काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)
Kavyamimamsa of Rajasekhara with Hindi Commentary
महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा
पृष्ठ 149, कुल 381 में से
संदर्भ में पढ़ें[Page Header]
९६ काव्यमीमांसायाम्
उत्तरा— "अस्त्युत्तरस्यां दिशि देवतात्मा
हिमालयो नाम नगाधिराजः ।
पूर्वापरौ तोयनिधी विगाह्य
स्थितः पृथिव्या इव मानदण्डः ॥"
विशिष्टस्थानावधौ तु दिग्विभागे पूर्वपश्चिमौ यथा—
"यादांसि हे चरत संगतगोत्रतन्त्रं
पूर्वेण चन्दनगिरेरुत पश्चिमेन ।
नो चेन्निरन्तरधराधरसेतुसृति-
राकल्पमेष न विरंस्यति वो वियोगः ॥
दक्षिणोत्तरौ यथा—"काञ्च्याः पुरो दक्षिणदिग्विभागे
तथोत्तरस्यां दिशि वारिराशेः ।
कर्णान्तचक्रीकृतचारुचापो
रत्या समं साधु वसत्यनङ्गः ॥"
उत्तरादावप्युत्तरदिगभिधानं, अनुत्तरादावप्युत्तरदिगभिधानम् ।
तयोः प्रथमम्—"तत्रागारं धनपतिगृहानुत्तरेणास्मदीयं
दूराल्लक्ष्यं सुरपतिधनुश्चारुणा तोरणेन ।
यस्योद्याने कृतकतनयः कान्तया वर्द्धितो मे
हस्तप्राप्यः स्तबकविनतो बालमन्दारवृक्षः ॥"
द्वितीयम्—"सह्याद्रेरुत्तरे भागे यत्र गोदावरी नदी ।
पृथिव्यामिह कृत्स्नायां स प्रदेशो मनोरमः ॥"
एवं दिगन्तरेष्वपि । तत्र देशपर्वतनद्यादीनां दिशां च यः क्रमस्तं
तथैव निबध्नीयात् । साधारणं तूभयत्र लोकप्रसिद्धितश्च ।
तद्वर्णनियमः । तत्र पौरस्त्यानां श्यामो वर्णः, दाक्षिणात्यानां
कृष्णः, पाश्चात्यानां पाण्डुः, उदीच्यानां गौरः, मध्यदेश्यानां
कृष्णः श्यामो गौरश्च ।
पौरस्त्यश्यामता—"श्यामेष्वङ्गेषु गौडीनां सूत्रहारैकहारिषु ।
चक्रीकृत्य धनुः पौष्पमनङ्गो वल्गु वल्गति ॥"
[Footnotes]
१ B पुष्प. २ B तो.