सामग्री पर जाएँ
सर्वकोश
काव्यप्रकाश (आचार्य मम्मट - सम्पूर्ण १० उल्लास सटीक)

काव्यप्रकाश (आचार्य मम्मट - सम्पूर्ण १० उल्लास सटीक)

Kavyaprakasha of Mammata with Hindi Commentary

आचार्य मम्मट / पं. विश्वेश्वर सिद्धान्तशिरोमणि द्वारा

DevanagariSanskritpublished616 पृष्ठ

पृष्ठ 563, कुल 616 में से

संदर्भ में पढ़ें
पृष्ठ 563

vi KĀVYAPRAKĀŚA
P. 302, L. 7. चित्ते विघटते न त्रुट्यति सा गुणेषु
शय्यासु लुठति विसर्पति दिङ्मुखेषु ।
वचने वर्तते प्रवर्तते काव्यबन्धे
ध्यानेन त्रुट्यति चिरं तरुणी प्रगल्भा ।। ३४३ ।।
P. 357, L. 2. सकलकरणपरविश्रामश्रीवितरणं न सरसकाव्यस्य ।
दृश्यतेऽथ वा निशम्यते सदृशमंशांशमात्रेण ।।४००।।
P. 361, L. 2. दुण्टुणायमानो मरिष्यसि कण्टककलितानि केतकीवनानि ।
मालतीकुसुमसदृक्षं भ्रमर भ्रमन् न प्राप्स्यसि ।।४०७।।
P. 371, L. 1. यस्य रणान्तःपुरे करे कुर्वतो मण्डलाग्रलताम् ।
रससंमुख्यपि सहसा पराङ्मुखी भवति रिपुसेना ।।४२२।।
P. 380, L. 5. लब्ध्वा तव बाहुस्पर्शं यस्याः स कोऽप्युल्लासः ।
जयलक्ष्मीस्तव विरहे न खलूज्ज्वला दुर्बला ननु सा ।।४३४।।
P. 391, L. 2. अन्यत्सौकुमार्यम् अन्यैव च कापि वर्तनच्छाया ।
श्यामा सामान्यप्रजापतेः रेखैव च न भवति ।।४५०।।
P. 395, L. 1. कृपणानां धनं नागानां फणमणिः केसरा सिंहानाम् ।
कुलबालिकानां स्तनाः कुतः स्पृश्यन्तेऽमृतानाम् ।।४५७।।
P. 403, L. 2. ए एहि किमपि कस्या अपि कृते निष्कृप भणामि अलमथ वा ।
अविचारितकार्यारम्भकारिणी म्रियतां न भणिष्यामि ।।४७१।।
P. 413, L. 3. सह दिवसनिशाभिर्दीर्घाः श्वासदण्डाः
सह मणिबलयैर्बाष्पधारा गलन्ति ।
तव सुभग वियोगे तस्या उद्विग्नायाः
सह च तनुलतया दुर्बला जीविताशा ।।४९५।।
P. 425, L. 5. तत्तेषां श्रीसहोदररत्नभरणे हृदयमेकरसम् ।
बिम्बाधरे प्रियाणां निवेशितं कुसुमबाणेन ।।५१५।।
P. 433, L. 8. हंसानां सरोभिः श्रीः सार्यते अथ सरसां हंसैः ।
अन्योन्यमेव एते आत्मानं केवलं गरयन्ति ।।५२७।।
P. 434, L. 5. वाणिजक हस्तिदन्ताः कुतोऽस्माकं व्याघ्रकृत्तयश्च ।
यावत् लुलितालकमुखी गृहे परिष्वक्कते स्नुषा ।।५२८।।
P. 435, L. 4. का विषमा दैवगतिः किं लब्धव्यं यत् जनो गुणग्राही ।
किं सौख्यं सुकलत्रं किं दुःखं यत् खलो लोकः ।।५२९।।
P. 438, L. 5. यस्यैव व्रणस्तस्यैव वेदना भणति तज्जनोऽलीकम् ।
दन्तक्षतं कपोले वध्वाः वेदना सपत्नीनाम् ।।५३३।।