सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

काव्यालङ्कार (आचार्य भामह - भारतीय काव्यशास्त्र एवं अलङ्कार-सिद्धान्त मूल महाग्रन्थ सटीक)

Kavyalankara of Acharya Bhamaha with Commentary

आचार्य भामह (सम्पादक: पण्डित देवेन्द्रनाथ शर्मा) द्वारा

DevanagariHindipublished230 पृष्ठ

विदधानौ किरीटेन्दू श्यामाभ्रहिमसच्छवी ।
रथाङ्गशूले बिभ्राणौ पातां वः शम्भुशार्ङ्गिणौ ॥ २१ ॥
सूत्रकृत्पदकारेष्टप्रयोगाद्योऽन्यथा भवेत् ।
तमाप्तश्रावकासिद्धेः शब्दहीनं विदुर्यथा ॥ २२ ॥
स्फुरत्तडिल्लयिनो वित्तताम्भोगरीयसः ।
तेजस्तिरयतः सौरं घनान् पश्य दिवोऽभितः ॥ २३ ॥
यतिश्छन्दोऽधिरूढानां शब्दानां या विचारणा ।
तदपेतं यतिभ्रष्टमिति निर्दिश्यते यथा ॥ २४ ॥
विद्युत्वन्तस्तमालासितवपुष इमे वारिवाहा ध्वनन्ति ॥ २५
गुरोर्लघोश्च वर्णस्य योऽस्थाने रचनाविधिः ।
तन्न्यूनाधिकता वाऽपि भिन्नवृत्तमिदं यथा ॥ २६ ॥
भ्रमति भ्रमरमाला काननेषून्मदाऽसौ ।
विरहितरमणीकोऽर्हस्यद्य गन्तुम् ॥ २७ ॥
कान्ते इन्दुशिरोरत्ने आदधाने उदंशुनी ।
पातां वः शम्भुशर्वाण्याविति प्राहुर्विसन्ध्यदः ॥ २८ ॥
या देशे द्रव्यसंभूतिरपि वा नोपदिश्यते ।
तत्तद्विरोधि विज्ञेयं स्वभावात्तद्यथोच्यते ॥ २९ ॥
मलये कन्दरोपान्तरूढकालागुरुद्रुमे ।
सुगन्धिकुसुमानम्रा राजन्ते देवदारवः ॥ ३० ॥
षण्णामृतूनां भेदेन कालः षोढेव भिद्यते ।
तद्विरोधकृदित्याहुर्विपर्यासादिदं यथा ॥ ३१ ॥

170 BHĀMAHĀLAṄKĀRA
उदूढशिशिरासारान् प्रावृषेण्यान् नभस्वतः ।
फुल्लाः सुरभयन्तीमे चूताः काननशोभिनः ॥ ३२ ॥
कला-संकलना प्रज्ञा शिल्पान्‍यस्याश्च गोचरः ।
विपर्यस्तं तथैवाहुस्तद्विरोधकरं यथा ॥ ३३ ॥
ऋषभात्पञ्चमस्तस्मात् सषड्जं धैवतं स्मृतम् ।
अयं हि मध्यमग्रामो मध्यमे पीडितर्षभः ॥ ३४ ॥
इति साधारितं मोहादन्यथैवावगच्छति ।
अन्यास्वपि कलास्वेवमभिधेया विरोधिता ॥ ३५ ॥
स्थास्नुजङ्गमभेदेन लोकं तत्त्वविदो विदुः ।
स च तद्व्यवहारोऽत्र तद्विरोधकरं यथा ॥ ३६ ॥
तेषां कटतटभ्रष्टैर्गजानां मदबिन्दुभिः ।
प्रावर्तत नदी घोरा हस्त्यश्वरथवाहिनी ॥ ३७ ॥
धावतां सैन्यवाहानां फेनवारि मुखाच्च्युतम् ।
चकार जानुदघ्नापान् प्रतिदिङ्मुखमध्वनः ॥ ३८ ॥
न्यायः शास्त्रं त्रिवर्गोक्तिर्दण्डनीतिं च तां विदुः ।
अतो न्यायविरोधीष्टमपेतं यत्तया यथा ॥ ३९ ॥
विजिगीषुमुपन्यस्य वत्सेशं वृद्धदर्शनम् ।
तस्यैव कृतिनः पश्चादभ्यधाच्चारशून्यताम् ॥ ४० ॥
अन्तर्योधशताकीर्णं सालङ्कायननेतृकम् ।
तथाविधं गजच्छद्म नाज्ञासीत्स स्वभूगतम् ॥ ४१ ॥
यदि वोपेक्षितं तस्य सचिवैः स्वार्थसिद्धये ।
अहो नु मन्दिमा तेषां भक्तिर्वा नास्ति भर्तरि ॥ ४२ ॥

