सामग्री पर जाएँ
सर्वकोश
कृषि-पाराशर (महर्षि पराशर - प्राचीन भारतीय कृषि, मृदा-परीक्षण, वर्षा-पूर्वानुमान व बीज-संस्कार)

कृषि-पाराशर (महर्षि पराशर - प्राचीन भारतीय कृषि, मृदा-परीक्षण, वर्षा-पूर्वानुमान व बीज-संस्कार)

Krishi-Parashara of Maharshi Parashara

महर्षि पराशर (सम्पादक: गिरिजाप्रसन्न मजूमदार एवं सुरेशचन्द्र बनर्जी) द्वारा

DevanagariSanskritpublished160 पृष्ठ

पृष्ठ 62, कुल 160 में से

संदर्भ में पढ़ें
पृष्ठ 62

कृषिपरशरः ३१
इयं हि हलसामग्री पराशरमुनेर्मता ।
सुदृढा कृषकैः कार्या शुभदा सर्वकर्मसु ॥११९॥
अदृढायुक्तमाना या सामग्री वाहनस्य च ।
विघ्नं पदे पदे कुर्यात् कर्षकाले न संशयः ॥१२०॥
5 अथ हलप्रसारणम्—
अनिलोत्तररोहिण्यां मृगमूलपुनर्वसौ ।
पुष्यश्रवणहस्तासु कुर्याद्धलप्रसारणम् ॥१२१॥
हलप्रसारणं कार्यं कृषकैः शस्यवृद्धये ।
शुक्रेन्दुजीववारेषु शशिशस्य विशेषतः ॥१२२॥
10 भौमार्कदिवसे चैव तथा च शनिवासरे ।
कृषिकर्मसमारम्भो राज्योपद्रवमादिशेत् ॥१२३॥
1 D reads इत्थं लाङ्गलसामग्री पराशरमुनिस्मृता ।
2 B, D कर्षकैः for कृषकैः. B, D कृषिकर्मणि for सर्वकर्मसु. D समर्था for
शुभदा ।
3 B ॰युज्यमाना for ॰युक्तमाना, सा for या. C अन्वदृढानुकाया वा for
अदृढा...या ।
4 C कृषकाणां for कर्षकाले. D कृषिकाले ।
5 A हलप्रसारणकथनं (D हलप्रसारकथनम् ) for हल...णम् ।
7 A, B ॰हस्तेषु for ॰हस्तासु, B हाल for हल ।
8 B कर्षकैः for कृषकैः ।
10 A तथापि ( B तथैव ) for तथा च ।
11 A, C राजोपद्रवं for राज्योपद्रवं. D समारम्भे for समारम्भो ।
After this line, C reads बुधबृहस्पतौ चन्द्रे शुक्रे चैव विशेषतः । प्रशस्तं
हलकार्यं च चन्द्रयोगे शुभे दिने ॥ वृषे धनुषि मीने च कन्यामिथुनवृश्चिके ।
वाहयेत्तु बलोवर्दाम्नत्वा पृथ्वीं पराशरम् ॥ वृषे पशुविनाशः कर्कटे जलजाद्-
भयम् । सिंहे शस्यविनाशः स्यात् तुलायां न प(प्र ?) रोहति ॥ मृगे
शस्त्रभयं विद्यात् कुम्भे चैव भयं भवेत् । तस्मात् प्रयत्नेन हलकर्माणि
कारयेत् ।