काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)
Kavyamimamsa of Rajasekhara with Hindi Commentary
महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा
पृष्ठ 62, कुल 381 में से
संदर्भ में पढ़ेंवः काव्यसर्वस्वं भविष्यतीत्यभिधाय भगवती भवानी जोषमासिष्ट।
तेऽपि तथा कर्तुमवतस्थिरे ।
अथ सर्वे प्रथमं प्राचीं दिशं शिश्रियुर्यत्राङ्गवङ्गसुह्मब्रह्मपुण्ड्राद्या
जनपदाः । तत्राभियुञ्जाना तन्मौमेयी यं वेषं यथेष्टमसेविष्ट स
तत्रत्याभिः स्त्रीभिरन्वक्रियत । सा प्रवृत्तिरौड्रमागधी । तां ते
मुनयोऽभितुष्टुवुः—
“आद्रार्द्रचन्दनकुचार्पितसूत्रहारः
सीमन्तचुम्बिसिचयः स्फुटबाहुमूलः ।
दूर्वाप्रकाण्डरुचिरास्वगुरूपभोगा-
द्रौडाङ्गनासु चिरमेष चकास्तु वेषः ॥”
यदृच्छयाऽपि यादृङ्नेपथ्यः स सारस्वतेय आसीत् तद्वेषाश्च पुरुषा
बभूवुः । साऽपि सैव प्रवृत्तिः । यदपरं वृत्तवाद्यादिकमेषा चक्रे सा
भारती वृत्तिः । तां ते मुनय इति समानं पूर्वेण । तथाविधाकल्प-
यापि तया यद्वशंवदीकृतः समासवदनुप्रासवद्योगवृत्तिपरम्परा-
गर्भं जगाद सा गौडीया रीतिः । तां ते मुनय इति समानं पूर्वेण ।
वृत्तिरीतिस्वरूपं यथावसरं वक्ष्यामः ।
ततश्च स पञ्चालान्प्रत्युच्चचाल यत्र पाञ्चालशूरसेनहस्तिनापुरका-
श्मीरवाहीकबाहीकबाह्लवेयादयो जनपदाः । तत्राभियुञ्जाना तन्मौ-
मेयीति समानं पूर्वेण । सा पाञ्चालमध्यमा प्रवृत्तिः । तां ते मुन-
योऽभितुष्टुवुः—
“ताटङ्कवल्गनतरङ्गितगण्डलेख-
मानाभिलम्बिदरदोलिततारहारम् ।
आश्रोणिगुल्फपरिमण्डलितोत्तरीयं
वेषं नमस्यत महोदयसुन्दरीणाम् ॥”
किञ्चिदार्द्रितमना यन्नेपथ्यः स सारस्वतेय आसीदिति समानं
पूर्वेण । साऽपि यदीषन्नृत्तगीतवाद्यविलासादिकं दर्शयाम्बभूव सा
सात्त्वती वृत्तिः । आविद्धगतिमत्त्वात्सा चारभटी । तां ते मुनय
इति समानं पूर्वेण । तथाविधाकल्पयाऽपि तया यदीषद्वशंवदीकृत
१ A तान्तरीयं.