सामग्री पर जाएँ
सर्वकोश
कृषि-पाराशर (महर्षि पराशर - प्राचीन भारतीय कृषि, मृदा-परीक्षण, वर्षा-पूर्वानुमान व बीज-संस्कार)

कृषि-पाराशर (महर्षि पराशर - प्राचीन भारतीय कृषि, मृदा-परीक्षण, वर्षा-पूर्वानुमान व बीज-संस्कार)

Krishi-Parashara of Maharshi Parashara

महर्षि पराशर (सम्पादक: गिरिजाप्रसन्न मजूमदार एवं सुरेशचन्द्र बनर्जी) द्वारा

DevanagariSanskritpublished160 पृष्ठ

पृष्ठ 56, कुल 160 में से

संदर्भ में पढ़ें
पृष्ठ 56

कृषिपराशरः २५
संमार्जनीं च मुसलमुच्छिष्टं गोनिकेतने ।
कृत्वा गोनाशमाप्नोति तत्राजबन्धनाद् ध्रुवम् ॥९१॥
गोमूत्रजालकेनैव यत्रावस्करमोचनम् ।
कुर्व्वन्ति गृहमेधिन्यस्तत्र का वाहवासना ॥९२॥
विलन्धिं गोमयस्यापि रविभौमशनेर्दिने ।
न कारयेद् भ्रमेणापि गोवृद्धिं यदि वाञ्छति ॥९३॥
वारत्रयं परित्यज्य दद्यादन्येषु गोमयम् ।
शनिभौमार्कवारेषु गवां हानिकरः स्मृतः ॥९४॥
सन्ध्यायां तु गवां स्थाने दीपो यत्र न दीयते ।
स्थानं तत्कमलाहीनं वीक्ष्य क्रन्दन्ति गोगणाः ॥९५॥
1 संमार्जनीमुसलं च for स···मुसलं.
B अशनं for मुसलं ।
D भुक्तोच्छिष्टं for उच्छिष्टं गो ।
2 B तथा तत्राजबन्धने for तत्राज···ध्रुवम, C स्थानादन्यत्र बन्धनात् for
the same portion, D तथा तत्राजबन्धनम् ।
3 A तत् for तत्र, शोधनं for मोचनम्. C यदा अञ्चर (?) for यत्रावस्कर.
D चैव for ०नैव ।
4 C परिदेवना for वाहवासना, D वाहनाशनं for the same portion.
5 C विलन्धं ( D विलोपं ) for विलन्धि. A, D शनैः for शनेः ।
6 A प्रयत्नेन for भ्रमेणापि ।
7 Omitted by A.
8 Omitted by A. B विलम्ब्य शनिभौमेषु for शनि···वारेषु. C नाशकरः
पुनः for हानि···स्मृतः. D विलेपं शनिभौमेषु for शनि···वारेषु, ०करं
स्मृतं for ०करः स्मृतः ।
9 A सन्ध्याद्वये तु गो ( B सन्ध्याकाले च गो, C सन्ध्याद्वयेगवा ) for सन्ध्यायां
तु गवां. A विध्यते for दीयते ।
10 A तन्न प्रभां for तत्कमला, दृष्ट्वा क्रन्दति गोगणः for वीक्ष्य···गणाः.
C कर्मणा for कमला, धनाः for गणाः ।
४