FOURTH PARICCHEDA 171
शरा दृढधनुर्मुक्ता मन्युमद्भिररातिभिः ।
मर्माणि परिहृत्यास्य पतिष्यन्तीति काऽनुमा ॥ ४३ ॥
हतोऽनेन मम भ्राता मम पुत्रः पिता मम ।
मातुलो भागिनेयश्च रुषा संरब्धचेतसः ॥ ४४ ॥
अस्यन्तो विविधान्याजावायुधान्यपराधिनम् ।
एकाकिनमरण्यान्यां न हन्युर्बहवः कथम् ॥ ४५ ॥
नमोऽस्तु तेभ्यो विद्वद्भयो येऽभिप्रायं कवेरिमम् ।
शास्त्रलोकावपास्यैवं नयन्ति नयवेदिनः ॥ ४६ ॥
सचेतसो वनेभस्य चर्मणा निर्मितस्य च ।
विशेषं वेद बालोऽपि कष्टं किंतु कथं नु तत् ॥ ४७ ॥
आगमो धर्मशास्त्राणि लोकसीमा च तत्कृता ।
तद्विरोधि तदाचारव्यतिक्रमणतो यथा ॥ ४८ ॥
भूभृतां पीतसोमानां न्याय्ये वर्त्मनि तिष्ठताम् ।
अलंकरिष्णुना वंशं गुरौ सति जिगीषुणा ॥ ४९ ॥
अभार्योढेन संस्कारमन्तरेण द्विजन्मना ।
नरवाहनदत्तेन वेश्यावान् निशि पीडितः ॥ ५० ॥
न दूषणायमुदाहृतो विधि-
र्न चाभिमानेन किमु प्रतीत्ये ।
कृतात्मनां तत्वदृशां च मादृशो
जनोऽभिसन्धिं क इवावभोत्स्यते ॥ ५१ ॥
॥ इति भामहालंकारे चतुर्थः परिच्छेदः ॥

पञ्चमः परिच्छेदः ।
अथ प्रतिज्ञाहेत्वादिहीनं दुष्टं च वर्ण्यते ।
समासेने यथान्यायं तन्मात्रार्थप्रतीतये ॥ १ ॥
प्रायेण दुर्बोधतया शास्त्राद्विभ्यत्यमेधसः ।
तदुपच्छन्दनायैष हेतुन्यायलवोच्चयः ॥ २ ॥
स्वादुकाव्यरसोन्मिश्रं शास्त्रमप्युपयुञ्जते ।
प्रथमलीढमधवः पिबन्ति कटु भेषजम् ॥ ३ ॥
न स शब्दो न तद्वाच्यं न स न्यायो न सा कला ।
जायते यन्न काव्याङ्गमहो भारो महान्कवेः ॥ ४ ॥
सत्त्वादयः प्रमाणाभ्यां प्रत्यक्षमनुमा च ते ।
असाधारणसामान्यविषयत्वं तयोः किल ॥ ५ ॥
प्रत्यक्षं कल्पनापोढं ततोऽर्थादिति केचन ।
कल्पनां नामजात्यादियोजनां प्रतिजानते ॥ ६ ॥
समारोपः किलैतावान्सदर्थालम्बनं च तत् ।
जात्याद्यपोहे वृत्तिः क क्व विशेषः कुतश्च सः ॥ ७ ॥
तदपोहेषु च तथा सिद्धा सा बुद्धिगोचरा ।
अवस्तुकं चेद्वितथं प्रत्यक्षं तत्त्ववृत्ति हि ॥ ८ ॥
ग्राह्यग्राहकभेदेन विज्ञानांशो मतो यदि ।
विज्ञानमात्रसादृश्याद्विशेषोऽस्य विकल्पना ॥ ९ ॥

