सामग्री पर जाएँ
सर्वकोश
काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)

काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)

Kavyamimamsa of Rajasekhara with Hindi Commentary

महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा

DevanagariSanskritpublished381 पृष्ठ

पृष्ठ 141, कुल 381 में से

संदर्भ में पढ़ें
पृष्ठ 141

८८ काव्यमीमांसायाम्
द्वादशानामप्यादित्यानामैक्यम्—
“यस्याधोऽधस्तथोपर्य्युपरि निरवधि भ्राम्यतो विश्वमश्वै-
रावृत्तालातलीलां रचयति रयतो मण्डलं चण्डधाम्नः ।
सोऽव्यादुत्तप्तकार्त्तस्वरसरलशरस्पर्द्धिभिर्धामदण्डै-
रूहण्डैः प्रापयन्वः प्रचुरतमतमःस्तोममस्तं समस्तम् ॥”
नारायणमाधवयोश्च यथा—
“येन ध्वस्तमनोभवेन बलिजित्कायः पुरास्त्रीकृतो
यो गङ्गां च दधेऽन्धकक्षयकरो यो बर्हिपत्रप्रियः ।
यस्याहुः शशिमच्छिरोहर इति स्तुत्यं च नामाम .
सोऽव्याद(?)ष्टभुजङ्गहारवलयस्त्वां सर्वदोमाधवः ॥”
एवं दामोदरशेषकूर्मादेः, कमलासम्पदोश्च । यथा—
“दोर्मेन्दी(न्दे)रितमन्दरेण जलधेरुत्थापिता या स्वयं
यां भूत्वा कमठः पुराणककुदन्यस्तामुदस्तम्भयत् ।
तां लक्ष्मीं पुरुषोत्तमः पुनरसौ लीलाश्रितभ्रूलता-
निर्देशैः समवीविशत्प्रणयिनां गेहेषु दोष्णि क्षितिम् ॥”
भौमस्वर्ग्यवत्पातालीयोऽपि कविसमयः ।
तत्र नागसर्पयोरैक्यम्— “हे नागराज बहुमस्य नितम्बभागं
भोगेन गाढमभिवेष्ट्य मन्दराद्रेः ।
सोढाविषह्यवृषवाहनयोगलीला-
पर्यङ्कबन्धनविधेस्तव कोऽतिभारः ॥”
दैत्यदानवासुराणामैक्यम् । यथा—तत्र हिरण्याक्षहिरण्यकशिपु-
प्रह्लाद्विरोचनबलिबाणादयो दैत्याः, विप्रचित्तिशम्बरनमुचिपुलोम-
प्रभृतयो दानवाः, वलवृत्रविश्वरस्त्वृषपर्वाद्योऽसुराः ।
तेषामैक्यं यथा—“जयन्ति बाणासुरमौलिलालिता
दशास्यचूडामणिचक्रचुम्बिनः ।
सुरासुराधीशशिखान्तशायिनो
भवच्छिदस्त्र्यम्बकपादपांसवः ॥”
१ C सोऽव्यादिष्ट०. २ BC विष्ठरत्रुषपर्वाद्यो.