मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
लवङ्गिका—कहं अम्हे असन्तं जाणामो ।
मदयन्तिका—$^२$जं दाणिं तस्सिं महाणुभावे माहवे किं वि
किल मालदीए वाआमेत्तं आसी सो एसो सव्वलोअस्स अदि-
भूमिं गओ पवादो । तं क्खु एदं विअम्भइ । ता पिअसहि, जह
एसो भत्तुणो उवेक्खाहिणिवेसो णिरवसेसो हिअआदो उद्धरिअदि
तह करेहि । अण्णहा महान्तो पमादो त्ति जाणीदं होदु । णिकम्पदा-
रुणासु कुलकण्णआसु दूमावेति हिअअं माणुसाणं ईरिसादो दुरहि-
संगादो त्ति जाणह । मा भण मदअन्तिआए कहिदं ति ।
लवङ्गिका—$^३$अइ असंबद्धलोअपवादमोहिदे, अवेहि । णतुए
सह मन्तइस्सं ।
१. कथं वयमसन्तं जानीमः ।
२. यदिदानीं तस्मिन्महानुभावे माध
सप्तमोऽङ्कः । १७१
मदयन्तिका—सहि, पसीद । अथवा ण तुम्हे फुडं भणिदावो
चिट्ठह । किंअ अम्हे सच्चं एव्व माहवेकमअजीविदं मालदिं जा-
णामो । केण वा कठोरकेअईगब्भविब्भमावअवदोव्वलणिव्वट्टिद-
सुन्दरत्तणविसेसं माहवसहत्यणिम्माविदबउलावलीविरइअकण्ठावल-
म्बणमेत्तसंजीवर्ण मालदीए माहवस्स अ पहादचन्दमण्डलापाण्डुर-
परिक्खामरमणिज्जदंसणं ण विभावितं सरीरं । किंअ तस्सिं दिअ-
से कुसुमाउरुज्जाणपेरन्तरच्छासुहसमागमे सविब्भमुल्लसिअकोऊह-
लुप्फुल्लपरिसरुब्वेल्लमाणसविलासमसिणसिणिद्धसंचरणचारुतारआवि-
अब्भमाणअङ्गासङ्गाराआरिसव्वआमोपदेसणिम्माविदविअद्धमुद्ध-
मणहारा मए ण णिरूविदा इमाणं दिट्ठिसंभेदा । किंअ मह भा-
दुणो दाणउत्तन्दं सुणिअ तक्खणुव्वत्तगम्भीरुब्बेअवइअरन्धआरिअ-
१. सखि, प्रसीद । अथवा न यूयं स्फुटं भणितास्तिष्ठथ । किंच
वयं सत्यमेव माधवैक मयजीवितां मालतीं जानीमः। केन वा कठोरकेतकीग-
र्भविभ्रमावयवदौर्बल्यनिर्वर्तितसुन्दरत्वविशेषं माधवस्वहस्तनिर्मितबकुलाव-
लीविरचितकण्ठावलम्बनमात्रसंजीवनं मालत्या माधवस्य च प्रभातचन्द्रम-
ण्डलापाण्डुरपरिक्षामरमणीयदर्शनं न विभावितं शरीरम् । किंच तस्मिन्दि-
वसे कुसुमाकरोद्यानपर्यन्तरथ्यामुखसमागमे सविभ्रमोल्लसितकौतूहलोत्फुल्ल-
परिसरोग्वेल्लमानस विलासमसृणस्निग्धसंचरण चारुतारकाविजृम्भमाणानङ्गशृङ्गा-
राचार्यसर्वागमोपदेशनिर्मित वैदग्ध्यमुग्धमनोहरा मया न निरूपिता एतयोर्दृष्टि-
संभेदाः । किंच मम भ्रातुर्दानवृत्तान्तं श्रुत्वा तत्क्षणोद्वृत्तगम्भीरोद्वेगव्यतिक-
रान्धकारितम्लायमानदेहशोभयोरुद्धर्तमानमूलबन्धनमिव न लक्षितं हृदयम् ।
किंच मयैतदपरं विस्मृतम् ।
मन्त्रयिष्ये ॥ मदयन्तिका । सखि, प्रसीद । अथवा न यूयं स्फुटं भणितास्ति-
ष्ठथ । किंच वयं सत्यमेव माधवैक मयजीवितां मालतीं जानीमः । केन वा कठो-
रकेतकीगर्भविभ्रमावयवदौर्बल्यनिर्वर्तितसुन्दरत्वविशेषं माधवस्वहस्तनिर्मितबकु-
लावलीविरचितकण्ठावलम्बनमात्रसंजीवनं मालत्या माधवस्य च प्रभातचन्द्रमण्ड-
लापाण्डुरपरिक्षामरमणीयदर्शनं न विभावितं शरीरम् । किंच तस्मिन्दिवसे कुसुमा-
करोद्यानपर्यन्तरथ्यामुखसमागमे सविभ्रमोल्लसितकौतूहलोत्फुल्लपरिसरोद्वेल्लमानस-
विलासमसृणस्निग्धसंचरणचारुतारकाविजृम्भमाणानङ्गशृङ्गाराचार्यसर्वागमोपदेश-
निर्मितवैदग्ध्यमुग्धमनोहरा मया न निरूपिता एतयोर्दृष्टिसंभेदाः । किंच मम
भ्रातुर्दानवृत्तान्तं श्रुत्वा तत्क्षणोद्वृत्तगम्भीरोद्वेगव्यतिकरान्धकारितम्लायमानदेह-
शोभयोरुद्धर्तमानमूलबन्धनमिव न लक्षितं हृदयम् । किंच मयैतदपरं विस्मृतम् ॥
१६ मालतीमा०
१७२ मालतीमाधवे
मिलाअन्तदेहसोहाणं उक्खण्डिअमाणमूलबन्धणं विअ ण लक्खिअं
हिअअं । किं अ मए एदं अवरं विसुमरिदं ।
लवङ्गिका—१किं दाणिं अवरं ।
मदयन्तिका—२जं खु मह जीविदप्पदाइणो महाणुहावस्स
चेदणापडिलम्भपिअणिवेदिए मालदीए भववदीविअद्धवअणोव-
ण्णासचोदिदेण हिअअं जीविदं अ माहवेण पारिदोसिअत्तणेण स-
अंगाहे णिउत्तं । अह लवङ्गिए, तुए खु एवं भणिदं पडिच्छिदो
क्खु णो पिअसहीए अअं पसादो त्ति ।
लवङ्गिका—३सहि, कदमो उण सो महाणुहावो त्ति विसुमरिदं
विअ मए ।
मदयन्तिका—४सँहि, सुमर । जेण तस्सिं दिअहे विअडदुट्ठ-
सावदविणिवादगोअरं गदा असरणा सुलग्गसंणिहिदेण पीअरभु-
१. किमिदानीमपरम् ।
२. यत्खलु मम जीवितप्रदायिनो महानुभावस्य चेतनाप्रतिलम्भप्रियनिवे-
दिकाया मालत्या भगवतीविदग्धवचनोपन्यासचोदितेन हृदयं जीवितं च
माधवेन पारितोषिकत्वेन स्वयंग्राहे नियुक्तम् । अथ लवङ्गिके, त्वया खल्वेवं
भणितं ‘प्रतीष्टः खलु नः प्रियसख्या अयं प्रसाद’ इति ।
३. सखि, कतमः पुनः स महानुभाव इति विस्मृतमिव मया ।
४. सखि, स्मर । येन तस्मिन्दिवसे विकटदुष्टश्वापदविनिपातगोचरं गता-
