काव्यप्रकाश (आचार्य मम्मट - सम्पूर्ण १० उल्लास सटीक)
Kavyaprakasha of Mammata with Hindi Commentary
आचार्य मम्मट / पं. विश्वेश्वर सिद्धान्तशिरोमणि द्वारा
पृष्ठ 562, कुल 616 में से
संदर्भ में पढ़ेंAPPENDIX A V
P. 105, L. 6. रतिकेलिहृतनिवसनकरकिसलयरुद्धनयनयुगलस्य ।
रुद्रस्य तृतीयनयनं पार्वतीपरिचुम्बितं जयति ॥९७॥
P. 108, L. 6. ग्रामरुहास्मि ग्रामे वसामि नगरस्थितिं न जानामि ।
नागरिकाणां पतीन् हरामि या भवामि सा भवामि ॥१०१॥
P. 109, L. 5. तेषां गुणग्रहणानां तासामुत्कण्ठानां तस्य प्रेम्नः ।
तासां भणितीनां सुन्दर ईदृशं जातमवसानम् ॥१०२॥
P. 117, L. 2. क्षणप्राघुणिका देवर जायया सुभग किमपि ते भणिता ।
रोदिति गृहपश्चाद्भागवलभीगृहेऽनुनीयतां वराकी ॥१११॥
P. 132, L. 2. वानीरकुञ्जजोड्डीनशकुनिकोलाहलं शृण्वन्त्याः ।
गृहकर्मव्यापृताया वध्वः सीदन्त्यङ्गानि ॥१३२॥
P. 151, L. 4. कस्य वा न भवति रोषो दृष्ट्वा प्रियाया सव्रणमधरम् ।
सभ्रमरपद्माघ्रायिणि वारितवामे सहस्वेदानीम् ॥१३५॥
P. 154, L. 6. श्वशूरत्र निमज्जति अत्राहं दिवसके प्रलोकय ।
मा पथिक रात्र्यन्धक शय्यायामावयोरनिमङ्क्ष्यसि ॥१३६॥
P. 156, L. 3. विपरीतरते लक्ष्मीर्ब्रह्माणं दृष्ट्वा नाभिकमलस्थम् ।
हरेर्दक्षिणनयनं रसाकुला झटिति स्थगयति ॥१३७॥
P. 158, L. 4. भ्रम धार्मिक विश्रब्धः स शूनकोऽद्य मारितस्तेन ।
गोदानदीकच्छकुञ्जवासिना दृप्तसिंहेन ॥१३८॥
P. 213, L. 6. यत् परिहर्तुं तीर्यते मनागपि न सुन्दरत्वगुणेन ।
अथ केवलं यस्य दोषः प्रतिपक्षैरपि प्रतिपन्नः ॥२१६॥
P. 273, L. 2. पुष्पोत्करं कलमभक्तनिभं वहन्ति
ये सिन्धुवारविटपा मम वल्लभास्ते ।
ये गालितस्य महिषीदध्नः सदृक्षा
स्तेकिं च मुग्धविचकिलप्रसूनपुञ्जाः ॥ ३०९ ॥
P. 277, L. 1. तदा जायन्ते गुणाः यदा ते सहृदयैर्गृह्यन्ते ।
रविकिरणानुगृहीतानि भवन्ति कमलानि कमलानि ॥३१५॥
P. 278, L. 7. भवाम्यपहस्तितेरेखो निरङ्कुशोऽथ विवेकरहितोऽपि ।
स्वप्नेऽपि त्वयि पुनः प्रतीहि भक्तिं न प्रस्मरामि ॥३२०॥
P. 283, L. 9. निभृतरमणे लोचनपथे पतिते गुरुजनमध्ये ।
सकलपरिहारहृदया वनगमनमेवेच्छति वधूः ॥३२८॥
चित्ते विघटते...३४४
मम देहि रसं धर्मे तमोवशां आशां गमागमात् हर नः ।
हरवधुः शरणं त्वं चित्तमोहोऽपसरतु मे सहसा ॥३७२॥