सामग्री पर जाएँ
सर्वकोश
कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

Kumarasambhavam of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. सीताराम चतुर्वेदी द्वारा

DevanagariSanskritpublished268 पृष्ठ

पृष्ठ 245, कुल 268 में से

संदर्भ में पढ़ें
पृष्ठ 245

( २२८ )
चिह्न है ऐसे ( शिव ) ने अपना रूप धारण कर मुस्कराते हुये
उसको पकड़ लिया ॥ ८४ ॥
ENGLISH TRANSLATION :-Or, I shall go from here,
so saying the maiden, with the bark-garment slipping
from her breasts, started, (just then) the bull-emblemed
God, assuming his own form, held over, with a
smile. 84
PURPORT IN SANSKRIT :-' हे सखि ! यदि चायं ब्रह्म-
चारी अस्मात्स्थानादन्यत्र न गमिष्यति तर्ह्यहं स्वयमेवान्यत्र
यास्यामि ' इति कथयित्वा पार्वती चलितुमुद्यताभूत् वल्कलञ्च
रयवशात्तत्स्तनाभ्यामधः स्रस्तम्, परं तस्मिन्नेव काले शिवो निजां
यथार्थामाकृतिमाश्रित्य मन्दहासञ्च कृत्वा पार्वतीं जग्राह ॥ ८४ ॥
तं वीक्ष्य वेपथुमती सरसाङ्गयष्टि-
निक्षेपणाय पदमुद्धृतमुद्वहन्ती ।
मार्गाचलव्यतिकराकुलितेव सिन्धुः
शैलाधिराजतनया न ययौ न तस्थौ ॥ ८५ ॥
तमिति । तं देवं वीक्ष्य वेपथुमती । सरसांगयष्टिः खिन्नगात्री ।
महादेवदर्शनेन देव्याः सात्त्विकभावोदय उक्तः । निक्षेपणाय अन्यत्र
विन्यासाय उद्धृतं उत्क्षिप्तं पदं अङ्घ्रि उद्वहन्ती । शैलाधिराज-
तनया पार्वती मार्गाचलव्यतिकराकुलिता मार्गेऽचलस्तस्य व्यति-
करेण समाहत्या अवरोधेनेति यावत् । आकुलिता संभ्रमिता
सिन्धुः नदी इव । ' देशे नदविशेषेऽन्धौ सिन्धुर्ना सरिति स्त्रियाम् '
इत्यमरः । न ययौ न तस्थौ । लज्जयेति भावः । वसन्ततिलका-
वृत्तमेतत् ॥ ८५ ॥