स्वस्था भवन्त्वित्यर्थः । हरेरिति । सिंहस्यैकाकिनः साह

(Lines 13-18)**:
वेदयतुम् । त्वमपि सखि लवङ्गिके, त्वरितं विज्ञापयार्यपुत्रम् । यदि तावद्यु-
ष्माकं वयमनुकम्पनीयास्ततोऽप्रमत्तं परिक्रामतेति ।
१. हा धिक् । न ज्ञायते कथमियती वेलातिक्रम्यताम् । भवतु । प्रिय-
सख्या लवङ्गिकायाः प्रतिनिवृत्तिमार्गमवलोकयन्ती स्थास्यामि । स्फुरितं मे
वाममचामनयनेन ।
२. हा, आर्यपुत्र ।

  1. Commentary (Lines 19-32):
    वेदयतुम् । त्वमपि सखि लवङ्गिके, त्वरितं विज्ञापयार्यपुत्रम् । यदि तावद्युष्माकं
    वयमनुकम्पनीयास्ततोऽप्रमत्तं यथा स्यादेवं परिक्रामतेति ॥ मालती । हा
    धिक् । न ज्ञायते कथमियती वेलातिक्रम्यताम् । केन प्रकारेणातिवाह्यतामित्यर्थः ।
    [

अष्टमोऽङ्कः । १९५

इयेनावपातचकिताननवर्तिकेव
किं नेक्षसे ननु मया कवलीकृतासि ॥ ८ ॥
यावच्छ्रीपर्वतमुपनीय प्रतिपर्व तिलश एनां निकृत्य दुःखमारिणीं
करोमि । (इति मालतीमादाय निष्क्रान्ता।)
मदयन्तिका—अहं वि मालदीं एव्व अणुवट्टिस्सं । (परिक्रम्य ।)
सहि मालदि ।
लवङ्गिका—(प्रविश्य ।) सैहि मदअन्तिए, लवङ्गिआ क्खु अहं ।
मदयन्तिका—अइ, संभाविदो तुए महाणुहाओ ।
लवङ्गिका—णैहि णहि । सो क्खु उज्जाणवाडणिग्गमादो एव्व
कलअलं सुणिअ साक्खेवावविद्धविअडणिओरुदण्डणिठ्ठुरं पधाविअ
पराणीअं पविट्ठो । तदो पडिणिउत्तम्हि मन्दभाइणी । सुणोमि अ
घरे घरे गुणाणुराअणिब्भरस्स पोरलोअस्स हा माहव महाभाअ हा

१. अहमपि मालतीमेवानुवर्तिष्ये । सखि मालति ।
२. सखि मदयन्तिके, लवङ्गिका खल्वहम् ।
३. अयि, संभावितस्त्वया महानुभावः ।
४. नहि नहि । स खलूद्यानवाटनिर्गमादेव कलकलं श्रुत्वा साक्षेपापवि-
द्धविकटनिजोरुदण्डनिष्ठुरं प्रधाव्य परानीकं प्रविष्टः । ततः प्रतिनिवृत्तास्मि
मन्दभागिनी । शृणोमि च गृहे गृहे गुणानुरागनिर्भरस्य पौरलोकस्य हा
माधव महाभाग हा मकरन्द साहसिकेति परिदेवनानि । महाराजः किल