ऽशरणा सुलभसंनिहितेन पीवरभुजस्तम्भेन संभाविता निष्कारणबान्धवेन सक-
लवङ्गिका । किमिदानीमपरम् ॥ मदयन्तिका । यत्खलु मम जीवितप्रदायिनो म-
हानुभावस्य चेतनाप्रतिलम्भप्रियनिवेदिकाया मालत्या भगवतीविदग्धवचनोपन्या-
सचोदितेन हृदयं जीवितं च माधवेन पारितोषिकत्वेन स्वयंग्राहे नियुक्तम् । अथ
लवङ्गिके, त्वया खल्वेवं भणितं प्रतीष्टः खलु नः प्रियसख्या अयं प्रसाद इति । अत्र
महानुभावस्येति मकरन्दस्याभिधानं तस्य भर्तृत्वेन मदयन्तिकया स्वमनसैव
निश्चितत्वादद्भर्तुर्नामग्रहणस्य कुलस्त्रीणामनुचितत्वादिति ग्राह्यम् । अथ लवङ्गिका
प्रच्छन्नो मकरन्दः स्वस्यानुरागस्य व्यञ्जकानि स्वप्रियतमावचनानि स्वयमेव शृणो-
त्विति जानानाप्यजानानेव पृच्छति । लवङ्गिका । सखि, कतमः पुनः स महा-
नुभाव इति विस्मृतमिव मया ॥ मदयन्तिका । सखि, स्मर । येन तस्मिन्दिवसे
विकटदुष्टश्वापदविनिपातगोचरं गताऽशरणा सुलभसंनिहितेन पीवरभुजस्तम्भेन
संभाविता निष्कारणबान्धवेन सकलभुवनैकसारनिजदेहोपहारसाहसं कृत्वा परि-
सप्तमोऽङ्कः । १७३
अत्थम्भेण संभाविदा णिकारणबन्धवेण सअलभुवणेकसारणिअदेहो-
बहारसाहसं कदुअ पडिरक्खिदह्मि । जेण अ दिढविभडमंसुलुत्ता-
णपरिणाहिवच्छत्थललञ्छणजज्झरिदजवापीडधारिणा करुणाधणेण
मम किदे वि णिमज्जन्तसअलणहणिआमवज्जपञ्जरप्पहारो मारिदो
अ सो दुट्ठसावदमहारक्खसो त्ति ।
लवङ्गिका—१हुं, मअरन्दो ।
मदयन्तिका—(सानन्दम् ।) सेहि, किं भणासि ।
लवङ्गिका—३णं भणामि मअरन्दो त्ति । (सस्मितं शरीरमस्याः
स्पृशन्ती संस्कृतमाश्रित्य ।)
वयं तथा नाम यदात्थ किं वदा-
म्ययं तु कस्माद्विकलः कथान्तरे ।
लभुवनैकसारनिजदेहोपहारसाहसं कृत्वा परिरक्षितास्मि । येन च दृढ-
विकटमांसलोत्तानपरिणाहिवक्षःस्थललाञ्छनजर्जरितजवापीडधारिणा करुणाध-
नेन मत्कृतेऽपि निमज्जत्सकलनखनिकायवज्रपञ्जरप्रहारो मारितश्च स दुष्टश्वा-
पदमहाराक्षस इति ।
१. हुं, मकरन्दः ।
२. सखि, किं भणसि ।
३. ननु भणामि मकरन्द इति ।
रक्षितास्मि । येन च दृढविकटमांसलोत्तानपरिणाहिवक्षःस्थललाञ्छनजर्जरित-
जपापीडधारिणा । रुधिरार्द्रतया वक्षःस्थलनिहितहारलतैव जपाकुसुमवर्णलाञ्छ-
पापीडत्वेनोक्ता । तद्धारिणा करुणाधनेन मत्कृतेऽपि निमज्जत्सकलनखनिका-
यवज्रपञ्जरहारो मारितश्च स दुष्टश्वापदमहाराक्षस इति ॥ लवङ्गिका । हुं,
मकरन्दः । हुमित्यङ्गीकारद्योतकमव्ययं मालतीमदयन्तिकयोः समानाधिकार-
विषयानुरागं व्यनक्ति । यथा किल त्वं श्वापदापस्कन्दिता विनिहतशार्दूले प्राण-
दायिनि तस्मिन्गाढमनुरक्ता, एवं मालत्यपि खलाभनिमित्तमेव जीवितस्पृहानिर-
पेक्षं निर्व्यूढमहामांसविक्रयसाहसे कापालिकमारितकल्पात्मप्राणरक्षके माधवे
निरुपाधिकशब्दगाढानुरागेति कथं तां लघूपालभस इति भावः॥ मदयन्तिका ।
सानन्दं सखि, किं भणसि । प्रियतमनामधेयशुश्रूषातिशयादादरेण प्रश्नः
लवङ्गिका । ननु भणामि मकरन्द इति । एवं मकरन्दनामग्रहणादेवाविर्भूतरो-
माञ्चस्वेदादिसात्विकभावां मदयन्तिकां दृष्ट्वा सस्मितमस्याः शरीरं स्पृशन्ती
संस्कृतमाश्रित्य । वदतीति शेषः । वयमिति । कुमार्यैव सती मालती माधवे-
१७४ मालतीमाधवे
कदम्बगोलाकृतिमाश्रितः कथं
विशुद्धमुग्धः कुलकन्यकाजनः ॥ १ ॥
मदयन्तिका—(सलज्जम् १) सहि, किं मं उवहससि । णं भ-
णामि । णिव्वावेदि तारिसस्स अप्पणिरवेक्खव्यवसाइणो किअन्तकव-
लिज्जन्तजीविअबलामोडअपच्चाणअणगुरुओवआरिणो जणस्स संक-
हामेत्तस्स णामगहणं सुमरणं अ । तह अ तुए वि गाढगुरुणहप्पहा-
रवेअणारम्भविह्वलाविअसरीरसंगलिअसेअसलिलुग्गमो मोहमउलाअ-
न्तेणेत्रकन्दोट्टजुअलो भूमिविगलिदासिअट्टिविट्ठम्भधीरपडिधारिअस-
रीरभारो पच्चक्खीकिदो एष मदअन्तिआमेत्तविच्छद्दिअमहग्घजीविदो
महाणुहावो त्ति । (खेदादीन्विकारान्नाटयति ।)
१. सखि, किं मामुपहससि । ननु भणामि । निर्वापयति तादृशस्यात्मनि-
रपेक्षव्यवसायिनः कृतान्तकवलीक्रियमाणजीवितबलात्कारप्रत्यानयनगुरूपका-
रिणो जनस्य संकथामात्रस्य नामग्रहणं स्मरणं च । तथा च त्वयापि गाढगुरुन-
खप्रहारवेदनारम्भविह्वलितशरीरसंगलितस्वेदसलिलोद्गमो मोहमुकुलीक्रियमाण-
नेत्रनीलोत्पलयुगलो भूमिविगलितासियष्टिविष्टम्भधैर्यप्रतिधारितशरीरभारः प्रत्य-
क्षीकृत एव मदयन्तिकामात्रविच्छर्दितमहार्घजीवितो महानुभाव इति ।
ऽनुरक्तेति यत्त्वमात्थ तत्तथा नाम तादृश्य एव वयं भवामः । वयमिति कुलशी-
लादिसूचनया मालत्या सममात्मनोऽभिन्नाया बहुवचननिर्देशः । अत्र किं भणामि
लामात्मपरदोषानभिज्ञां त्वाम् । एकाकिनीमिति शेषः । अयं त्विति मदयन्तिकां
