काव्यप्रकाश (आचार्य मम्मट - सम्पूर्ण १० उल्लास सटीक)

काव्यप्रकाश (आचार्य मम्मट - सम्पूर्ण १० उल्लास सटीक)
Kavyaprakasha of Mammata with Hindi Commentary
आचार्य मम्मट / पं. विश्वेश्वर सिद्धान्तशिरोमणि द्वारा
DevanagariSanskritpublished616 पृष्ठ
पृष्ठ 95, कुल 616 में से
संदर्भ में पढ़ेंपृष्ठ 95
अत्र दूत्यास्तत्कामुकोपभोगो व्यज्यते ।
तथाभूतां दृष्ट्वा नृपसदसि पाञ्चालतनयां
वने व्याधैः सार्धं सुचिरमुषितं वल्कलधरैः ।
विराटस्यावासे स्थितमनुचितारम्भनिभृतं
गुरुः खेदं खिन्ने मयि भजति नाद्यापि कुरुषु ॥१५॥
अत्र मयि न योग्यः खेदः कुरुषु तु योग्य इति काक्वा प्रका-
श्यते । न च वाच्यसिद्ध्यङ्गमत्र काकुरिति गुणीभूतव्यङ्ग्यत्वं
शङ्क्यम् । प्रश्नमात्रेणापि काकोर्विश्रान्तेः ।