सामग्री पर जाएँ
सर्वकोश
काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)

काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)

Kavyamimamsa of Rajasekhara with Hindi Commentary

महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा

DevanagariSanskritpublished381 पृष्ठ

पृष्ठ 152, कुल 381 में से

संदर्भ में पढ़ें
पृष्ठ 152

कविरहस्ये अष्टादशोऽध्यायः । ९९
दैवज्ञाः, श्रवणादिरिति लोकयात्राविदः । तत्र नभा नभस्यश्च
वर्षाः, इष ऊर्जश्च शरत्, संहः सहस्यश्च हेमन्तः, तपस्तपस्यश्च
शिशिरः, मधुर्माधवश्च वसन्तः, शुक्रः शुचिश्च ग्रीष्मः । तत्र
“वर्षासु पूर्वो वायुः” इति कवयः। “पाश्चात्यः, पौरस्त्यस्तु प्रतिहन्ता”
इत्याचार्याः । ५
तदाहुः- “पुरोवाता हता प्रावृट् पश्चाद्वाता हता शरत्” इति ।
तदाहुः- “प्रावृष्यम्भोभृताम्भोदभरनिर्भरमम्बरम् ।
कादम्बकुसुमामोदा वायवो वान्ति वारुणाः ॥”
“वस्तुवृत्तितरतन्त्रं, कविसमयः प्रमाणम्” इति यायावरीयः ।
तदाहुः- “पौरस्त्यस्तोयदत्तोः पवन इव पतन्पावकस्येव धूमो १०
विश्वस्येवादिसर्गः प्रणव इव परं पावनं वेदराशेः ।
सन्ध्यावृत्तोत्सवेच्छोरिव मदनरिपोर्नन्दिनान्दीनिनादः
सौरस्याग्रे सुखं वो वितरतु विनतानन्दनः स्यन्दनस्य ॥”
शरद्यनियतदिक्को वायुर्यथा-
“उषःसु ववुराकृष्टजडावश्यायशीकराः । १५
शेफालीकलिकाकोशकषायामोदिनोऽनिलाः ॥”
“हेमन्ते पाश्चात्यो वायुः” इत्येके । “उदीच्य” इत्यपरे ।
“उभयमपि” इति यायावरीयः । तयोः पाश्चात्यः-
“भञ्जन्भूर्जद्रुमालीस्तुहिनगिरितटेपूद्गतास्त्वक्करालाः
रेवाम्भःस्थूलवीचीचयचकितचलच्चातकान् व्याधुनानः । २०
पाश्चात्यो वाति वेगाद्रुततुहिनशिलाशीकरासारवर्षी
मातङ्गक्षुण्णसान्द्रस्रुतरसरलतरत्सारसारी समीरः ॥”
उदीच्यः-
“लम्पाकीनां किरन्तश्चिकुरविरचनां रल्लकांल्लासयन्तः
चुम्बन्तश्चन्द्रभागासलिलमविकलं भूर्जकाण्डैकचण्डाः । २५
एते कस्तूरिकैणप्रणयसुरभयो वल्लभा बाल्हवीनां
कौतूतीकेलिकाराः परिचितहिमं वायवो वान्त्युदीच्याः ॥”
१ V सहाः. २ V कदम्ब. ३ V B & V C विश्वस्येवादिमार्गः. ४ V A & V
B सरत्सारसारी. ५ V B & V C चन्द्रभागां विवितसुमनसः कुङ्कुमान् कम्पयन्तः.