सामग्री पर जाएँ
सर्वकोश
कृषि-पाराशर (महर्षि पराशर - प्राचीन भारतीय कृषि, मृदा-परीक्षण, वर्षा-पूर्वानुमान व बीज-संस्कार)

कृषि-पाराशर (महर्षि पराशर - प्राचीन भारतीय कृषि, मृदा-परीक्षण, वर्षा-पूर्वानुमान व बीज-संस्कार)

Krishi-Parashara of Maharshi Parashara

महर्षि पराशर (सम्पादक: गिरिजाप्रसन्न मजूमदार एवं सुरेशचन्द्र बनर्जी) द्वारा

DevanagariSanskritpublished160 पृष्ठ

पृष्ठ 59, कुल 160 में से

संदर्भ में पढ़ें
पृष्ठ 59

२८ कृषिपराशरः

अथ गोयात्राप्रवेशौ—
पूर्वात्रयं धनिष्ठा च इन्द्राग्निसौम्यवारुणाः ।
एते शुभप्रदा नित्यं गवां यात्राप्रवेशयोः ॥१०५॥
त्रिषूत्तरेषु रोहिण्यां सिनीवाली चतुर्दशी ।
पुष्यश्रवणहस्तेषु चित्रायामष्टमीषु च ॥१०६॥
गवां यात्रां न कुर्वीत प्रस्थानं वा प्रवेशनम् ।
पशवस्तस्य नश्यन्ति ये चान्ये तृणचारिणः ॥१०७॥
अर्कार्किकुजवारेषु गवां यात्राप्रवेशयोः ।
गमने गोविनाशः स्यात् प्रवेशे गृहिणोवधः ॥१०८॥
अथ गोमयकूटोद्धारः—
माघे गोमयकूटं तु संपूज्य श्रद्धयान्वितः ।
शोभने दिवसे ऋक्षे कुद्दालैस्तोलयेत्ततः ॥१०९॥


1 A कथनं for प्रवेशौ. B गवां for गो. D प्रवेशकथनं for प्रवेशौ ।
2 A शाकसौम्याग्नि for इन्द्राग्नि...वारुणाः. C इन्द्राग्नो for इन्द्राग्नि. D त्रय
for त्रयं, धनिष्ठेद्रानैन्द्राग्नि for धनिष्ठा...म्नि ।
4 A कुहूस्तथा for चतुर्दशी. B उत्तरात्रय for त्रिषूत्तरेषु ।
5 C श्रवेणाहत्तशकेषु for पुष्य...हस्तेषु. D श्रवणे पाण्य (?) हस्ते च आद्रायां
for पुष्य...चित्राया ।
6 A reads गवां यात्रां प्रकुर्व्वन्ति प्रवेशं वा कथंचन. D स्वस्थाने for प्रस्थानं ।
7 A हलधारिणः for तृणचारिणः. D तेन for तस्य, पशुजातयः for
तृणचारिणः ।
9 A विनाशः स्याद् गवां गेहे for गमने...स्यात्.
C गृहिणी for गृहिणो ।
10 D omits कूट ।
11 A च for तु, कृषितत्परः for श्रद्धयान्वितः .
D सिद्धया (?) for श्रद्धया ।
12 B सारंशुभदिनं प्राप्य ( D सार' शोभनदिवसे ) for शोभने...ऋक्षे.
C चैव for ऋक्षे ।