काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)
Kavyamimamsa of Rajasekhara with Hindi Commentary
महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा
पृष्ठ 163, कुल 381 में से
संदर्भ में पढ़ें१०८ काव्यमीमांसायाम्
मृगलावरसाः शृतं च दुग्धं
सरसञ्जीवनमौषधं निदाघे ॥
जडचन्दनचारुवस्तरुण्यः
सजलार्द्राः सहतारहारमालाः ।
कदलीदलतल्पकल्पनस्थाः
स्मरमाहूय निवेशयन्ति पार्श्वे ॥
ग्रीष्मे चीरीनादवन्तो वनान्ताः
पङ्काभ्यक्ताः सैरिभाः सेभकोलाः ।
लोलजिह्वाः सर्पसारङ्गवर्गा
मूलस्रस्तैः पत्रिणश्चांसदेशैः ॥
हर्म्यं रम्यं चन्द्रिकाधौतपृष्ठं
कान्तोच्छिष्टा वारुणी वारिमिश्रा ।
मालाः कण्ठे पाटलामल्लिकानां
सद्यो ग्रीष्मं हन्त हेमन्तयन्ति ॥
ग्रीष्मः ॥
चतुरवस्थश्च ऋतुरुपनिबन्धनीयः। तद्यथा—सन्धिः, शैशवं, प्रौ-
ढिः, अनुवृत्तिश्च। ऋतुद्वयमध्यं सन्धिः। शिशिरवसन्तसन्धिर्यथा—
“च्युतसुमनसः कुन्दाः पुष्पोद्गमेष्वलसा द्रुमा
मनसि च गिरं गृह्णन्तीमे गिरन्ति न कोकिलाः।
अथ च सवितुः शीतोल्लासं लुनन्ति मरीचयो
न च जरठतामालम्बन्ते क्लमोदयदायिनीम् ॥”
वसन्तशैशवम्—
“गर्भग्रन्थिषु वीरुधां सुमनसो मध्येऽङ्कुरं पल्लवा
वाञ्छामात्रपरिग्रहः पिकवधूकण्ठोदरे पञ्चमः ।
किं च त्रीणि जगन्ति जिष्णु दिवसैर्द्वित्रैर्मनोजन्मनो
देवस्यापि चिरोज्झितं यदि भवेदभ्यासवश्यं धनुः ॥”
१ V सर्वसारङ्ग०. २ V किरन्ति.