पक्षिविशेषयुवतिरिव त्वं मया कवलीकृतासीत्यात्मानं नेक्षसे । यदि शक्तिस्तदा
तर्हि परिरक्षतु ॥८॥ यावदित्यवधारणे । श्रीपर्वतं नीत्वैव । पर्व पर्व प्रति प्रतिपर्व ।
प्रतिसंधीत्यर्थः । तिलं तिलं तिलशः । तिलमात्रान्मांसखण्डान्कृत्वा चित्रवधेनैनां
दुःखमारिणीं करोमि । इति बन्धुवर्गैरविज्ञातां मालतीमादाय कपालकुण्डला नि-
ष्क्रान्ता । मदयन्तिका । अहमपि मालतीमेवानुवर्तिष्ये । अथ मालतीभ्रमेण
मदयन्तिका लवङ्गिकामाकारयति । सखि मालतीति ॥ प्रविश्य । लवङ्गिका ।
वदतीति शेषः । सखि मदयन्तिके, लवङ्गिका खल्वहम् । न मालतीति भावः ॥
मदयन्तिका । अयीति सुकुमारसंबोधने । संभावितो दृष्टस्त्वया महानुभावः ।
माधव इत्यर्थः ॥ लवङ्गिका । नहि नहि । स खलूद्यानवाटनिर्गमादेव कलकलं
श्रुत्वा साक्षेपापविद्धविकटनिजोरुदण्डनिष्ठुरं प्रधाव्य परानीकं प्रविष्टः । साक्षेपं
सकोपवचनम् । अपविद्धस्ताडितो निजोरुदण्डो येन स तादृक् । वाटो वृतिः । प्रा-
कार इति यावत् । मार्गो वा । ततः प्रतिनिवृत्तास्मि मन्दभागिनी । शृणोमि च गृहे
मा० १८

१९६ मालतीमाधवे
मअरन्द साहसिअ त्ति परिदेवणाओ । महाराओ किळ मन्तिधी-
आणं विप्पळम्भउत्तन्दं सुणिअ संजाअमच्छरावेओ तक्खणविसज्जि-
आणेअपोढपडाइणिवहो चन्दादवसोहिदसोहसिहरद्विदो पेक्खदित्ति
मन्तिअदि ।
मदयन्तिका—हो, हदह्मि मन्दभाइणी ।
लवङ्गिका—सैहि, मालदी उण कहिं ।
मदयन्तिका—सैहि, सा क्खु पुढमं एब दे मग्गं ओलोइदुं
पसरिदा । पच्छा अहं तं ण पेक्खामि । सा णाम उज्जाणगहणं
पविट्ठा हवे ।
लवङ्गिका—सैहि, तुरिअं अण्णेसह्म । अदिकातरा मे पिअ-
सही उववणट्ठिदा इमस्सिं अवसरे न धारेदि अत्ताणं ।
लवङ्गिकामदयन्तिके—(त्वरितं परिक्रामन्त्यौ ।) सैहि मालदि,
णं भणामि सहि मालदि त्ति । (इतस्ततः परिक्रामतः ।)
मन्त्रिदुहित्रोर्विप्रलम्भवृत्तान्तं श्रुत्वा संजातमत्सरावेगस्तत्क्षणविसर्जितानेकप्रौ-
ढपदातिनिवहश्चन्द्रातपशोभितसौधशिखरस्थितः प्रेक्षत इति मन्यते ।
१. हा, हतास्मि मन्दभागिनी ।
२. सखि, मालती पुनः क्व ।
३. सखि, सा खलु प्रथममेव ते मार्गमवलोकयितुं प्रसृता । पश्चादहं
तां न पश्यामि । सा नामोद्यानगहनं प्रविष्टा भवेत् ।
४. सखि, त्वरितमन्विष्यावः । अतिकातरा मे प्रियसख्युपवनस्थिता-
स्मिन्नवसरे न धारयत्यात्मानम् ।
५. सखि मालति, ननु भणामि सखि मालतीति ।
गृहे गुणानुरागनिर्भरस्य पौरलोकस्य हा माधव महाभाग हा मकरन्द साहसिकेति
परिदेवनानि । महाराजः किल मन्त्रिदुहित्रोर्विप्रलम्भवृत्तान्तं श्रुत्वा संजातमत्सरावे-
गस्तत्क्षणविसर्जितानेकप्रौढपदातिनिवहश्चन्द्रातपशोभितसौधशिखरस्थितः प्रेक्षत
इति मन्यते ॥ मदयन्तिका । हा, हतास्मि मन्दभागिनी ॥ लवङ्गिका ।
सखि, मालती पुनः क्व वर्तते ॥ मदयन्तिका । सखि, सा खलु प्रथममेव ते
मार्गमवलोकयितुं प्रसृता । पश्चादहं तां न पश्यामि । सा नामोद्यानगहनं प्रविष्टा
भवेत् । नामेति संभावनायाम् ॥ लवङ्गिका । सखि, त्वरितमन्विष्यावः । अ-
तिकातरा मे प्रियसख्युपवनस्थितास्मिन्नवसरे न धारयत्यात्मानम् । लवङ्गिका-

