काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)
Kavyamimamsa of Rajasekhara with Hindi Commentary
महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा
पृष्ठ 146, कुल 381 में से
संदर्भ में पढ़ेंतत्र द्रुमा विद्रुमनामधेया
वंशेषु मुक्ताफलजन्म तत्र ।
मदोत्कटैः केसरिकण्ठनादैः
स्फुटन्ति तस्मिन्धनसारवृक्षाः ॥”
तृतीयः— “विलासभूमिः सकलामराणां
पदं नृणां गौर्मुनिपुङ्गवस्य ।
सदाफलैः पुष्पलताप्रवालै-
राश्चर्यमूलं मलयः स तत्र ॥”
चतुर्थः— “सा तत्र चामीकररत्नचित्रेः
प्रासादमालावलभीविटङ्कैः ।
द्वारार्गलाबद्धसुरेश्वराज्ञा
लङ्केति या रावणराजधानी ॥
प्रवर्त्तते कोकिलनादहेतुः
पुष्पप्रसूः पञ्चमजन्मदायी ।
तेभ्यश्चतुर्भ्योऽपि वसन्तमित्र-
मुदङ्मुखो दक्षिणमातरिश्वा ॥”
पूर्वापरयोः समुद्रयोर्हिमवद्विन्ध्ययोश्चान्तरमार्यावर्त्तः । तस्मिं-
श्चातुर्वर्ण्यं चातुराश्रम्यं च । तन्मूलश्च सदाचारः । तत्रत्यो व्यवहारः
प्रायेण कवीनाम् ।
तत्र वाराणस्याः पुरतः पूर्वदेशः । यत्राङ्गकलिङ्गकोसलतोसलोत्क-
लमगधमुद्गरविदेहनेपालपुण्ड्रप्राग्ज्योतिषताम्रलिप्तकमलदैमल्लवर्त्तक-
सुह्मब्रह्मोत्तरप्रभृतयो जनपदाः । बृहद्गृहलोहितगिरिचकोरदर्दुरनेपा-
लकामरूपाद्यः पर्वताः । शोणलौहित्यौ नदौ । गङ्गाकरतोयाकपि-
शाद्याश्च नद्यः । लवलीग्रन्थिपर्णकागुरुद्राक्षाकस्तुरिकादीनामुत्पादः ।
माहिष्मत्याः परतो दक्षिणापथः । यत्र महाराष्ट्रमाहिषकाश्म-
कविदर्भकुन्तलक्रथकैशिकसूर्पारकाञ्चीकेरलकावेरमुशलवानवासक-
सिंहलचोर्डदण्डकपाण्ड्यपल्लवगाङ्कनासिक्यकौङ्कणकोल्लगिरिवल्लार-
(ल)प्रभृतयो जनपदाः । विन्ध्यदक्षिणपादमहेन्द्रमलयमेकलपाल्म-
१ V पुष्पलतावितानैः. २ V A परतः. ३ V मलजद. ४ V माहिष्मक. ५ V
वैदर्भ. ६ V चौड. ७ V वेल्लुर. A वल्लर.