सामग्री पर जाएँ
सर्वकोश
काव्यप्रकाश (आचार्य मम्मट - सम्पूर्ण १० उल्लास सटीक)

काव्यप्रकाश (आचार्य मम्मट - सम्पूर्ण १० उल्लास सटीक)

Kavyaprakasha of Mammata with Hindi Commentary

आचार्य मम्मट / पं. विश्वेश्वर सिद्धान्तशिरोमणि द्वारा

DevanagariSanskritpublished616 पृष्ठ

पृष्ठ 561, कुल 616 में से

संदर्भ में पढ़ें
पृष्ठ 561

iv KĀVYAPRAKĀSA
P. 86. L. 1. या स्थविरमिव हसन्ती कविवदनाम्बुरुहबद्धविनिवेशा ।
दर्शयति भुवनमण्डलमन्यदिव जयति सा वाणी ॥६७॥
P. 86. L. 6. ये लङ्कागिरिमेखलासु स्खलिताः संभोगखिन्नोरगी-
स्फारोत्फुल्लफणावलीकवलने प्राप्ता दरिद्रत्वम् ।
त इदानीं मलयानििला विरहिणीनिःश्वाससंपर्किणो
जाता झटिति शिशुत्वेऽपि बहलास्तारुण्यपूर्णा इव ॥६८॥
P. 87, L. 3. सखि विरचय मानस्य मम धीरत्वेनाश्वासम् ।
प्रियदर्शनविशृङ्खलक्षणे सहसेति तेनापसृतम् ॥६९॥
P. 87, L. 7. आर्द्रार्द्रकरजरदनक्षतस्तव लोचनयोर्मम दत्तम् ।
रक्तांशुकं प्रसादः कोपेन पुनरिमे नाक्रान्ते ॥७०॥
P. 88, L. 4. महिलासहस्सभरिते तव हृदये सुभग सा अमान्ती ।
अनुदिनमनन्यकर्मा अङ्गं तनुकमपि तनयति ॥७१॥
P. 92, L. 5. खलव्यवहारा दृश्यन्ते दारुणा यद्यपि तथापि धीराणाम् ।
हृदयवयस्यबहुमता न खलु व्यवसाया विमुह्यन्ति ॥७४॥
P. 97, L. 1. तव वल्लभस्य प्रभात आसीदधरो म्लानकमलदलम् ।
इति नववधूः श्रुत्वा करोति वदनं महीसंमुखम् ॥८३॥
P. 97, L. 6. रात्रीषु चन्द्रधवलासु ललितमास्फाल्य यश्चापम् ।
एकच्छत्रमिव करोति भुवनराज्यं विजृम्भमाणः ॥८४॥
P. 98, L. 8. वार्यमाणोऽपि पुनः संतापकर्दथितेन हृदयेन ।
स्तनभरवयस्येन विशुद्धजातिर्न चलत्यस्या हारः ॥८६॥
P. 99, L. 2. स मुग्धश्यामलाङ्गो धम्मिल्लः कलितललितनिजदेहः ।
तस्याः स्कन्धाद्गलन्न गृहीत्वा स्मरः सुरतसंगरे जयति ॥८७॥
P. 99, L. 8. नवपूर्णिमामृगाङ्कस्य सुभग कस्स्वमसि भण मम सत्यम् ।
का सौभाग्यसमग्रा प्रदोषरजनीव तवाद्य ॥८८॥
P. 100, L. 3. सखि नवनिधुवनसमरेऽङ्कपालीसह्या निबिड्या ।
हारो निवारित एवोच्छ्रियमाणस्ततः कथं रमितम् ॥८९॥
P. 101, L. 1. प्रविशन्ती गृहद्वारं विवलितवदना विलोक्य पन्थानम् ।
स्कन्धे गृहीत्वा घटं हा हा नष्ट इति रोदिषि सखि किमिति ॥९०॥
P. 101, L. 6. विशृङ्खलां त्वां सखि दृष्ट्वा कुटेन तरलतरदृष्टिम् ।
द्वारस्पर्शमिषेण चात्मा गुरुक इति पातयित्वा विभिन्नः ॥९१॥
P. 102, L. 3. ज्योत्स्नया मधुरसेन च वितीर्णतारुण्योत्सुकमनाः सा ।
वृद्धापि नवोढेव परवधूररहह हरति तव हृदयम् ॥९२॥