स्पृशन्ती तामेव निर्दिशति । विशुद्धः परपुरुषानुरागकलङ्करहितो मुग्धो मदन-
व्यापारवार्तानभिज्ञः कुलकन्यकाजनः । साभिप्रायैर्वचनैर्वैपरीत्यं द्योत्यते । कथा-
न्तरे गोष्ठीमध्य एव, न तु तद्दर्शनादौ । विकलः स्वव्यापाराक्षमः सन्कदम्बगोलकस्य
नीपतरुसंस्थानस्याकृतिमुद्यन्मुकुलालंकृतमाकारं कथमाश्रितः । रोमाञ्चकञ्चुकं कथं
जातमित्यर्थः । त्वमेव तन्नामग्रहणमात्राविर्भूत मन्मथविकारा प्रसिद्धकौमारवर्धकी
भूत्वा कथमितरोपरालम्भे प्रवर्तस इति भावः ॥ १ ॥ मदयन्तिका । सलज्जम् ।
सखि, किं मामुपहससि । ननु भणामि । निर्वापयति । 'सुखयति' इति पाठः ।
तादृशस्यात्मनिरपेक्षव्यवसायिनः कृतान्तकवलीक्रियमाणजीवितबलात्कारप्रत्यान-
यनगुरूपकारिणो जनस्य संकथामात्रस्य नामग्रहणं स्मरणं च । तथा च त्वयापि
गाढगुरुनखप्रहारवेदनारम्भविह्वलितशरीरसंगलितस्वेदसलिलोद्गमो मोहमुकुलीकि-
यमाणनेत्रनीलोत्पलयुगलो भूमिविगलितासियष्टिविष्टम्भधैर्यप्रतिधारितशरीरभारः
प्रत्यक्षीकृत एव मदयन्तिकामात्रविच्छर्दितमहार्घजीवितो महानुभाव इति ॥
? In northern Devanagari printing, it was printed as standard ेplusॅ(crescent) on top:धेॅor simplyधेwith a crescent, or U+0946. Wait, let's look at how people usually transcribe NSP's short e and candrabindu: Often people just writeसँहिorसहि, and विधेअह्मिorविधेॅअह्मि. Wait, let's look at both: If it's सँहि: Line 4: मदयन्तिका—(सलज्जम् ।) सँहि, अवेहि अवेहि । उब्भिण्णह्मिLine 6:लवङ्गिका—सँहि मदअन्ति, अह्मे वि जाणीदव्वं जाणामो ।Line 9:बुद्धरक्षिता—सँहि सोहणं लवङ्गिआए भणिदं ।Line 10:मदयन्तिका—विधेॅअह्मि संपदं सहीणं ।(orविधेअह्मि`)
Wait, let's re-examine lines 4, 6, 9:
Could it be सॅहि?
Wait, if you look at Unicode, सँहि is स + ँ (U+0901 candrabindu) + हि.
Wait, look at the shape
१७६ मालतीमाधवे
लवङ्गिका—जइ एवं ता कहेहि कहं णु दे कालो ग-
च्छदि त्ति।
मदयन्तिका—णिसामेहि पिअसहि, मम बुद्धरक्खिदापक्खवा-
दप्पच्चएण पुढमं एव तस्सिं जणे अविरलकओहलुकण्ठामणहरं हिअअं
आसी। तदो विहिणिओइअचिरणिउत्तदंसणा भविअ दुबारदारुणा-
आसदुक्खसंदावडज्झन्तचित्तविहडन्तजीविदासा दूरविजम्भिआपूव्व-
सव्वङ्गप्पज्वलनमणहुदवहद्दुद्दामदाहदूहसआआसदुम्मणाअन्तपरिअणा
पच्चासाविमुक्खमेत्तसुलहमित्तुणिबाणपडिऊलबुद्धरक्खिदावअणविव-
ड्ढिआवेअवइअरविसंठुला इमं जीवलोअपरिवत्तं अणुहोमि। संकप्प-
चिन्ताए सिविणन्तरेसु अ मणोरहुम्मादमोहिदा पेक्खामि तं जणं। तह
१. यद्येवं तत्कथय कथं नु ते कालो गच्छतीति।
२. निशामय प्रियसखि, मम बुद्धरक्षितापक्षपातप्रत्ययेन प्रथममेव तस्मिञ्ज-
नेऽविरलकौतूहलोत्कण्ठामनोहरं हृदयमासीत्। ततो विधिनियोजितचिरनिर्वृ-
त्तदर्शना भूत्वा दुर्वारदारुणायासदुःखसंतापद्ह्यमानचित्तविघटमानजीविताशा
दूरविजृम्भितापूर्वसर्वाङ्गप्रज्वलनमदनहुतवहोद्दामदाहदुःसहायासदुर्मनायमान-
परिजना प्रत्याशाविमोक्षमात्रसुलभमृत्युनिर्वाणप्रतिकूलबुद्धरक्षितावचनविवर्धि-
तावेगव्यतिकरविसंस्थुलेमं जीवलोकपरिवर्तमनुभवामि। संकल्पचिन्तायां
स्वप्नान्तरेषु च मनोरथोन्मादमोहिता पश्यामि तं जनम्। तथा च प्रियसखि,
मुहूर्तमुद्गूढविस्मयविसंस्थुलोद्वेलविस्तारिप्रान्तनालरक्तनेत्रपुण्डरीकखण्डचोद्भट-
सखीनाम् ॥ लवङ्गिका । यद्येवमसद्विधेयासि तत्कथय कथं नु ते कालो गच्छ-
तीति। तादृशकाङ्क्षाप्राप्तानुरागविषयं दयितमलभमाना कथं दिवसानतिवाहयसीति
भावः ॥ मदयन्तिका । निशामय शृणु प्रियसखि, मम बुद्धरक्षितापक्षपातप्र-
त्ययेन प्रथममेव तस्मिञ्जनेऽविरलकौतूहलोत्कण्ठामनोहरं हृदयमासीत्। नास्थाने
बुद्धरक्षितापक्षपातं करोतीति तत्स्नेहादेव संभावितसकलनायकगणगरीयानिति प्र-
लयो विश्वासोऽस्त्वेवेति भावः। ततो विधिनियोजितचिरनिर्वृत्तदर्शना भूत्वा दुर्वा-
रदारुणायासदुःखसंतापद्ह्यमानचित्तविघटमानजीविताशा दूरविजृम्भितापूर्वसर्वा-
ङ्गप्रज्वलनमदनहुतवहोद्दामदाहदुःसहायासदुर्मनायमानपरिजना प्रत्याशाविमो-
क्षमात्रसुलभमृत्युनिर्वाणप्रतिकूलबुद्धरक्षितावचनविवर्धितावेगव्यतिकरविसंस्थुलेमं
जीवलोकपरिवर्तमनुभवामि। मकरन्दप्रत्याशानिवृत्तमात्रेण सुलभो मृत्युरेव निर्वा-
णं निर्वृतिस्तत्प्रतिकूलं बुद्धरक्षितावचनं संनिहितमकरन्दप्राप्तिप्रतिपादकं तेन संव-
र्धितो य आवेग उद्वेगस्तेन विह्वलेत्यर्थः। संकल्पचिन्तायां स्वप्नान्तरेषु च मनोर-
सप्तमोऽङ्कः । १७७
अ पिअसहि, मुहुत्तं उद्दूढविस्सअविसंठुलुब्बेल्लवित्थारिपेरन्तणालरत्त-
