सामग्री पर जाएँ
सर्वकोश
काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)

काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)

Kavyamimamsa of Rajasekhara with Hindi Commentary

महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा

DevanagariSanskritpublished381 पृष्ठ

पृष्ठ 144, कुल 381 में से

संदर्भ में पढ़ें
पृष्ठ 144

कविरहस्ये सप्तदशोऽध्यायः । ९१
लावणो रसमयः सुरोदकः सर्पिषो दधिजलः पयःपयाः ।
स्वादुवारिरुदधिश्च सप्तमस्तान्परीत्य त इमे व्यवस्थिताः ॥”
“एक एवायं लावणः समुद्रः” इत्येके ।
तदाहुः— “द्वीपान्यष्टादशात्र क्षितिरपि नवभिर्विस्तृता खाङ्गखण्डै-
रेकोऽम्भोधिर्दिगन्तप्रविसृतसलिलः प्राज्यमेतत्सुराज्यम् ।
कस्मिन्नप्याजिकेलिव्यतिकरविजयोपार्जिते वीरव(च)र्ये
चक्रे पुञ्जेन दातुं तदिदमिति धिया वेधसे यश्चकोप ॥”
“त्रयः” इत्यन्ये ।
तदाहुः— “आकम्पितक्षितिभृता महता निकामं
हेलाभिभूतजलधित्रितयेन यस्य ।
वीर्येण संहतिभिदा विहँतोन्नतेन
कल्पान्तकालविसृतः पवनोऽनुचक्रे ॥”
यथा वा—“मातङ्गानामभावे मदमलिनमुखैः प्राप्तमाशाकरीन्द्रैः
जाते रत्नापहारे दिशि दिशि ततयो भान्ति चिन्तामणीनाम् ।
छिन्नेषूद्यानवापीतरुषु विरचिताः कल्पवृक्षा रिपूणां
यस्योदश्वत्त्रिवेलावलयफलभुजां मानसी सिद्धिरासीत् ॥”
“चत्वारः” इत्यपरे ।
तदाहुः— “चतुःसमुद्रवेलोर्मिरचितैकावलीलतम् ।
मेरुमप्यद्रिमुल्लङ्घ्य यस्य क्वापि गतं यशः ॥”
“भिन्नाभिप्रायतया सर्वमुपपन्नम्” इति यायावरीयः । सप्तसमु-
द्रीवादिनस्तु शास्त्रादनपेता एव ।
तदाहुः— “आगस्त्यचुलुकोच्छिष्टसप्तवारिधिवारिणि ।
मुहूर्त्तं केशवेनापि तदन्तः पूतरायितम् (?) ॥
“कविप्रसिद्ध्या वाऽविमृष्टपरमार्थं सर्वमुपपन्नम्” (इति या-
यावरीयः । )
मध्येजम्बूद्वीपमाद्यो गिरीणां
मेरुर्नाम्ना काञ्चनः शैलराजः ।
यो मूर्त्ता(योऽमर्त्या)नामौषधीनां निधानं
यश्चावासः सर्ववृन्दारकाणाम् ॥


१ V प्रस्सरो०. २ V पर्यासं मे न दातुः ३ V विहितो०. ४ V अगस्त्यचुलकोत्क्षिप्त०.
५ V तरता पूतरायितम्. ६ V adds here this line.