काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)
Kavyamimamsa of Rajasekhara with Hindi Commentary
महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा
पृष्ठ 159, कुल 381 में से
संदर्भ में पढ़ें१०४ काव्यमीमांसायाम्
पुष्पक्रिया मरुबके जलकेलिनिन्दा
कुन्दान्यशेषकुसुमेषु धुरि स्थितानि ।
सौभाग्यमेणतिलकाद्ब्रजतेऽर्कबिम्बं
काले तुषारिणि दहन्ति च चन्दनानि ॥
५ सिद्धार्थयष्टिषु यथोत्तरहीयमान-
सन्तानभिन्नघनसूचिपरम्परासु ।
द्वित्रावशेषकुसुमासु जनिक्रमेण
पाकक्रमः कपिशिमानमुपादधाति ॥
उदीच्यचण्डानिलताडितासु
१० १सुलीनमीनासु जलस्य मूले ।
नालावशेषाब्जलतास्विदानीं
विलासवापीषु न याति दृष्टिः ॥
माद्यन्मतङ्गः पृषतैकतोषी
२पुष्यद्द्वराहो धृतिमल्लुलायः ।
१५ दरिद्रनिन्द्यः ३सधनैकवन्द्यः
स एष कालः शिशिरः करालः ॥
अभिनववधूरोषस्वादुः करीषतनूनपा-
दसरलजनाश्लेषक्रूरस्तुषारसमीरणः ।
गलितविभवस्याज्ञेवाद्य द्युतिर्मसृणा रखे-
२० र्विरहिवनितावक्त्रौपम्यं बिभर्त्ति निशाकरः ॥
स्त्रियः प्रकृतिपित्तलाः क्वथितकुङ्कुमालेपनै-
र्नितम्बफलकस्तनस्थलभुजोरुमूलादिभिः ।
इहाभिनवयौवनाः सकलरात्रिसंश्लेषितै-
र्हरन्ति शिशिरज्वरारतिमतीव पृथ्वीमपि ॥”
२५ शिशिरः ॥
“चैत्रे मदद्धिः शुकसारिकाणां
हारीतदात्यूहमधुव्रतानाम् ।
१ V निलीनमीनासु. २ V B & V C पुष्यद्दराहा. ३ V C सधनैकमन्यः.