णेत्तपुण्डरीअताण्डवड्ढभटपरूढमैरेअमदघुम्मन्तसीलं णिच्चणेदि ।
किंअ कवलिआरविन्दकेसरकसाअकण्ठकलहंसघोसघग्घरक्खलिअ-
गम्भीरभारईभरिअकण्णविवरं पिए मदअन्तिए त्ति मं वाहरइ । अह-
पहावन्तो विअ उत्तरीअञ्चलवलम्बणपराहवेण ससंमुत्तरङ्गधमधमा-
अन्तहिअअं समुत्तासेइ । सहसा विसज्जिअओसरिअतत्क्खणकठोरक-
मलदण्डाअन्तबाहुबन्धणाववारिअपओहरुग्गमं विघटन्तविह्वलमेह-
लावलअसंधाणिज्जन्तपीवरोरुप्पडिसिद्धविप्पडीवगमणं पडिकूलवादि-
प्ररूढमैरेयमदघूर्णनशीलं निर्वर्णयति । किंच कवलितारविन्दकेसरकषायक-
[L
१७८ मालतीमाधवे
णीं वि सब्बादरपअत्तणिवत्तिदमुहुत्तकोवोवराअदुक्खपरुसीकिद-
हिअअं सिणिद्धपुणरुत्तपल्हत्थलोअणविभाविदासेसचित्तसारं उव-
हसिअ दुउणबाहुदण्डावेढणणिच्चेट्ठणिअमिअं पिअसहि, प्परूढस-
डूलकठोरकररुहप्पहारविअडपत्तावलीपसाहणुत्तानवच्छत्थलणिठ्ठुरणि-
वेसणणीसहं कदुअ सावेअविहूअमत्थअवविद्धकबरीणिहिदकरपरि-
ग्गहपुञ्जीकिदुण्णमिअणिच्चलमुहावअवसच्छन्दविलसिदविअद्धवअ-
णकमलो वामगण्डमूलचिरविणिहिदप्पप्फुरन्तपुञ्जिआहरसमुग्गममण-
हरसहअसारस्सदमणहरुक्कस्सिदसरीरसोहं उल्हसिदसद्धसाणन्दविस-
मसंभममणहरसंवळणमन्धरभमन्तचेअणं किं वि किं वि दुविणअसा-
चनविभाविताशेषचित्तसारामुपहस्य द्विगुणबाहुदण्डावेष्टननिश्चेष्टनियमितां प्रि-
यसखि, प्ररूढशार्दूलकठोरकररुहप्रहारविकटपत्रावलीप्रसाधनोत्तानवक्षःस्थल-
निष्ठुरनिवेशननिःसहां कृत्वा सावेगविधूतमस्तकापविद्धकबरीनिहितकरपरिग्रह-
पुञ्जीकृतोन्नमितनिश्चलमुखावयवस्वच्छन्दविलसितविदग्धवदनकमलो वामगण्ड-
मूलचिरविनिहितप्रस्फुरत्पुञ्जिताधरसमुद्गममनोहरसहजसारस्वतमनोरोत्कर्षि-
तशरीरशोभामुल्लसितसाध्वसानन्दविषमसंभ्रममनोहरसंवलनमन्थरभ्रमच्चेतनां
रोरुप्रतिषिध्यमानविप्रतीगमनाम् । गाढालिङ्गनसौख्यातिशयतत्क्षणप्रवृद्धानित-
म्बाद्विघटमानं विश्लिष्यद्विहलं विस्रस्तं च यन्मेखलावलयं तेन संधार्यमाणाभ्यां पीव-
रोरुभ्यामेव प्रतिषिध्यमानप्रतिकूलगमना मित्यर्थः । तथा प्रतिकूलवादिनीमपि सर्वांद-
रप्रयत्ननिर्वर्तितमुहूर्तकोपोपरागदुःखपरुषीकृतहृदयाम् । मामित्यर्थः । तथा स्निग्ध-
पुनरुक्तपर्यस्तलोचनविभाविताशेषचित्तसारां प्रेमार्द्रविलोचनेनैव मिथ्यैव कुपितेयं न
तु वस्तुतोऽस्याः कोपः । प्रत्युत सर्वमेतन्मच्चेष्टितमनुमतमेवेति निर्णीताकूतसर्वस्वा-
र्थामुपहस्य त्वदीयं कोपमहं जानाम्येव, त्वयि प्रतिकूलगमनायामपि मेखलैव मत्स-
खी त्वामन्यत्र
हसाणुरूवववसाओ मं अन्भट्ठेइ । एवं णाम पिअसहि, समक्खं
सब्वं अणुभविअ तदो झत्ति पडिबुद्धा सुण्णारण्णसंणिभं पुणो
वि मन्दभाइणी विभावेमि जीवलोअं ति ।
लवङ्गिका—१सहि मदअन्तिए, फुडं आचक्खेहि । अवि तस्सिं
अवसरे सिणेहविब्भमुज्जिअहासविससन्तबुद्धरक्खिदालोअणणिरूवि-
दं आसणमऊरं परिअणादो गोवणिज्जं होइ वा किं ण वेत्ति ।
मदयन्तिका—२अह असंबद्धपरिहाससीले, अवेहि ।
बुद्धरक्षिता—३सहि मदअन्तिए, मालदीपिअसहि एव्व इमं
ईरिसाई जाणाई ।
किमपि किमपि दुर्वििनयसाहसानुरूपव्यवसायो मामभ्यर्थयते । एवं नाम
प्रियसखि, समक्षं सर्वमनुभूय ततो झटिति प्रतिबुद्धा शून्यारण्यसंनिभं पुनरपि
मन्दभागिनी विभावयामि जीवलोकमिति ।
१. सखि मदयन्तिके, स्फुटमाख्याहि । अपि तस्मिन्नवसरे स्नेहविभ्रमो-
र्जितहासविकसद्बुद्धरक्षितालोचननिरूपितमासनमयूरकं परिजनाद्गोपनीयं भ-
वति वा किं न वेति ।
२. अयि असंबद्धपरिहासशीले, अपेहि ।
३. सखि मदयन्तिके, मालतीप्रियसख्येवेयमीदृशानि जानाति ।
रीरशोभामुल्लसितसाध्वसानन्दविषमसंभ्रममनोहरसंवलनमन्थरभ्रमचेतनां किमपि
किमपि दुर्वििनयसाहसानुरूपव्यवसायो मामभ्यर्थयते एवं नाम प्रियसखि, समक्षं
प्रत्यक्षं सर्वमनुभूय ततो झटिति प्रतिबुद्धा शून्यारण्यसंनिभं पुनरपि मन्दभाग्या
विभावयामि जीवलोकमिति ॥ लवङ्गिका । सखि मदयन्तिके, स्फुटमाख्याहि ।
अपि तस्मिन्नवसरे स्नेहविभ्रमोर्जितहासविकसद्बुद्धरक्षितालोचननिरूपितमासनमयू-
रक परिजनाद्गोपनीयं भवति वा किं न वेति । आसनार्थं निर्मितं वस्तु तूलपूरितमिति
तन्मयूराकारमासनं मयूरकम् । लघीयमासनं मयूरकं स्वप्नसमागमनिमित्तचरमधा-
तुक्षरणार्दीकृतं सद्विदिग्धबुद्धरक्षितया सस्नेहं सपरिहासं च स्वाप्निकोऽपि ते प्रियसंग-
भोगः पारमार्थिक एव ते जात इति दृष्ट्यैव सूच्यमानं परिजनात्परिहासशङ्कया
गोपनीयं च भवति वा न वेत्यर्थः । मालत्यपेक्षया मदयन्तिकाया निकृष्टत्वद्योतनाय
चेटीजनोचितजुगुप्सितनर्मवचनप्रवृत्तिरिति ग्राह्यम् । मदयन्तिका । अयि असं-
