मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 185, कुल 377 में से
संदर्भ में पढ़ेंहसाणुरूवववसाओ मं अन्भट्ठेइ । एवं णाम पिअसहि, समक्खं
सब्वं अणुभविअ तदो झत्ति पडिबुद्धा सुण्णारण्णसंणिभं पुणो
वि मन्दभाइणी विभावेमि जीवलोअं ति ।
लवङ्गिका—१सहि मदअन्तिए, फुडं आचक्खेहि । अवि तस्सिं
अवसरे सिणेहविब्भमुज्जिअहासविससन्तबुद्धरक्खिदालोअणणिरूवि-
दं आसणमऊरं परिअणादो गोवणिज्जं होइ वा किं ण वेत्ति ।
मदयन्तिका—२अह असंबद्धपरिहाससीले, अवेहि ।
बुद्धरक्षिता—३सहि मदअन्तिए, मालदीपिअसहि एव्व इमं
ईरिसाई जाणाई ।
किमपि किमपि दुर्वििनयसाहसानुरूपव्यवसायो मामभ्यर्थयते । एवं नाम
प्रियसखि, समक्षं सर्वमनुभूय ततो झटिति प्रतिबुद्धा शून्यारण्यसंनिभं पुनरपि
मन्दभागिनी विभावयामि जीवलोकमिति ।
१. सखि मदयन्तिके, स्फुटमाख्याहि । अपि तस्मिन्नवसरे स्नेहविभ्रमो-
र्जितहासविकसद्बुद्धरक्षितालोचननिरूपितमासनमयूरकं परिजनाद्गोपनीयं भ-
वति वा किं न वेति ।
२. अयि असंबद्धपरिहासशीले, अपेहि ।
३. सखि मदयन्तिके, मालतीप्रियसख्येवेयमीदृशानि जानाति ।
रीरशोभामुल्लसितसाध्वसानन्दविषमसंभ्रममनोहरसंवलनमन्थरभ्रमचेतनां किमपि
किमपि दुर्वििनयसाहसानुरूपव्यवसायो मामभ्यर्थयते एवं नाम प्रियसखि, समक्षं
प्रत्यक्षं सर्वमनुभूय ततो झटिति प्रतिबुद्धा शून्यारण्यसंनिभं पुनरपि मन्दभाग्या
विभावयामि जीवलोकमिति ॥ लवङ्गिका । सखि मदयन्तिके, स्फुटमाख्याहि ।
अपि तस्मिन्नवसरे स्नेहविभ्रमोर्जितहासविकसद्बुद्धरक्षितालोचननिरूपितमासनमयू-
रक परिजनाद्गोपनीयं भवति वा किं न वेति । आसनार्थं निर्मितं वस्तु तूलपूरितमिति
तन्मयूराकारमासनं मयूरकम् । लघीयमासनं मयूरकं स्वप्नसमागमनिमित्तचरमधा-
तुक्षरणार्दीकृतं सद्विदिग्धबुद्धरक्षितया सस्नेहं सपरिहासं च स्वाप्निकोऽपि ते प्रियसंग-
भोगः पारमार्थिक एव ते जात इति दृष्ट्यैव सूच्यमानं परिजनात्परिहासशङ्कया
गोपनीयं च भवति वा न वेत्यर्थः । मालत्यपेक्षया मदयन्तिकाया निकृष्टत्वद्योतनाय
चेटीजनोचितजुगुप्सितनर्मवचनप्रवृत्तिरिति ग्राह्यम् । मदयन्तिका । अयि असं-
बद्धपरिहासशीले, अपेहि ॥ बुद्धरक्षिता । सखि मदयन्तिके, मालत्याः प्रियस-
ख्येवेयमीदृशानि जानाति । ईदृशानि मन्त्रयितुं न खलु मादृशी त्वत्सखीति भावः।
मालत्यामेवं दृष्टवतीति कृत्वा तत्सखीत्वेनैवमेषा वदतीति मदयन्तिकायां स्नेहाति-