कलहंसः—(इतः प्रविश्य ।) १दिट्ठिआ कुसलेण म्हि णिग्गदो सं-
घट्टमग्गादो। हिमाणहे। पेक्खामि विअ णिम्मलणिरन्तरव्वुत्तरखा-
रिधारापडिफलिदचन्दकिरणुज्जुलन्तपिञ्जरिअमीसणदंसणं मदलीला-
कलिदकामवालविअडभुअदण्डावविद्धहलहेलावित्थारिदुद्धक्खुभिद-
कलिन्दतणआसोत्तसंणिहं विसङ्खलुप्वदिदणिद्दआणन्दमअरन्दक्खो-
भविअलपडिरोधपडिणिउत्तणुद्धअसमत्थगणङ्गणावआसविअसन्द-
कोलाहलं पारक्कसमूहं दाणिं वि पेक्खामि विअ । सुमरामि अ भीसण-
भुअवज्जखचितपञ्जरपज्जत्थसमरविमुहसुभटहत्यावलुत्तविविहाउहोव-
रुद्धअसेसरिपुसेण्णविअडापसारवहरिक्कमग्गसंचारनिव्वत्तिदविसमसाहसं
णाहं माहवम् । अहो गुणाणुराओ णरेन्दस्स, जं दाणिं सो-
१. दिष्ट्या कुशलेनास्मि निर्गतः संघट्टमार्गात् । हिमापहॆ । पश्या-
मीव निर्मलनिरन्तरोद्भूततरवारिधाराप्रतिफलितचन्द्रकिरणोज्ज्वलपिञ्जरित-
भीषणदर्शनं मदलीलाकलितकामपालविकटभुजदण्डापविद्धहलहेलाविस्तारितो-
र्ध्वक्षुभितकलिन्दतनयास्रोतःसंनिभं विशृङ्खलोत्पतितनिर्दयानन्दमकरन्दक्षोभ-
विकलप्रतिरोधप्रतिनिवर्तनोद्धतसमस्तगगनाङ्गणावकाशविकसत्कोलाहलं पार-
क्यसमूहमिदानीमपि पश्यामीव । स्मरामि च भीषणभुजवज्रखचितपञ्जरपर्य-
स्तसमरविमुखसुभटहस्तावलुप्तविविधायुधोपरुद्धाशेषरिपुसैन्यविकटापसारव्यति-
रिक्तमार्गसंचारनिर्वर्तितविषमसाहसं नाथं माधवम् । अहो गुणानुरागो
नरेन्द्रस्य, यदिदानीं सौधशिखरावतीर्णप्रतिहारविनयोपन्यासप्रशमितविरोधः
मदयन्तिके। सखि मालति, ननु भणामि सखि मालतीति ॥ कलहंसः ।
दिष्ट्या कुशलेनास्मि निर्गतः संघट्टमार्गात् । सहर्षं हिमाणहे । 'हिमाहने भय-
हर्षे' इति देशी । पश्यामीव निर्मलनिरन्तरोद्भूततरवारिधाराप्रतिफलितचन्द्रकि-
रणोज्ज्वलपिञ्जरितभीषणदर्शनं मदलीलाकलितकामपालविकटभुजदण्डापविद्ध-
हलहेलाविस्तारितोर्ध्वक्षुभितकलिन्दतनयास्रोतःसंनिभं विशृङ्खलोत्पतितनिर्दयान-
न्दमकरन्दक्षोभविकलप्रतिरोधप्रतिनिवर्तनोद्धतसमस्तगगनाङ्गणावकाशविकसत्को-
लाहलं पारक्यसमूहमिदानीमपि पश्यामीव । प्रतिनिवर्तनं पलायनम् । स्मरामि
च भीषणभुजवज्रखचितपञ्जरतया पर्यस्ताः प्रसृताः समरविमुखा ये सुभटा-
स्तेषां हस्तेभ्योऽवलुप्तान्यवच्छेदितानि विविधान्यायुधानि तैरपरुद्धं पतितमशेषं
यद्रिपुसैन्यं तेन दत्तो यो विकटापसारः । पलायनं तेन व्यतिरिक्तः शून्यो यो
मार्गस्तत्र संचारेण निर्वर्तितविषमसाहसं स्मरामि च माधवमिति संबन्धः ।
अहो गुणानुरागो नरेन्द्रस्य, यदिदानीं सौधशिखरावतीर्णप्रतिहारविनयोपन्या-
सप्रशमितविरोधः सौम्येकरसोपनीतो यौ संकटाभिश्रान्तौ माधवमकरन्दौ