बद्धपरिहासशीले, अपेहि ॥ बुद्धरक्षिता । सखि मदयन्तिके, मालत्याः प्रियस-
ख्येवेयमीदृशानि जानाति । ईदृशानि मन्त्रयितुं न खलु मादृशी त्वत्सखीति भावः।
मालत्यामेवं दृष्टवतीति कृत्वा तत्सखीत्वेनैवमेषा वदतीति मदयन्तिकायां स्नेहाति-
१८० मालतीमाधवे
मदयन्तिका—मा¹ क्खु एवं मालदिं उवहंस ।
बुद्धरक्षिता—²सहि मदअन्तिए, पुच्छिस्सं दाणिं किं वि । जइ
ण मे विस्सासभङ्गं करेसि ।
मदयन्तिका—किं³ पुणो वि पणअभङ्गेण कीआवराहो अअं
जणो जेण एवं मन्तेसि । पिअसहि, तुवं लवङ्गिआ अ संपदं मे
हिअअं ।
बुद्धरक्षिता—⁴जइ दे कहं वि मअरन्दो पुणो वि दंसणपहं
ओदरइ तदो किं तुए कादव्वं ।
मदयन्तिका—⁵एक्केकावयवनिसगलग्गणिच्चले चिरं लोअणे
णिवावइस्सं ।
बुद्धरक्षिता—⁶अह सो मम्महबलक्कारिओ जइ कंदप्पज-
णणिं तुमं रुक्किणिं विअ पुरुसोत्तमो सअंगाहसाहसेण सहधम्मआ-
रिणिं करेइ तदो कीरिसी पडिवत्ती ।
१. मा खल्वेवं मालतीमुपहस ।
२. सखि मदयन्तिके, पृच्छामीदानीं किमपि । यदि न मे विश्वासभङ्गं
करोषि ।
३. किं पुनरपि प्रणयभङ्गेन कृतापराधोऽयं जनो येनैवं मन्त्रयसे । प्रिय-
सखि, त्वं लवङ्गिका च सांप्रतं मे हृदयम् ।
४. यदि ते कथमपि मकरन्दः पुनरपि दर्शनपथमवतरति तदा किं त्वया
कर्तव्यम् ।
५. एकैकावयवनिसर्गलग्ननिश्चले चिरं लोचने निर्वापयिष्ये ।
६. अथ स मन्मथबलात्कारितो यदि कंदर्पजननीं त्वां रुक्मिणीमिव पुरु-
षोत्तमः स्वयंग्राहसाहसेन सहधर्मचारिणीं करोति तदा कीदृशी प्रतिपत्तिः ।
शयो बुद्धरक्षिताया दर्शितः॥मदयन्तिका। मा खल्वेवं मालतीमुपहस॥बुद्धर-
क्षिता। सखि मदयन्तिके,पृच्छामीदानीं किमपि। यदि मे विश्वासभङ्गं न करोषि॥
मदयन्तिका । किं पुनरपि प्रणयभङ्गेन कृतापराधोऽयं जनो येनैवं मन्त्रयसे ।
प्रियसखि, त्वं लवङ्गिका च सांप्रतं मे हृदयम् ॥ बुद्धरक्षिता । यदि ते कथमपि
मकरन्दः पुनरपि दर्शनपथमवतरति तदा किं त्वया कर्तव्यम् ॥ मदयन्तिका ।
एकैकावयवनिसर्गलग्ननिश्चले चिरं लोचने निर्वापयिष्ये ॥ बुद्धरक्षिता । अथ
स मन्मथबलात्कारितो यदि कंदर्पजननीं त्वां रुक्मिणीमिव पुरुषोत्तमः स्वयंग्रा-
सप्तमोऽङ्कः । १८१
मदयन्तिका—(निःश्वस्य ।) ¹किं एत्तिअं आसासिव्हि ।
बुद्धरक्षिता—²सहि, कहेहि ।
लवङ्गिका—³सहि, कहिदं एव हिअआवेअसूअएहिं दीह-
णीसासेहिं ।
मदयन्तिका—⁴सहि, काहं इमस्स देण एव अत्ताणं पणीक-
दुअ मिच्चुकवलणादो आकड्ढिअस्स तस्स एव्व परईअस्स किच्चकिं-
करस्स अप्पणो सरीरस्स ।
लवङ्गिका—⁵सरिसं खु महाणुभावदाए ।
बुद्धरक्षिता—⁶सुमरेसि एदं वअणं ।
मदयन्तिका—⁷कहं दुदिअआमविच्छेदपडहो ताडिअदि । ता
जाव णन्दणं णिब्भच्छिअ सपादपडणं वा अब्भत्थिअ मालदीए उ-
वरि अणुऊलइस्सं । (इत्युत्थातुमिच्छति ।)
१. कस्मादेतावदाश्वासितास्मि ।
२. सखि, कथय ।
३. सखि, कथितमेव हृदयावेगसूचकैर्दीर्घनिःश्वासैः ।
४. सखि, काहमेतस्य तेनैवात्मानं पणीकृत्य मृत्युकवलनादाकृष्टस्य तस्यैव
परकीयस्य कृत्यकिंकरस्यात्मनः शरीरस्य ।
५. सदृशं खलु महानुभावतायाः ।
६. स्मरिष्यसेतद्वचनम् ।
७. कथं द्वितीययामविच्छेदपटहस्ताड्यते । तद्यावन्नन्दनं निर्भर्त्स्य सपाद-
पतनं वाभ्यर्थ्य मालत्या उपर्यनुकूलयिष्यामि ।
दृसाहसेन सहधर्मचारिणीं करोति तदा कीदृशी प्रतिपत्तिः किं प्रतिपत्तव्यम् । मन्म-
थबलात्कारः संजातो यस्मिंस्तादृशः । कंदर्पजननीं प्रद्युम्नमातरं मन्मथविकारहेतुं
च । पुरुषोत्तमो हरिः पुरुषश्रेष्ठश्च ॥ मदयन्तिका । कस्मादेतावदाश्वासितास्मि ।
मनोरथमात्रमिदं न संभाव्यत इति भावः ॥ बुद्धरक्षिता । सखि, कथय । व्यक्ती-
कृतेति शेषः ॥ लवङ्गिका । सखि, कथितमेव हृदयावेगसूचकैर्दीर्घनिःश्वासैः ।
इष्टमेवैतद्यदि सिध्येदिति कथितमेवेत्यर्थः । तस्मान्मकरन्दानयनोपायश्चिन्त्यता-
मिति भावः ॥ मदयन्तिका । सखि, काहमेतस्य तेनैवात्मनः पणीकृत्य मृत्यु-
कवलनादाकृष्टस्य तस्यैव परकीयस्य कृत्यकिंकरस्यात्मनः शरीरस्य ॥ लवङ्गिका ।
सदृशं खलु महानुभावतायाः । तद्युक्तमिति शेषः ॥ बुद्धरक्षिता । स्मरिष्यस्येत-
द्वचनम् ॥ मदयन्तिका । कथं द्वितीययामविच्छेदपटहस्ताड्यते । तद्यावन्नन्दनं
१८२ मालतीमाधवे
(मकरन्दो मुखमुद्भाव्य तां हस्ते गृह्णाति ।)
मदयन्तिका—सहि मालदि, पडिबुद्धासि । (विलोक्य सहर्षं
ससाध्वसं च ।) अह्महे, एदं अण्णं एव्व वट्टइ ।
मकरन्दः—
रम्भोरु संहर भयं क्षमते विकार-
मुत्कम्पिनः स्तनतटस्य न मध्यभागः ।
इत्थं त्वयैव कथितप्रणयप्रसादः
संकल्पनिर्वृतिषु संस्तुत एष दासः ॥ २ ॥
