मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 189, कुल 377 में से
संदर्भ में पढ़ेंसप्तमोऽङ्कः । १८३
मदयन्तिका—सहि बुद्धरक्खिदे, कहिं पुणो दाणिं अह्मेहिं
गन्दव्वं ।
बुद्धरक्षिता—जेहिं एव्व मालदी गदा ।
मदयन्तिका—किं³ णिव्वुत्तसाहसा मालदी ।
बुद्धरक्षिता—अह इं । अण्णं अ तुमं भणासि । (‘का हं इमस्स’
इत्यादि पठति ।)
(मदयन्तिकाश्रूणि पातयति ।)
बुद्धरक्षिता—महाभाअ, दिण्णो खु सअं अप्पा पिअसहीए ।
मकरन्दः—
अद्योर्जितं विजितमेव मया किमन्य-
दद्योत्सवः फलवतो मम यौवनस्य ।
यन्मे प्रसादसुमुखेन समुद्यतेयं
देवेन बान्धवधुरा मकरध्वजेन ॥ ४ ॥
१. सखि, बुद्धरक्षिते, क्व पुनरिदानीमस्माभिर्गन्तव्यम् ।
२. यत्रैव मालती गता ।
३. किं निर्वृत्तसाहसा मालती ।
४. अथ किम् । अन्यच्च त्वं भणसि ।
५. महाभाग, दत्तः खलु स्वयमात्मा प्रियसख्या ।
स्यादेवं यामः । एहि । नूपुरध्वनिरन्यैर्यथा न श्रूयते, तथोर्ध्वमुत्क्षिप्य कैश्चित्पद्बल-
क्षिता यत्र मालतीमाधवौ तत्रैव यामस्त्वरितं मा लज्जस्वेत्यर्थः ॥ ३ ॥ मदय-
न्तिका । सखि बुद्धरक्षिते, क्व पुनरिदानीमस्माभिर्गन्तव्यम् ॥ बुद्धरक्षिता ।
यत्रैव मालती गता ॥ मदयन्तिका । किं निर्वृत्तसाहसा मालती । साहसं स्व-
यमेवात्मप्रदानम् ॥ बुद्धरक्षिता । अथ किम् । निर्वृत्तसाहसैवेत्यर्थः । अन्यच्च
त्वं भणसि । ‘काहमितस्य’ इत्यादि पठति । त्वया यदुक्तं तदनुरूपं विधेहीत्यर्थः ॥
मदयन्तिका गुरुजनविधीयमानसप्रदान इव स्वयमश्रूणि पातयति ॥ बुद्धरक्षिता
आनन्दाश्रुविमोचनेनैव तस्याः स्वात्मप्रदानमधिगम्याह—महाभाग, दत्तः खलु
स्वयमात्मा प्रियसख्या । आनन्दाश्रुपूर्वकमिति भावः ॥ मकरन्दः—अद्येति ।
अद्य प्रियतमालाभान्मयोर्जितं बलं यथा स्यादेवं विजितमेव सर्वोत्तरत्वं संपादित-
मेव । किमन्यदितः परमाश्रास्यमवशिष्टम् । न किंचिदित्यर्थः । तथा फलवतो द-
यिताप्राप्त्यैव सफलस्य मे नवयौवनस्याद्योत्सवो मङ्गलदिनम् । यन्मे प्रसादमुखेन
मकरध्वजेन माधवाभिलषितं संपाद्य मदभिलषितमपि संपादयता बान्धवधुरा
१७ माल०