काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)
Kavyamimamsa of Rajasekhara with Hindi Commentary
महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा
पृष्ठ 162, कुल 381 में से
संदर्भ में पढ़ेंकविरहस्ये अष्टादशोऽध्यायः । १०७
यद्रात्रिशेषे सुरतावतारः
स मुष्टियोगो घनघर्ममाथी ॥
या चन्द्रिका चन्दनपङ्कहृद्या
या जालमार्गानिलवीचिमाला ।
या तालवृन्तैरुदबिन्दुवृष्टि-
र्जलाञ्जलिं सा शुचये ददाति ॥
कर्पूरचूर्णं सहकारभङ्ग-
स्ताम्बूलमार्द्रक्रमूकोपक्लृप्तम् ।
हाराश्च तारास्तनुवस्त्रमेत-
न्महारहस्यं शिशिरक्रियायाः ॥
मुक्तालताश्चन्दनपङ्कदिग्धा
मृणालहारानुसृता जलार्द्राः ।
स्रजश्च मौलौ स्सि(सि)तचम्पकानां
ग्रीष्मेऽपि सोऽयं शिशिरावतारः ॥”
अत्र हि—“पच्यन्त इव भूतानि ताप्यन्त इव पांसवः ।
कथ्यन्त इव तोयानि ध्मायन्त इव चाद्रयः ॥
ऐणाः स्थलीषु मृगतृष्णिकया हियन्ते
स्रोतस्तनुत्वजनिता जलवेणिबन्धाः ।
ताम्यत्तिमीनि च सरांसि जलस्य शोषा-
दुद्धारघट्टघटिकावलयाश्च कूपाः ॥
करभाः शरभाः सरासभा
मदमायान्ति भजन्ति विक्रियाम् ।
करवीरकरीरपुष्पिणीः
स्थलभूमिरधिरुह्य चासते ॥
सहकाररसार्चिता रसाला
जलभक्तं फलपानकानि मन्थाः ।
१ V चूर्णः. २ V एण्यः. ३ A ०दुद्धारघट०.