मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 179, कुल 377 में से
संदर्भ में पढ़ेंसप्तमोऽङ्कः । १७३
अत्थम्भेण संभाविदा णिकारणबन्धवेण सअलभुवणेकसारणिअदेहो-
बहारसाहसं कदुअ पडिरक्खिदह्मि । जेण अ दिढविभडमंसुलुत्ता-
णपरिणाहिवच्छत्थललञ्छणजज्झरिदजवापीडधारिणा करुणाधणेण
मम किदे वि णिमज्जन्तसअलणहणिआमवज्जपञ्जरप्पहारो मारिदो
अ सो दुट्ठसावदमहारक्खसो त्ति ।
लवङ्गिका—१हुं, मअरन्दो ।
मदयन्तिका—(सानन्दम् ।) सेहि, किं भणासि ।
लवङ्गिका—३णं भणामि मअरन्दो त्ति । (सस्मितं शरीरमस्याः
स्पृशन्ती संस्कृतमाश्रित्य ।)
वयं तथा नाम यदात्थ किं वदा-
म्ययं तु कस्माद्विकलः कथान्तरे ।
लभुवनैकसारनिजदेहोपहारसाहसं कृत्वा परिरक्षितास्मि । येन च दृढ-
विकटमांसलोत्तानपरिणाहिवक्षःस्थललाञ्छनजर्जरितजवापीडधारिणा करुणाध-
नेन मत्कृतेऽपि निमज्जत्सकलनखनिकायवज्रपञ्जरप्रहारो मारितश्च स दुष्टश्वा-
पदमहाराक्षस इति ।
१. हुं, मकरन्दः ।
२. सखि, किं भणसि ।
३. ननु भणामि मकरन्द इति ।
रक्षितास्मि । येन च दृढविकटमांसलोत्तानपरिणाहिवक्षःस्थललाञ्छनजर्जरित-
जपापीडधारिणा । रुधिरार्द्रतया वक्षःस्थलनिहितहारलतैव जपाकुसुमवर्णलाञ्छ-
पापीडत्वेनोक्ता । तद्धारिणा करुणाधनेन मत्कृतेऽपि निमज्जत्सकलनखनिका-
यवज्रपञ्जरहारो मारितश्च स दुष्टश्वापदमहाराक्षस इति ॥ लवङ्गिका । हुं,
मकरन्दः । हुमित्यङ्गीकारद्योतकमव्ययं मालतीमदयन्तिकयोः समानाधिकार-
विषयानुरागं व्यनक्ति । यथा किल त्वं श्वापदापस्कन्दिता विनिहतशार्दूले प्राण-
दायिनि तस्मिन्गाढमनुरक्ता, एवं मालत्यपि खलाभनिमित्तमेव जीवितस्पृहानिर-
पेक्षं निर्व्यूढमहामांसविक्रयसाहसे कापालिकमारितकल्पात्मप्राणरक्षके माधवे
निरुपाधिकशब्दगाढानुरागेति कथं तां लघूपालभस इति भावः॥ मदयन्तिका ।
सानन्दं सखि, किं भणसि । प्रियतमनामधेयशुश्रूषातिशयादादरेण प्रश्नः
लवङ्गिका । ननु भणामि मकरन्द इति । एवं मकरन्दनामग्रहणादेवाविर्भूतरो-
माञ्चस्वेदादिसात्विकभावां मदयन्तिकां दृष्ट्वा सस्मितमस्याः शरीरं स्पृशन्ती
संस्कृतमाश्रित्य । वदतीति शेषः । वयमिति । कुमार्यैव सती मालती माधवे-