काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)
Kavyamimamsa of Rajasekhara with Hindi Commentary
महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा
पृष्ठ 160, कुल 381 में से
संदर्भ में पढ़ेंकवि रहस्ये अष्टादशोऽध्यायः । १०५
पुंस्कोकिलानां सहकारबन्धुः
मदस्य कालः पुनरेष एव ॥
मनोऽधिकं चात्र विलासलासैः
प्रेङ्खासु दोलासु च सुन्दरीणाम् ।
गीते च गौरीचरितावतंसे
पूजाप्रपञ्चे च मनोभवस्य ॥
पुंस्कोकिलः कूजति पञ्चमेन
बलाद्विलासा युवतौ स्फुरन्ति ।
स्मरो वसन्तेऽत्र नवैः प्रसूनैः
स्वचापयष्टेर्घटनां करोति ॥
पिनद्धमाहारजनांशुकानां
सीमन्तसिन्दूरजुषां वसन्ते ।
स्मरीकृते प्रेयसि भक्तिभाजां
विशेषवेषः स्वदते वधूनाम् ॥
अयं प्रसूनेाद्धुरकर्णिकारः
पुष्पप्रपञ्चार्चितकाञ्चनारः ।
विजृम्भणाकोविदकोविदारः
कालो विकाशोद्यतसिन्दुवारः ॥
रोहीतकास्रातककिङ्किराता
मधूकमोचाः सह माधवीभिः ।
जयन्ति शोभाञ्जनकश्च शाखी
सकेसरैः पुष्पभरैर्वसन्ते ॥
यो माधवीमुकुलदृष्टिषु वेणिबन्धो
यः कोकिलाकलारुते कथने च लाभः ।
पूजाविधिर्दमनकेन च यः स्मरस्य
तस्मिन्मधुः स भगवान्गुरुरङ्गनानाम् ॥
१. V रजतां. २ V शेखरः. ३ V रुतेः.
१४