१९८ मालतीमाधवे
णसिहरावदिण्णपडिहारविणओवण्णासपसमिअविरोहो सोम्मेक्करसो-
वणीदमाहवमअरन्दमुहचन्दे ओलोइअ बारंवारं पसारिदसिणिद्धलो-
अणो कलहंसआदो अहिजणं सुणिअ णिवत्तिअमहग्घगुरुबहुमाणो
फुरन्तमच्छरेस्सावेल्लक्खमसीमलिणिअमुहे भूरिवसुणन्दणे महुरो-
वण्णासेहिं किं दाणिं तुह्माणं भुवणाभोअभूसणेहिं महाणुहावेहिं
णवजोबणगुणाभिरामेहिं जामाउएहिं परितोसेत्ति पडिबोधिअ गओ
अब्भन्दरं राजा । इमे वि माहवमअरन्दा आअच्छन्दि इति अहं
वि एदं भअवदीए उत्तन्दं णिवेदेमि । (इति निष्क्रान्तः ।)
(ततः प्रविशतो माधवमकरन्दौ ।)
माधवः—अहो, प्रेयसः सर्वपुरुषातिशायि निर्व्याजमूर्जितं
तेजः । तथा हि ।
दोर्निष्पेषविशीर्णसंचयगलत्कङ्कालमुन्मथ्नतः
प्राग्वीराननुपात्य तत्प्रहरणान्याच्छिद्य विक्रामतः ।
सौम्यैकरसोपनीतमाधवमकरन्दमुखचन्द्राववलोक्य वारंवारं प्रसारितस्नि-
ग्धलोचनः कलहंसकादभिजनं श्रुत्वा निर्वर्तितमहार्घगुरुबहुमानः
स्फुरन्मत्सरेर्ष्यावैलक्ष्यमषीमलिनितमुखौ भूरिवसुनन्दनौ मधुरोपन्यासैः किमि-
दानीं युवयोर्भुवनाभोगभूषणाभ्यां महानुभावाभ्यां नवयौवनगुणाभिरामाभ्यां
जामातृभ्यां परितोष इति प्रतिबोध्य गतोऽभ्यन्तरं राजा । एतावपि
माधवमकरन्दावागच्छत इत्यहमप्येतं भगवत्यै वृत्तान्तं निवेदयामि ।
तयोर्मुखचन्द्राववलोक्य वारंवारं प्रसारितस्निग्धलोचनः कलहंसकादमिजनं
श्रुत्वा निर्वर्तितमहार्घगुरुबहुमानः स्फुरन्मत्सरेर्ष्यावैलक्ष्यमषीमलिनितमुखौ भूरि-
वसुनन्दनौ मधुरोपन्यासैः किमिदानीं युवयोर्भुवनाभोगभूषणाभ्यां महानुभा-
वाभ्यां नवयौवनगुणाभिरामाभ्यां जामातृभ्यां परितोष इति प्रतिबोध्य ततो
गतोऽभ्यन्तरं राजा । अत्र मत्सरः क्रोधः, उद्वेग ईर्ष्या एतौ द्वौ मषी-
स्थानीयौ । आभ्यां मलिनितं मुखं नन्दनस्य । वैलक्ष्यं मषीस्थानीयं भूरिवसो-
रिति विवेकः । एतावपि माधवमकरन्दावागच्छत इत्यहमप्येतं भगवत्यै वृत्तान्तं
निवेदयामि ॥ माधवः । प्रेयसो मकरन्दस्य । निर्व्याजं स्वाभाविकमूर्जितं
बलवत्तेजः ॥ दोर्निष्पेषेति । तथा ह्यस्य प्रेयसो मित्रस्य प्राक्प्रथमं वीरानुन्म-
थ्नतः । कथमून्मथ्नत इत्यपेक्षायां दोर्भ्यामेव यो निष्पेषः संचूर्णंनं तेन शीर्णे
संच्छिन्नत्वेन दलत्कङ्कालं यथा स्यादिति क्रियाविशेषणम् । अनुपात्य च तेषां प्रह-
रणान्याच्छिद्य विक्रामतो विक्रमं कुर्वतः । एवंभूतस्य प्रेयसो यः संयोधिभिः संप्रा-
मसमुद्रस्तस्य पन्थाः पुरोदेशो द्वेधा पार्ष्णिद्वये स्तम्भिता निश्चेष्टा या पदातिपङ्कि-