बुद्धरक्षिता—(मदयन्तिकामुखमुन्नमय्य संस्कृतमाश्रित्य ।)
प्रेयान्मनोरथसहस्रवृतः स एष
सुप्तप्रमत्तजनमेतदमात्यवेश्म ।
प्रौढं तमः कुरु कृतज्ञतयैव भद्र-
मुत्क्षिप्तमूकमणिनूपुरमेहि यामः ॥ ३ ॥
१. सखि मालति, प्रतिबुद्धासि । अहो, इदमन्यदेव वर्तते ।
[
सप्तमोऽङ्कः । १८३
मदयन्तिका—सहि बुद्धरक्खिदे, कहिं पुणो दाणिं अह्मेहिं
गन्दव्वं ।
बुद्धरक्षिता—जेहिं एव्व मालदी गदा ।
मदयन्तिका—किं³ णिव्वुत्तसाहसा मालदी ।
बुद्धरक्षिता—अह इं । अण्णं अ तुमं भणासि । (‘का हं इमस्स’
इत्यादि पठति ।)
(मदयन्तिकाश्रूणि पातयति ।)
बुद्धरक्षिता—महाभाअ, दिण्णो खु सअं अप्पा पिअसहीए ।
मकरन्दः—
अद्योर्जितं विजितमेव मया किमन्य-
दद्योत्सवः फलवतो मम यौवनस्य ।
यन्मे प्रसादसुमुखेन समुद्यतेयं
देवेन बान्धवधुरा मकरध्वजेन ॥ ४ ॥
१. सखि, बुद्धरक्षिते, क्व पुनरिदानीमस्माभिर्गन्तव्यम् ।
२. यत्रैव मालती गता ।
३. किं निर्वृत्तसाहसा मालती ।
४. अथ किम् । अन्यच्च त्वं भणसि ।
५. महाभाग, दत्तः खलु स्वयमात्मा प्रियसख्या ।
स्यादेवं यामः । एहि । नूपुरध्वनिरन्यैर्यथा न श्रूयते, तथोर्ध्वमुत्क्षिप्य कैश्चित्पद्बल-
क्षिता यत्र मालतीमाधवौ तत्रैव यामस्त्वरितं मा लज्जस्वेत्यर्थः ॥ ३ ॥ मदय-
न्तिका । सखि बुद्धरक्षिते, क्व पुनरिदानीमस्माभिर्गन्तव्यम् ॥ बुद्धरक्षिता ।
यत्रैव मालती गता ॥ मदयन्तिका । किं निर्वृत्तसाहसा मालती । साहसं स्व-
यमेवात्मप्रदानम् ॥ बुद्धरक्षिता । अथ किम् । निर्वृत्तसाहसैवेत्यर्थः । अन्यच्च
त्वं भणसि । ‘काहमितस्य’ इत्यादि पठति । त्वया यदुक्तं तदनुरूपं विधेहीत्यर्थः ॥
मदयन्तिका गुरुजनविधीयमानसप्रदान इव स्वयमश्रूणि पातयति ॥ बुद्धरक्षिता
आनन्दाश्रुविमोचनेनैव तस्याः स्वात्मप्रदानमधिगम्याह—महाभाग, दत्तः खलु
स्वयमात्मा प्रियसख्या । आनन्दाश्रुपूर्वकमिति भावः ॥ मकरन्दः—अद्येति ।
अद्य प्रियतमालाभान्मयोर्जितं बलं यथा स्यादेवं विजितमेव सर्वोत्तरत्वं संपादित-
मेव । किमन्यदितः परमाश्रास्यमवशिष्टम् । न किंचिदित्यर्थः । तथा फलवतो द-
यिताप्राप्त्यैव सफलस्य मे नवयौवनस्याद्योत्सवो मङ्गलदिनम् । यन्मे प्रसादमुखेन
मकरध्वजेन माधवाभिलषितं संपाद्य मदभिलषितमपि संपादयता बान्धवधुरा
१७ माल०
१८४ मालतीमाधवे
तदनेन पक्षद्वारेण साधयामः ।
(निभृतं परिक्रामन्ति ।)
मकरन्दः—अहो निशीथनिःसंचाररमणीयता राजमार्गस्य ।
संप्रति हि ।
प्रासादानामुपरि वलभीतुङ्गवातायनेषु
प्राप्तामोदः परिणतसुरागन्धसंस्कारगर्भः ।
माल्यामोदी मुहुरुपचितस्फीतकर्पूरवासो
वातो यूनामभिमतवधूसंनिधानं व्यनक्ति ॥ ५ ॥
(इति निष्क्रान्ताः सर्वे ।)
इति महाकविश्रीभवभूतिविरचिते मालतीमाधवे सप्तमोऽङ्कः ।
बन्धुकृत्यमुद्यतोचितपदं प्रापिता ॥ ४ ॥ पक्षद्वारेण पार्श्वद्वारेण । साधयामो ग-
च्छामः॥ समीहितं निशीथे निःसंचारेण राजमार्गस्य रमणीयतास्मत्प्रयाणानुगुण्यं
वर्तते ॥ प्रासादानामिति । सौधानामुपरिभागेषु वलभीजालगवाक्षमार्गेषु
प्रविश्य प्राप्तामोदः । 'भ्रान्त्यावृत्तः' इति पाठे गवाक्षमार्गेण हर्म्यतलेषु परिभ्रम्य
पुनरावृत्तः । अत एव परिणतमद्यगन्धजनितवासनानुविद्धः । माल्यामोदी पुनः
पुनरनुषक्तस्फुरद्धनसारगन्धी वातो यूनामभिलषितं युवतीसंनिधानं व्यनक्तीति
मद्यपानमाल्यादिभिः सुरतादिभोगो व्यज्यते ॥ ५ ॥
मद्व्याख्यामन्थमथिताद्भवभूतिवचोम्बुधेः ।
रसामृतमभिव्यक्तं स्वादयन्तु सुधाधियः ॥
इति श्रीमद्भारद्वाजकुलतिलकपर्वतनाथयायजूकनन्दनत्रि-
पुरारिसूरिविरचितायां मालतीमाधवभावप्रदीपिकायां
सप्तमाङ्कविवरणम् ॥
अष्टमोऽङ्कः ।
(ततः प्रविशत्यवलोकिता ।)
अवलोकिता—वन्दिदा मए णन्दणावसथपडिणिउत्ता भ-
अवदी । ता जाव मालदीमाहवसआसं गच्छामि । (परिक्रम्य ।) एदे
दे परिणिउत्तिदगिम्हदिअहावसाणमज्जणा दीहिआतीरसिलातलं अ-
लंकरेदि । ता उपसप्पमि । (इति निष्क्रान्ता ।)
प्रवेशकः ।
(ततः प्रविशतो मालतीमाधवौ उपविष्टावलोकिता च ।)
माधवः—(सानन्दम् ।) वर्धते हि मन्मथप्रौढसुहृदो निशीथस्य
यौवनश्रीः । तथा हि ।
दलयति परिशुष्यत्प्रौढतालीविपाण्डु-
स्तिमिरनिकरमुद्यन्नैन्दवः प्राक्प्रकाशः ।
वियति पवनवेगादुन्मुखः केतकीनां
प्रचलित इव सान्द्रः स्फारस्फारं परागः ॥ १ ॥
१. वन्दिता मया नन्दनावसथप्रतिनिवृत्ता भगवती । तद्यावन्मालती-
माधवसकाशं गच्छामि । एतौ तौ परिनिवर्तितग्रीष्मदिवसावसानमज्जनौ
दीर्घिकातीरशिलातलमलंकुरुतः । तदुपसर्पामि ।
विबुधरत्नावली ।
अथ मालतीमाधवयोः कामन्दक्यावसथस्थितयोः कृत्यवेशसंपादनानुगुणव्यापारा-
