काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)
Kavyamimamsa of Rajasekhara with Hindi Commentary
महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा
पृष्ठ 140, कुल 381 में से
संदर्भ में पढ़ेंयथा वा—"आपातमारुतविलोड़ितसिन्धुनाथो
हात्कारभीतपरिवर्त्तितमत्स्यचिह्नम् ।
उल्लङ्घ्य यादवमहोदधिभीमवेलां
द्रोणाचलं पवनसूनुरिवोद्धरामि ॥"
अत्रिनेत्रसमुद्रोत्पन्नचन्द्रयोरैक्यम्—
"वन्द्या विश्वसृजो युगादिगुरवः स्वायम्भुवाः सप्त ये
तत्रात्रिर्दिवि सन्दधे नयनजं ज्योतिः स चन्द्रोऽभवत् ।
एका यस्य शिखण्डमण्डनमणिर्देवस्य शम्भोः कला
शेषाभ्योऽमृतमाप्नुवन्ति च सदा स्वाहास्वधाजीविनः ॥"
२यथा च—"यदिन्दोरन्वेति व्यसनमुदयं वा निधिरपा-
मुपाधिस्तत्रायं जयति जनिकर्तुः प्रकृतिता । १
अयं कस्सम्बन्धो यदनुहरते तस्य कुमुदं
विशुद्धाः शुद्धानां ध्रुवमनभिसन्धिप्रणयिनः ॥"
बहुकालजन्मनोऽपि शिवचन्द्रमसो बालत्वम् ।
"मालायमानामरासन्धुहंसः
कोटीरवल्लीकुसुमं भवस्य ।
दाक्षायणीविभ्रमदर्पणश्री
बालेन्दुखण्डं भवतः पुनीतात् ॥"
कामस्य[मूर्तत्वम्]३ मूर्त्तत्वं च यथा—
"अयं स भुवनत्रयप्रथितसंयमः शङ्करो
बिभर्त्ति वपुषाऽधुना विरहकातरः कामिनीम् ।
अनेन किल निर्जिता वयमिति प्रियायाः करं
करेण परिताडयन् जयति जातहासः स्मरः ॥"
यथा च—"धनुर्माला मौर्वी कणदलिकुलं लक्ष्यमबला-
मनो भेद्यं शब्दप्रभृति य(तय) इमे पञ्च विशिखाः ।
इयान् जेतुं यस्य त्रिभुवनमनङ्गस्य विभवः
स वः कामः कामान्दिशतु दयितापाङ्गवसतिः ॥"
१ B कृता. २ V adds this verse after the verse वन्द्या ३ ABC मूर्तत्वं च.