अष्टमोऽङ्कः। १९९
उद्वेल्लद्धनरुण्डखण्डनिकराकीर्णस्य संख्योदधे-
द्वैधास्तम्भितपत्तिपङ्क्तिविकटः पन्थाः पुरस्तादभूत् ॥ ९ ॥
वयस्य, नन्वनुशयस्थानमेतत् । पश्य ।
अद्यैवेन्दुमयूखखण्डनिचितं पीतं निशीथोत्सवे
यैर्लीलापरिरम्भदायिदयितागण्डूषशेषं मधु ।
संप्रत्येव भवद्भुजार्गलगुरुव्यापारभग्नास्थिभि-
र्गात्रैस्ते कथयन्त्यसारभिदुरान्व्रायेण संसारिणः ॥ १० ॥
स्मर्तव्यं तु नरपतेरस्य सौजन्यम् । यदपराद्धयोरप्यनपराद्धयोरिव
नौ कृतोपसदनं चेष्टितवान् । तदेहि, मालतीसमक्षमधुना मदयन्ति-
काहरणवृत्तान्तं विस्तरतः कथ्यमानमनुभवामः । (पुरोऽवलोक्य ।)
कथं शून्या इवामी प्रदेशाः ।
मकरन्दः—नूनं शङ्के आवयोः समरसंकटोद्वेगेन व्याकुलत्वा-
दितस्ततो भ्रमन्त्यस्ता अत्रैवात्मानं विनोदयन्ति ।
माधवः—
कथयति त्वयि सस्मितमालती-
वलितलोलकटाक्षपराहतम् ।
वदनपङ्कजमुल्लसितत्रपं
स्तिमितदृष्टि सखी नमयिष्यति ॥ ११ ॥
अयमसावुद्यानवाटः ।
क्त्या विकटो विपुलः पुरस्तादभूत् । उद्वेल्लन्त ऊर्ध्वं ललन्तो ये रुण्डखण्डनिक-
रास्तैः शीर्णस्य व्याप्तस्येति संख्योदधेर्विशेषणम् ॥ ९ ॥ वयस्य, अहो एतज्जग-
त्समरकर्म वानुशयस्थानं पश्चात्तापस्थानम् । अद्येति । यैः सुभटैश्चन्द्रिकोप-
भोगसमये निशीथे लीलालिङ्गनदायिप्रेयसीपानावशिष्टं तथा प्रतिफलितेन्दुकर-
करम्बितमिन्दुप्रभाखण्डरुचिरं मधु पीतं संप्रत्येव ते गात्रैर्भवदीयव्यापारभग्ना-
स्थिभिः संसारिणः पुरुषानसारांस्तुच्छांस्तथा भिदुरान्विकलान्कथयन्ति ॥ १० ॥
तन्मालत्यग्रतो मदयन्तिकायाः कृते कलहंसकेन विस्तरतो वर्ण्यमानमावयो-
र्व्यापारमतर्किंतोपस्थितमनुभवामः । पुरोऽवलोक्य । कथं शून्या इव मालत्या
विरहिता इवामी प्रदेशाः । दृश्यन्त इति शेषः ॥ मकरन्दः । नूनं शङ्के ।
आवयोः समरसंकटोद्वेगेनाकुलत्वादुद्विग्नत्वादितस्ततो भ्रमन्त्यस्ता मालत्यादयो-
ऽत्रैवोद्यानगम्भीरस्थानं आत्मानं विनोदयन्ति ॥ माधवः । कथयतीति ।
वयस्य मकरन्द, त्वयि कथयति सत्यावयोः समरसंकटवृत्तान्तं मालत्याः सखी
मदयन्तिका मन्निमित्तमनयोः पुरुषप्रकाण्डयोः शरीरसंदेहादयो जायन्त इत्यत्यन्त-