र्थमवलोकिताप्रवेशः । अवलोकिता । वन्दिता मया नन्दनावसथप्रतिनिवृत्ता भग-
वती।तद्यावन्मालतीमाधवयोःसकाशं गच्छामि।परिक्रम्यापश्यतीति शेषः। एतौ तौ
परिनिवर्तितग्रीष्मदिवसावसानमज्जनौ दीर्घिकातीरबिलातलमलंकुरुतः । तदुपसर्पा-
मि॥ माधवः। निशीथस्य वक्ष्यमाणचन्द्रोदयत्वेन मन्मथप्रौढसुहृदः। मन्मथसुहृत्ता
च मन्मथसाध्यानुकूलकरणात् । तत्र समये । ‘सानन्दसाध्वसाः सुरतव्यवसायिन्यो
भवन्ति’ इति वात्स्यायनः । तथा हीति कृत्वा तस्या एव निशीथयौवनश्रिय उत्क-
र्षनिमित्तं व्यनक्ति—दलयतीति । उद्यन्नैन्दवः प्रकाशस्तद्वच्छुष्यत्ताली
१८६ मालतीमाधवे
(स्वगतम् ।) तत्कथं वामशीलां मालतीमुपावर्तये । भवत्वेवं तावत् ।
(प्रकाशम् ।) प्रिये मालति,प्रत्यग्रस्नपनावशेषशीतलां भवतीं निदा-
घसंतापशान्तये किंचिद्विज्ञापयामि। तत्किमित्यन्यथैव मां संभावयसि ।
निष्योतन्ते सुतनु कबरीबिन्दवो यावदेते
यावन्मध्यः स्तनमुकुलयोराद्रंभावं जहाति ।
यावत्सान्द्रप्रतनुपुलकोद्भेदवत्यङ्गयष्टि-
स्तावद्गाढं वितर सकृदप्यङ्कपालीं प्रसीद ॥ २ ॥
अयि मालति निरनुक्रोशे,
रित्रत्वेन च तदभिप्रायस्यानुकूलं गम्यमित्याचरन्तीं वामशीलामिव वामशीलामुपाव-
र्तये स्वाभिमतसिद्धिप्रगुणचित्तां करोमि । भवत्वित्युपायस्मरणे । एवं तावत्कामसू-
त्रोक्तेन कन्याविस्रम्भणोपायैनोपावर्तनार्थं यतिष्य इत्यभिप्रायेण मतिं व्यवस्थाप्य
प्रकाशमाह—प्रिय इति । अत्र निदाघसंतापशान्तय इत्युक्त्या संतापप्रतीकारधिया
न रागितयैव त्वदङ्गसङ्गप्रार्थनार्थं विज्ञापयामीति प्रेमगर्भं विनयप्रदर्शनम् । निष्यो-
तन्त इति । सुतन्विति संबोधनेनालिङ्गनात्यन्तोपयुक्तस्य नायिकाशरीरस्याभिराम-
णीयकप्रदर्शनं किमितीदृश्यां दशायां दर्शनार्हं मां न संभावयसि । मया त्वं य-
स्मिन्नवसरे श्मशानभुवि संभावितासि तत्सदृश एवायं समय इत्याशयः । निष्यो-
तन्त इत्यात्मनेपदं चिन्त्यम् । अथ स्नानविमुक्तबन्धकबरीसङ्गिनो जलबिन्दवो
यावदेव पतन्ति, यावद्वा स्तनद्वन्द्वान्तर्भागः स्नानजलाद्रों वर्तते, यावच्च स्नानशैत्या-
त्सान्द्रपुलकत्वं गता तावदेवाश्लेषं देहि, प्रसन्ना भव । एतेन मालत्येवं जानातु य-
त्किल मदङ्गवर्ती मज्जनजनितशैत्यमेवास्य स्पर्शसंतापशान्तये सत्यमभीष्टम्, न पुनः
कामन्दकीलवङ्गिकाद्यभिप्रयानपेक्षमेव परिणयविधानमनादृत्य किंचिच्चिकीर्षुरिति
विमृश्य मालती मह्यं कापालिकवधोपकारबुद्ध्या वितरत्विति माधवस्याशयः । वस्तु-
तस्तु जलमज्जनजन्यां तात्कालिकीं कान्तिं शोभामिति स तत्र कान्तिगतालंका-
रत्वेन भरतमुनिसंमतामवलोक्यातिरागादेवाश्लेषप्रार्थनायां प्रवृत्तः । 'रूपयौवनला-
वण्यादुपभोगोपबृंहितैः । अलंकरणमङ्गानां शोभेति परिकीर्तिता । कान्तिरित्यु-
च्यते सापि शोभैवापूर्णमन्मथा ॥' तथा । 'उत्तिष्ठन्त्या रतान्ते भरमुरगपतौ पाणि-
नैकेन कृत्वा धृत्वा चान्येन वासो विलुलितकबरीभारमंसे वहन्त्याः । भूयस्तत्काल-
कान्तिद्विगुणितसुरतप्रीतिना शौरिणा वः शय्यामालिङ्ग्य नीतं वपुरतिविचलद्बाहु
लक्ष्म्याः पुनातु ॥' इति ॥२॥ अथ कामसूत्रविन्माधवस्तदूह्यस्यापि 'अनुत्तरां चोप-
लक्ष्यात्'(?) इत्यादिकां द्वितीयभूमिकामधिरोपयन्नाह—अयीति । निरनुक्रोशे इति
रोषोद्भावनेन मालत्या विभीषिका दर्शिता । यथाह वात्स्यायनः—'एवं चित्तानुगो
बालामुपायेन प्रसादयेत् । तथा चेत्सानुरागा च विस्रब्धा चापि जायते ॥ नात्यन्त-
मानुलोम्येन न चातिप्रातिकूल्यतः । सिद्धिं गच्छति कन्यासु तस्मान्मध्येन साध-
अष्टमोऽङ्कः । १८७
जीवयन्निव समूढसाध्वस-
स्वेदबिन्दुरधिकण्ठमर्प्यताम् ।
बाहुरैन्दवमयूखचुम्बित-
स्यन्दिचन्द्रमणिहारविभ्रमः ॥ ३ ॥
अथवा दूरे तावदेतत् । कथमालापसंविभोगस्याप्यभाजनमयं जनो
भवत्याः ।
दग्धं चिराय मलयनिलचन्द्रपादै-
र्निर्वापितं तु परिरभ्य वपुर्न नाम ।
आमत्तकोकिलरुतव्यथिता तु हृद्या-
मद्य श्रुतिः पिबतु किंनरकण्ठि वाच्यम् ॥ ४ ॥
अवलोकिता—अई अणिबहणसीले, जं दाणिं मुहुत्तमेत्तन्तरि-
अमाहवा दुम्मणाअन्ती मह पुरदो भणासि । चिराअदि अज्जउत्तो ।
अवि णाम किअच्छिरेण पेक्खिस्सं, जेण पुणो विवड्ढिआसेससज्जसा
१. अयि अनिर्वहणशीले
१८८ मालतीमाधवे
विसुमरिअनिमेसविग्घं ओलोअन्ती एवं भणिस्सं । दुउणिआवे-
ट्ठणपरिरब्भणेण संभाविस्सं ति । स एष अअं परिणामो ।
(मालती सासूयमिव तां पश्यति ।)
माधवः—(अपवार्य ।) अहो भगवत्याः प्रथमान्तेवासिन्याः सर्व-
तोमुखं वैदग्ध्यमक्षय्यसुभाषितरत्नसंचारसंस्करणम् । (प्रकाशम् ।)
प्रिये, सत्यमवलोकिता वदति ।
