सामग्री पर जाएँ
सर्वकोश
काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)

काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)

Kavyamimamsa of Rajasekhara with Hindi Commentary

महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा

DevanagariSanskritpublished381 पृष्ठ

पृष्ठ 161, कुल 381 में से

संदर्भ में पढ़ें
पृष्ठ 161

१०६ काव्यमीमांसायाम्
नालिङ्गितः कुरबकस्तिलको न दृष्टो
नो ताडितश्च चरणैः सुदृशामशोकः ।
सिक्तो न वक्त्रमधुना बकुलश्च चैत्रे
चित्रं तथापि भवति प्रसवावकीर्णः ॥
चैत्रे चित्रौ रक्तनीलावशोकौ
स्वर्णाशोकस्तत्तृतीयश्च पीतः ।
जैत्रं तन्त्रं तत्प्रसूनैर्नरेभ्यः
चेतोयोनेः भूर्भुवःस्वस्त्रयेऽपि ॥
गूवाकानां नालिकेरद्रुमाणां
हिन्तालानां पाटलीकिंशुकानाम् ।
खर्जूराणां ताडताडीतरूणां
पुष्पापीडन्यासहेतुर्वसन्तः ॥
वसन्तः ॥
विकाशकारी नवमल्लिकानां
दलच्छिरीषप्रसवाभिरामः ।
पुष्पप्रदः काञ्चनकेतकीनां
ग्रीष्मोऽयमुल्लासितधातकीकः ॥
खर्जूरजम्बूपनसाग्रमोच-
प्रियालपूगीफलनालिकेरैः ।
द्वन्द्वानि खेदालसताँमु(म)पास्य
रतानुसन्धानमिहाद्रियन्ते ॥
स्रोतांस्यनम्भांसि सकूपकानि
प्रपाः कठोरेऽहनि पान्थपूर्णाः ।
शुचौ सँमभ्यर्थि(र्धि)तसक्तुपाने
प्रगे च सायं च वहन्ति मार्गाः ॥
यत्कायमानेषु दिनार्द्धनिद्रा
यत्स्नानकेलिर्दिवसावसाने ।
१ V द्रुमाणां. २ V मालिकानां. ३ V ०मपास्य. ४ V समभ्यर्चितसक्तुधाने०.