२४० मालतीमाधवे
(प्रवेशं नाटयतः ।)
लवङ्गिकामदयन्तिके—सहि मालदि । (सहसा विलोक्य सहर्षम्)
दिद्विआ पुणो वि अ महाणुहावा दिस्सन्दि ।
माधवमकरन्दौ—भवत्यौ, क्व सा मालती ।
उभे—कुदो मालती । पदसद्देण अम्हे विप्पलब्धाओ मन्द-
भाइणीओ ।
माधवः—भवत्यौ, कथंकथमपि सहस्रधैव ध्वंसते मे हृदयम् ।
ततः स्फुटमभिधीयताम् ।
मम हि कुवलयाक्षीं प्रत्यनिष्ठैकबुद्धे-
रविरतमनुबद्धोत्कम्प एवान्तरात्मा ।
स्फुरति च खलु चक्षुर्वाममेतच्च कष्टं
वचनमपि भवत्योः सर्वथा हा हतोऽस्मि ॥ १२ ॥
१. सखि मालति, दिष्ट्या पुनरपि च तौ महानुभावौ दृश्येते ।
२. कुतो मालती । पदशब्देनावां विप्रलब्धे म

अष्टमोऽङ्कः । १०१
मदयन्तिका—तह खु इदो विणिग्गदे महाणुभावे बुद्धर-
क्खिदं अवलोइदं अ भयवदीसआसं विसज्जिअ अप्पमादणिमित्तं
विष्णवेहि अज्जउत्तं ति लवङ्गिआ अणुप्पेसिदा । तदो उत्तम्माणा
अ एदाए मग्गं ओलोइदुं अग्गदो पसरिदा मालदी । पच्छादो अहं ।
तदो ण पेक्खामि । तदो अह्मेहिं मग्गिदा एत्थ विडवन्तराई जाव
तुम्हे दिट्ठत्ति ।
माधवः—हा प्रिये मालति,
किमपि किमपि शङ्के मङ्गलेभ्यो यदन्य-
द्विरमतु परिहासश्चण्डि पर्युत्सुकोऽस्मि ।
कलयसि कलितोऽहं वल्लभे देहि वाचं
भ्रमति हृदयमन्तर्विह्वलं निर्दयासि ॥ १३ ॥
उभे—हा पिअसहि, कहिं ग आसि ।
मकरन्दः—वयस्य, किमित्यविज्ञाय वैक्लव्यमवलम्ब्यते ।
माधवः—सखे, त्वमपि किं न जानासि मत्स्नेहदुःखिताया-
स्तस्याः कातर्यचेष्टितानि ।
१. तथा खल्वितो विनिर्गते महानुभावे बुद्धरक्षितामवलोकितां च भग-
वतीसकाशं विसृज्याप्रमादनिमित्तं विज्ञापयार्यपुत्रमिति लवङ्गिकानुप्रेषिता ।
तत उत्ताम्यमाना चैतस्या मार्गमवलोकयितुमग्रतः प्रसृता मालती । पश्चाद-
हम् । ततो न पश्यामि । ततोऽस्माभिर्मार्गितात्र विटपान्तराणि यावद्युवां दृष्टाविति ।
२. हा प्रियसखि, कुत्र गतासि ।
तद्गतकदैवेन हतोऽस्मि ॥ १२ ॥ मदयन्तिका । तथा खल्वितो विनिर्गते
महानुभावे त्वयि सति बुद्धरक्षितामवलोकितां च भगवतीसकाशं विसृज्याप्रमा-
दनिमित्तं विज्ञापयार्यपुत्रमिति लवङ्गिकानुप्रेषिता । तत उत्ताम्यमाना चैतस्या
मार्गमवलोकयितुमग्रतः प्रसृता मालती । पश्चादहं प्रसृतेत्यर्थः । न ततः पश्यामि ।
ततोऽस्माभिरत्र विचिता यावद्युवां दृष्टाविति ॥ माधवः । किमपीति । हे
चण्डि अतिकोपने, अयं परिहासः स्वात्मप्रच्छादनरूपो विरमतु । परिहासं परित्यज ।
ततः किमपि किमपीति यद्वक्तुमपि न शक्यते मङ्गलेभ्यो यदन्यदमङ्गलं तदहं

