सामग्री पर जाएँ
सर्वकोश
काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)

काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)

Kavyamimamsa of Rajasekhara with Hindi Commentary

महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा

DevanagariSanskritpublished381 पृष्ठ

पृष्ठ 142, कुल 381 में से

संदर्भ में पढ़ें
पृष्ठ 142

कविरहस्ये सप्तदशोऽध्यायः । ८९
यथा च—"तं शम्बरासुरशराशनिशल्यसारं१
केयूररत्नकिरणारुणबाहुदण्डम् ।
पीनांसलग्नदयिताकुचपत्रभङ्गं
मीनध्वजं जितजगत्त्रितयं जयेत्कः ॥"
यथा च—"अस्ति२ दैत्यो हयग्रीवः सुहृद्वेश्मासु यस्य ताः । ५
प्रथयन्ति बलं बाहोः सितच्छत्रस्सिताः श्रियः ॥"
यथा च हयग्रीवं प्रति—
"दानवाधिपते भूयो भुजोऽयं किं न नीयते ।
सहायतां कृतान्तस्य क्षयाभिप्रायसिद्धिषु ॥"
यथा च—"३महासुरसमाजेऽस्मिन् न चैकोऽप्यस्ति सोऽसुरः । १०
यस्य नाशनिनिष्पेष४नीराजितमुरःस्थलम् ॥"
एवमन्येपि भेदाः—सोऽयं कवीनां समयः काव्ये सुप्त इव स्थितः ।
स साम्प्रतमिहास्माभिर्यथाबुद्धि विबोधितः ॥
इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमेऽधिकरणे
स्वर्ग्यपातालीयकविरहस्यस्थापना षोडशोऽध्यायः ॥ १५
सप्तदशोऽध्यायः देशविभागः ।
देशं कालं च विभजमानः कविर्नार्थदर्शनदिशि दरिद्राति ।
जगज्जगदेकदेशाश्च देशः । "द्यावापृथिव्यात्मकमेकं जगत्"इत्येके ।
तदाहुः—"हलमनु बलस्यैकोऽनड्डान्हरस्य न लाङ्गलं
क्रमपरिमिता भूमिर्विष्णोर्न गौर्न च लाङ्गलम् । २०
प्रैवहति कृषिर्नाद्याप्येषां द्वितीयगवं विना
जगति सकले नेहग्दृष्टं दरिद्रकुटुम्बकम् ॥"
"दिवस्पृथिव्यौ द्वे जगती" इत्यपरे ।
१ B V सारके. २ V आसीहै. ३ C महासुरसमाजेषु. ४ C निष्पेष०. ५ V प्रभवति.