(मालती मूर्धानं चालयति ।)
माधवः—शापितासि मम लवङ्गिकावलोकितयोश्च जीवितेन
यदि मे न कथयसि ।
ष्ये, येन पुनर्विवर्धिताशेषसाध्वसा विस्मृतनिमेषविघ्नमवलोकयन्त्येवं भणि-
ष्यामि । द्विगुणितावेष्टनपरिरम्भेण संभावयिष्य इति । स एवायं परिणामः ।
मुहूर्त्तमात्रान्तरितश्चासौ माधवश्चेति विग्रहः। दुर्मनायमाना मम पुरतो भणसि॥चि-
रायत आर्यपुत्रः। अपि नाम कियता चिरेण प्रेक्षिष्ये।येन पुनर्विवर्धिताशेषसाध्वसा
विस्मृतनिमेषविघ्नं यथा स्यादेवं नयननिमीलनमेव विघ्नमवलोकयन्त्येवं भणिष्यामि
द्विगुणितावेष्टनपरिरम्भेण संभावयिष्य इति । मदग्रतः प्रागेवमङ्गीकृतस्स स एवाय-
माश्लेषावसरस्य परिणामोऽयमधुना संलापितेऽपि वैदग्ध्यमित्याशयः ॥ मालती
सासूयमिव पश्यतीत्याशयः। न तु सासूयमेव। असूया च कोपो विज्ञेयः। कोपाविष्क-
रणं मद्रहस्यमीदृशमनया व्यक्तीकृतमिति हेतोः । वस्तुतस्तु पूर्वानुरागदर्शितमनो-
रथोऽनयावसरे प्रकटीकृत इति सानन्दमेव पश्यतीत्याशयः॥माधवः। प्रथमान्ते-
वासिन्या इत्युक्त्या कामन्दक्या तादृग्दूत्याचार्यकमपि किमस्यै सम्यगुपदिष्टं यतः
प्रस्तावे मद्धियेयानुगुणमस्या रहस्योद्भेदनमिति कृतवतीत्याशयः । अक्षय्योऽशोष्यो
नवनवस्फूर्तिशोभनभाषितान्येव रत्नानि तेषां संचारोऽन्यत्र मुख्यवृत्तेरन्यत्रापि
कार्याानुकूलत्वेन निवेशनम् । संस्करणमग्राम्यतापादनम् । प्रकाशम् । पृच्छतीति
शेषः । यदवलोकितयोक्तं तत्सत्यमुतोत्पाद्यं कथयतीति प्रश्नस्यायमभिप्रायः । यदि
तावत्पृष्टा नोत्तरं दास्यति तदानुमतिरस्या इत्याकूतोपलब्धिर्भविष्यति । उत्तरप्रदाने
चास्या वचनश्रवणलाभो भवितेति वात्स्यायनोक्तेरालापयोजनेऽन्तर्भावः प्रश्नस्ये-
त्याशयः । तदाह—'सखीं चानुकूलामुभयोरपि विश्रब्धामन्तरा कृत्वा कथायोज-
नम् । तस्मिन्नधोमुखी विहसेत् । तां चातिवादिनीमविक्षिपेद्विदग्धा।परिहासार्थमि-
दमनयोक्तमिति चानुक्तमपि ब्रूयात् । तत्र तामपनुद्य प्रतिवचनार्थमसंपूर्णावाक्यार्थं
तूष्णीमासीत । निर्बध्यमाना तु नाहमेवं ब्रवीमीत्यव्यक्ताक्षरमनवसितार्थवचनं ब्रू-
यात् । नायकं च विहसन्ती कटाक्षैः प्रेक्षेत'इत्यादयोऽपीत्यत्रानवसितार्थमसंपूर्णावा-
क्यार्थम् । मालती न मयैवमुक्तमिति प्रतिपादनार्थं प्रातिकूल्येन शिरश्चालयति।'नि-
र्बध्यमाना तु शिरःकम्पेन प्रतिवचनं ददाति'इति वात्स्यायनः॥ माधवः। लवङ्गि-
अष्टमोऽङ्कः । १८९
मालती—णाहं किं वि जाणामि । (इत्यर्धोक्ते लज्जां नाटयति ।)
माधवः—अहो अनवसितार्थरम्यवचसश्चारुता । (सहसा निरूप्य ।)
अवलोकिते, किमेतत् ।
बाष्पाम्भसा मृगदृशो विमलः कपोलः
प्रक्षाल्यते सपदि राजत एष यस्मिन् ।
गण्डूषपेयमिव कान्त्यमृतं पिपासु-
रिन्दुर्निवेशितमयूखमृणालदण्डः ॥ ५ ॥
अवलोकिता—सहि, किं दाणिं उच्छलिअबाहप्पीडं रोदिअदि ।
मालती—सहि, केचिरं लवङ्गिआए असन्णिहाणदुक्खं अनु-
हविस्सं । पउत्तिलाहो वि से दुल्हहो ।
माधवः—अवलोकिते, किं नामैतत् ।
१. नाहं किमपि जानामि ।
२. सखि, किमिदानीमुच्छलितबाष्पोत्पीडं रुद्यते ।
३. सखि, कियच्चिरं लवङ्गिकाया असंनिधानदुःखमनुभविष्यामि । प्रवृ-
त्तिलाभोपि तस्या दुर्लभः ।
कावलोकितयोर्जीवितेन शापितासीत्युक्त्या लवङ्गिकावलोकिते तवात्यन्तहितप्रवृत्ते
अनतिक्रमणीयवचने चेत्याशयः ॥ मालती । नाहं किमपि जानामीत्युक्त्या चा-
त्मनः कुमारीभावप्रतिपादनार्थं लज्जामिव लज्जां दर्शयति । यथा गुरुजनानपेक्ष्य
साहसानुष्ठानेन सहजलज्जाया असंभवात् ॥ माधवः । अनवसितार्थत्वेन रम्यं
यद्वचस्तस्य चारुता निरूप्य । वदतीति शेषः । एतेनानवसितार्थत्वं गम्यते । तेन
च 'निर्बध्यमाना नाहमेवं ब्रवीमीत्यनवसितार्थं वचनं ब्रूयात्' इति वात्स्यायनोक्तं
स्मारयति । अथ मालत्येककरार्पितकपोलमश्रु पातयतीति गम्यते । तेनाश्रुपात-
निमित्तं माधवोऽवलोकितां पृच्छति । अवलोकिते, किमेतदनौपयिकमश्रुपातन-
मिति । त्वमस्या रहस्यवेदिनीति भावः । बाष्पेति । अस्या मृगाक्ष्याः स्वभावत
एव मलशून्यं किमिति प्रक्षाल्यते । सपदि । आवयोर्वचनान्तरमित्यर्थः । यत्र
कपोले स्वभावनिर्मलत्वेनाश्रुजलपूतत्वेन चेन्दुः प्रतिफलितमयूखत्वेन राजते ।
अस्या मुखामृतसरस्यमृतं पातुमिच्छन्विक्षिप्तरश्मिबिसकाण्ड इवैककरसंक्रान्त-
त्वेनैककपोलस्याश्रुणा प्रक्षालनं युज्यते ॥ ५ ॥ अवलोकिता । सखि, किमि-
दानीमुच्छलितबाष्पोत्पीडं यथा स्यादेवं रुद्यते ॥ मालती । सखि, कियच्चिरं लव-
ङ्गिकाया असंनिधानदुःखमनुभविष्यामि । प्रवृत्तिलाभोऽपि तस्या दुर्लभः । इति