३. अङ्क ६-८: कपालकुण्डला प्रतिशोध, मालती-अपहरण, पद्मावती राजसभा व विलाप

२०२ मालतीमाधवे
मकरन्दः—अस्त्येतत् । किंतु भगवतीपादमूलगमनमप्या-
शङ्क्यते । तदेहि । तत्र तावद्गच्छावः ।
उभे—एंदं वि संभाविअदि ।
माधवः—एवमस्तु नाम । (इति परिक्रामति ।)
मकरन्दः—(स्वगतम् ।)
याता भवेद्भगवतीभवनं सखी सा
जीवन्त्यथैष्यति न वेत्यभिशङ्कितोऽस्मि ।
प्रायेण बान्धवसुहृत्प्रियसंगमादि
सौदामिनीस्फुरणचञ्चलमेव सौख्यम् ॥ १४ ॥
(इति निष्क्रान्ताः सर्वे ।)
इति महाकविश्रीभवभूतिविरचिते मालतीमाधवेऽष्टमोऽङ्कः ।
१. एतदपि संभाव्यते ।
लमपि किं मालतीति न जानासि । मम प्राप्तौ मत्स्नेहेन दुःखितया कातरया
तया यच्चेष्टितमिति चौरिकाविवाहप्रस्तावे मालत्याः स्वशरीरपरित्यागाध्यवसायं
स्मारयति ॥ उभे । एतदपि संभाव्यते । यद्भगवतीपादसेवां कर्तुं गता भवि-
ष्यतीत्येतत् ॥ माधवः । एवं नामास्तु । नामशब्दः संभावनायाम् ॥ मक-
रन्दः । यातेति । सा नोऽस्माकं सर्वेषां माधवप्रेमविषयतया तस्या एव गुण-
विशेषैश्च निःसीमस्नेहविषयत्वात्सखीव सखी मालती याता गता । तद्भगवती-
भवनम् नगराध्यक्षपुरुषावरोधव्यतिकरसंभ्रमादिभिः सत्यमेव जीवन्ती प्राणान्धा-
रयन्ती पुनरेष्यति न वेत्याशङ्कितोऽस्मि । अघोरघण्टव्याघ्रवधराजविरुद्धव्या-
पाराश्च मालतीजीवितसंदेहाशङ्कामिज्ञानानि । अथ मालतीविपदमनया निधित्य ।
वैषयिकसुखस्यास्थिरत्वं श्लोकस्योत्तरार्धेन व्यवस्थापयति—प्रायेणेति । बान्धवा-
दिसंगमसौख्यं सौदामिनीस्फुरणवच्चञ्चलम् । भवतीति शेषः । बान्धवादिसङ्ग
आदियस्य सौख्यस्य तत्तादृक् । अथ च प्रथमाङ्कमुखसंधिसूचितायाः सौदामिन्याः
स्फुरणं स्फूर्तिर्व्यापारविशेषो वा तन्मात्रनिदानं मालतीविपत्प्रतिकरणं माधव-
दुःखप्रहाणं च मनसि कृत्वा प्रकरणकृदग्रिमाङ्के सौदामिनीप्रवेशसूचनाय च
सौदामिनीपदमङ्गान्तश्लोके निवेशितवान् ॥ १४ ॥
शबरस्वामिप्रीत्या प्रकरणरत्नाकरेऽत्र भवभूतेः ।
सारोद्धारे मन्दरमकृत कृती व्याकृतिं नान्यः ॥
इति श्रीनान्यदेवस्य कृतौ विबुधरञ्जाख्यां मालतीमाधव-
टीकायामष्टमाङ्कविवरणम् ॥