कृषि-पाराशर (महर्षि पराशर - प्राचीन भारतीय कृषि, मृदा-परीक्षण, वर्षा-पूर्वानुमान व बीज-संस्कार)
Krishi-Parashara of Maharshi Parashara
महर्षि पराशर (सम्पादक: गिरिजाप्रसन्न मजूमदार एवं सुरेशचन्द्र बनर्जी) द्वारा
पृष्ठ 58, कुल 160 में से
संदर्भ में पढ़ें[Page 27]
कृषिपराशरः
२७
कुङ्कुमैश्चन्दनैश्चापि कृत्वा चाङ्गे विलेपनम् ।
उद्यम्य लगुडं हस्ते गोपालाः कृतभूषणाः ॥१००॥
ततो वाद्यैश्च गीतैश्च मण्डयित्वाम्बरादिभिः ।
भ्रामयेयुर्वृषं मुख्यं ग्रामे गोविघ्नशान्तये ॥१०१॥
गवामङ्गे ततो दद्यात् कार्तिकप्रथमे दिने ।
तैलं हरिद्रया युक्तं मिलित्वा कृषकैः सह ॥१०२॥
तप्तलोहैं दिने तस्मिन् गवामङ्गेषु दापयेत् ।
छेदनं च प्रकुर्वीत लाङ्गूलकचकर्णयोः ॥१०३॥
सर्वा गोजातयः सुस्था भवन्त्येतेन तद्गृहे ।
नानाव्याधिविनिर्मुक्ता वर्षमेकं न संशयः ॥१०४॥
[Footnotes / Critical Apparatus]
1 A चैवांगलेपनं for चांगे विलेपनम्. C चांगापलेपनं ( चांगोपलेपनं ? ) for the same portion. D भृङ्गे for चाङ्गे ।
2 C पुच्छे for हस्ते, गोशाला: for गोपालाः ।
3 B, C नृत्यैः for गीतैः. D अथ वाद्यैर्नृत्यगीतैः for ततो...गीतैश्च, सुखादिभिः for अम्बरादिभिः. C reads this line before L 1.
4 A, C भ्रामयेत् परमं सौख्यं for भ्रामयेयु... मुख्यं. D भ्रमगो तृतीयं ग्रामविघ्नशान्तये ततः ।
5 A तथा for ततो, अभ्रजद्वयं (?) for अम्भसा सह. B तद्वा for ततो. C वैशाखस्याम्भसा सह for कार्तिकप्रथमेदिने ; मस्तके तु गवां for गवा...ततो. D मध्ये for अङ्गे ; वैशाखस्या...(last four letters corrupt) for कार्तिक...दिने ।
6 B कुङ्कुमैः ( D कर्षकैः ) for कृषकैः. C omits the line.
7 B reads तप्तलौहादिकं तत गवामंगे प्रदापयेत्. D अंगे प्रतापयेत् for अंगेषु दापयेत् ।
8 A तु ततः कुर्यात् for च प्रकुर्वीत. B लोम्नां लाङ्गूल for लाङ्गूलकच. C प्रकुर्वन्ति for प्रकुर्वीत, लाङ्गुलस्य च for लाङ्गूलकच ।
9 A सर्वा गौर्जायते तेन सुस्था भवन्ति तद्गेहे. D तदा for सर्वा ।
10 C नाश for नाना ।