सामग्री पर जाएँ
सर्वकोश
काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)

काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)

Kavyamimamsa of Rajasekhara with Hindi Commentary

महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा

DevanagariSanskritpublished381 पृष्ठ

पृष्ठ 145, कुल 381 में से

संदर्भ में पढ़ें
पृष्ठ 145

९२ काव्यमीमांसायाम्
तमेनमवधीकृत्य देवेनाम्बुजजन्मना ।
तिर्यगूर्ध्वमधस्ताच्च विश्वस्य रचना कृता ॥
स भगवान्मेरुराद्यो वर्षपर्वतः । तस्य चतुर्दिशमिलावृतं वर्षम् ।
तस्योत्तरेण त्रयो वर्षगिरयः, नीलः श्वेतः शृङ्गवांश्च । रम्यकं,
हिरण्मयम्, उत्तराः कुरव इति च क्रमेण त्रीणि तेषां वर्षाणि ।
दक्षिणेनापि त्रय एव निषधो हेमकूटो हिमवांश्च । हरिवर्षं, किं-
पुरुषं, भारतमिति च त्रीणि वर्षाणि । तत्रेदं भारतं वर्षम् । अस्य च
नव भेदाः। इन्द्रद्वीपः, कसेरुमान्, ताम्रपर्णी, गभस्तिमान्, नाग-
द्वीपः, सौम्यो, गन्धर्वो, वरुणः, कुमारीद्वीपश्वायं नवमः। पञ्चशतानि
जलं, पञ्च स्थलमिति विभागेन प्रत्येकं योजनसहस्रावधयो दक्षिणा-
त्समुद्रादद्रिराजं हिमवन्तं यावत्परस्परमगम्यास्ते । तान्येतानि यो
जयति स सम्राडित्युच्यते । कुमारीपुरात्प्रभृति बिन्दुसरोऽवधि योज-
नानां दशशती चक्रवर्त्तिक्षेत्रम् । तां विजयमानश्चक्रवर्त्ती भवति ।
चक्रवर्त्तिचिह्नानि तु—“चक्रं रथो मणिर्भार्या निधिरश्वो गजस्तथा ।
प्रोक्तानि सप्त रत्नानि सर्वेषां चक्रवर्त्तिनाम् ॥”
अत्र च कुमारीद्वीपे—“विन्ध्यश्च पारियात्रश्च शुक्तिमानृक्षपर्वतः ।
महेन्द्रसह्यमलयाः सप्तैते कुलपर्वताः ॥”
तत्र विन्ध्यादयः प्रतीतस्वरूपाः । मलयविशेषास्तु चत्वारः ।
तेषु प्रथमः— “आ मूलयष्टेः फणिवेष्टितानां
सचन्दनानां जननन्दनानाम् ।
कक्कोलकैलामरिचैर्युतानां
जातीतरूणां च स जन्मभूमिः ॥”
द्वितीयः— “यस्योत्तमां मौक्तिककामधेनु-
रुप्रत्यकामर्चति ताम्रपर्णी ।
रत्नेश्वरो रत्नमहानिधानं
कुम्भोद्भवस्तं मलयं पुनाति ॥


१ A and V B ब्रह्मणा पुण्यकर्मणा. २ V वर्षमन्त्यमस्य च. ३ V A and V B drop अद्रिराजं. ४ V कुमारीद्वीपे च.