सामग्री पर जाएँ
सर्वकोश
काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)

काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)

Kavyamimamsa of Rajasekhara with Hindi Commentary

महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा

DevanagariSanskritpublished381 पृष्ठ

पृष्ठ 143, कुल 381 में से

संदर्भ में पढ़ें
पृष्ठ 143

तदाहुः- "रुणद्धि रोदसी वा (चा) स्य यावत्कीर्त्तिरनश्वरी ।
तावत्किलायमध्यास्ते सुकृती वैबुधं पदम् ॥"
"स्वर्ग्यमर्त्यपातालभेदात्त्रीणि जगन्ति" इत्येके ।
यदाहुः- "त्वमेव देव पातालमाशानां त्वं निबन्धनम् ।
त्वं चामरमरुद्भूमिरेको लोकत्रयायसे ॥"
"तान्येव भूर्भुवःस्वः" इत्यन्ये ।
तदाहुः- "नमस्त्रिभुवनाभोगधृतिखेदभरादिव ।
नागनाथाङ्गपर्यङ्कशायिने शार्ङ्गधन्वने ॥"
"महर्जनस्तपःसत्यमित्येतैः सह सप्त" इत्यपरे ।
तदाहुः- "संस्तम्भिनी पृथुनितम्बतटैर्धरित्र्याः
संवाहिनी जलमुचां चलकेतुहस्तैः ।
हर्षस्य सप्तभुवनप्रथितोरुकीर्त्तेः
प्रासादपङ्क्तिरियमुच्छिखरा विभाति ॥"
"तानि सप्तभिर्वायुस्कन्धैः सह चतुर्दश" इति केचित् ।
तदाहुः- "निरवधि च निराश्रयं च यस्य
स्थितमनुवर्त्तितकौतुकप्रपञ्चम् ।
प्रथम इह भवान्स कूर्ममूर्ति-
र्जयति चतुर्दशलोकवल्लिकन्दः ॥"
"तानि सप्तभिः पातालैः सहैकविंशतिः" इति केचित् ।
तदाहुः- "हरहासहरावासहरहारनिभप्रभाः ।
कीर्त्तयस्तव लिम्पन्तु भुवनान्येकविंशतिम् ॥"
"सर्वमुपपन्नम्" इति यायावरीयः । अविशेषविवक्षा यदेकयति
विशेषविवक्षात्वनेकयति । तेषु भूर्लोकः पृथिवी । तत्र सप्त महा-
द्वीपाः ।
"जम्बूद्वीपः सर्वमध्ये ततश्च प्लक्षो नाम्ना शाल्मलोऽतः कुशोऽतः ।
क्रौञ्चः शाकः पुष्करश्चेत्यथैषां बाह्या बाह्या संस्थितिर्मण्डलीभिः ॥


पाद-टिप्पणी (Footnotes):
१ V स्वर्गमृत्यु०. २ V लोकत्रयात्मकः. ३ V भोगधृति०. ४ V शार्ङ्गधन्विने. ५ V
स्थितमनिवर्तित०.