काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)
Kavyamimamsa of Rajasekhara with Hindi Commentary
महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा
पृष्ठ 150, कुल 381 में से
संदर्भ में पढ़ेंकवि रहस्ये सप्तदशोऽध्यायः। ९७
दाक्षिणात्यकृष्णता-“इदं भासां भर्तुहृतकनकगोलप्रतिकृति
क्रमान्मन्दज्योतिर्गलति नभसो बिम्बवलयम्।
अथैष प्राचींतः सरति मुरलीगण्डमलिन-
स्तरुच्छायाचक्रैः स्तबकित इव ध्वान्तविसरः॥”
पाश्चात्यपाण्डुता-“शाखास्मेरं मधुकवलनाकेलिलोलेक्षणानां
भृङ्गस्त्रीणां बकुलमुकुलं कुन्तलीभावमेति।
किं चेदानीं यवनतरुणीपाण्डुगण्डस्थलीभ्यः
कान्तिः स्तोकं रचयति पदं नागवल्लीच्छदेषु॥”
उदीच्यगौरता-“पुष्पैः सम्प्रति काञ्चनारतरवः प्रत्यङ्गमRow/आलिङ्गिताः
वाल्हीकीदशनव्रणारुणतरैः पत्रैरशोकोऽर्चितः।
जातं चम्पकमप्युदीच्यललनालावण्यचौर्यक्षमं
माञ्जिष्ठैर्मुकुलैश्च पाटलतरोरन्यैव काचिल्लिपिः॥”
यथा वा-“काश्मीरीगात्रलेखासु लोलल्लावण्यवीचिषु।
द्रावयित्वेव विन्यस्तं स्वर्णं षोडशवर्णकम्॥”
मध्यदेश्यकृष्णता यथा-
“युधिष्ठिरक्रोधवह्नेः कुरुवंशैकदाहिनः।
पाञ्चालीं ददृशुः सर्वे कृष्णां धूमशिखामिव॥”
तदून्मध्यदेश्यश्यामता। न च कविमार्गे श्यामकृष्णयोः पाण्डु-
गौरयोर्वा महान्विशेष इति कविसमयेष्ववोचाम।
मध्यदेश्यगौरता-
“तव नवनवनीतपिण्डगौरे प्रतिफलदुत्तरकोसलेन्द्रपुत्र्याः।
अवगतमलिके मृगाङ्कबिम्बं मृगमदपत्रनिभेन लाञ्छनेन॥”
विशेषस्तु पूर्वदेशे राजपुत्र्यादीनां गौरः पाण्डुर्वा वर्णः। एवं
दक्षिणदेशेऽपि।
तत्र प्रथमः-“कपोले जानक्याः करिकलभदन्तद्युतिमुषि
स्मरस्मेरः स्फारोडरमरपुलक॑ वक्त्रकमलम्।
१ V प्राचीनः. २ V नागवल्लीदलेषु. ३ V कोसलेन्दुपुत्रि. B पुत्रिकायाः ४ A कै.