सामग्री पर जाएँ
सर्वकोश
काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)

काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)

Kavyamimamsa of Rajasekhara with Hindi Commentary

महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा

DevanagariSanskritpublished381 पृष्ठ

पृष्ठ 151, कुल 381 में से

संदर्भ में पढ़ें
पृष्ठ 151

९८ काव्यमीमांसायाम्
मुहुः पश्यञ्छृण्वन्रजनिचरसेनाकलकलं
जटाजूटग्रन्थिं द्रढयति रघूणां परिवृढः ॥”
द्वितीयः— “तासां माधवपत्नीनां सर्वासां चन्द्रवर्चसाम् ।
शब्दविद्येव विद्यानां मध्ये जज्वल रुक्मिणी ॥”
एवमन्यदपि यथासम्भवमभ्यूह्यम् ।
निगदितनयविपरीतं देशविरुद्धं वदन्ति विद्वांसः ।
तत्परिहार्यं यत्नात्तदुदाहृतयस्तु दोषेषु ॥
इत्थं देशविभागो मुद्रामात्रेण सूत्रितः सुधियाम् ।
यस्तु जिगीषत्यधिकं पश्यतु मद्भुवनकोशमसौ ॥
इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमेऽधिकरणे
देशविभागः सप्तदशोऽध्यायः ॥

अष्टादशोऽध्यायः कालविभागः ।
कालः काष्ठादिभेदभिन्नः । तथा चै¹—
काष्ठा निमेषा दश पञ्च चैव त्रिंशच्च काष्ठाः कथिताः केलेति² ।
त्रिंशत्कलश्चैव भवेन्मुहूर्त्तस्तैस्त्रिंशता राज्यहनी समेते ॥
ते च चैत्राश्वयुजमासयोर्भवतः । चैत्रात्परं प्रतिमासं मौहूर्त्तिकी
दिवसवृद्धिः निशाहानिश्च त्रिमास्याः; ततः परं मौहूर्त्तिकी निशा-
वृद्धिः दिवसहानिश्च । आश्वयुजात्परतः पुनरेतदेव विपरीतम् ।
राशितो राश्यन्तरसङ्क्रमणमुष्णभासो मासः, वर्षादि दक्षिणायनं
शिशिराद्युत्तरायणं द्व्ययनः संवत्सर इति सौरं मानम् । पञ्चद-
शाहोरात्रः पक्षः । वर्द्धमान³सोमः शुक्लो, वर्द्धमानकृष्णिमा कृष्ण
इति पित्र्यं मासमानम् । अमुना च वेदोदितः कृत्स्नोऽपि क्रिया-
कल्पः । पित्र्यमेव व्यत्ययितपक्षं चान्द्रमसम् । इदमार्‌यावर्त्तवासि-
नः कवयश्च मानमाश्रिताः । एवं च द्वौ पक्षौ मासः । द्वौ मासा-
वृत्तुः । षण्णामृतूनां परिवर्त्तः संवत्सरः । स च चैत्रादिरिति

१ V adds this line. २ V कला तु. ३ V सोमशुक्लिमा, वर्धमानसोमकृष्णिमा.