FIFTH PARICCHEDA 173
अर्थादेवेति रूपादेस्तत एवेति नान्यतः ।
अन्यथा घटविज्ञानमन्येन व्यपदिश्यते ॥ १० ॥
त्रिरूपाल्लिङ्गतो ज्ञानमनुमानं च केचन ।
तद्विदो नान्तरीयार्थदर्शनं चापरे विदुः ॥ ११ ॥
विवादास्पदधर्मेण धर्मी कृतविशेषणः ।
पक्षस्तस्य च निर्देशः प्रतिज्ञेत्यभिधीयते ॥ १२ ॥
तदर्थहेतुसिद्धान्तसर्वागमविरोधिनी ।
प्रसिद्धधर्मा प्रत्यक्षबाधिनी चेति दुष्यति ॥ १३ ॥
तयैव हि तदर्थस्य विरोधकरणं यथा ।
यतिर्भम पिता बाल्यात्सूनुर्यस्याहमौरसः ॥ १४ ॥
अस्त्यात्मा प्रकृतिर्वेति ज्ञेया हेत्वपवादिनी ।
धर्मिणोऽस्याप्रसिद्धत्वात्तद्धर्मोऽपि न सेत्स्यति ॥ १५ ॥
शाश्वतोऽशाश्वतो वेति प्रसिद्धे धर्मिणि ध्वनौ ।
जायते भेदविषयो विवादो वादिनोर्मिथः ॥ १६ ॥
स्वसिद्धान्तविरोधित्वाद्विज्ञेया तद्विरोधिनी ।
कणभक्षो यथा शब्दमाचक्षीताविनश्वरम् ॥ १७ ॥
सर्वशास्त्रविरुद्धत्वात्सर्वागमविरोधिनी ।
यथा शुचिस्तनुस्त्रीणि प्रमाणानि न सन्ति वा ॥ १८ ॥
आकुमारमसंदिग्धधर्माहितविशेषणा ।
प्रसिद्धधर्मेति मता श्रोत्रग्राह्यो ध्वनिर्यथा ॥ १९ ॥
प्रत्यक्षबाधिनी तेन प्रमाणेनैव बाध्यते ।
यथा शीतोऽनलो नास्ति रूपमुष्णः क्षपाकरः ॥ २० ॥

174 BHĀMAHĀLAṄKĀRA
सन्द्वयोः सदृशे सिद्धो व्यावृत्तस्तद्विपक्षतः ।
हेतुस्त्रिलक्षणो ज्ञेयो हेत्वाभासो विपर्ययात् ॥ २१ ॥
सन्द्वयोरिति यः सिद्धः स्वपक्षपरपक्षयोः ।
अभिन्नलक्षणः पक्षः फलभेदादयं द्विधा ॥ २२ ॥
परपक्षानुपादाने तद्वृत्तेश्चानुदाहृतौ ।
कथमन्यतरासिद्धहेत्वाभासव्यवस्थितिः ॥ २३ ॥
साध्यधर्मानुगमतः सदृशस्तत्र यश्च सन् ।
अन्योऽप्यसावेक इव सामान्यादुपचर्यते ॥ २४ ॥
विपक्षस्तद्विसदृशो व्यावृत्तस्तत्र यो ह्यसन् ।
इति द्वयैकानुगतिव्यावृत्तिर्लक्ष्मसाधुता ॥ २५ ॥
साध्यसाधनधर्माभ्यां सिद्धो दृष्टान्त उच्यते ।
तद्विपर्ययतो वापि तदाभासस्तद्वृत्तितः ॥ २६ ॥
साध्येन लिङ्गानुगतिस्तद्भावे च नास्तिता ।
ख्याप्यते येन दृष्टान्तः स किलान्यैर्द्विधोच्यते ॥ २७ ॥
दूषणं न्यूनताद्युक्तिर्न्यूनं हेत्वादिनाऽथ च ।
तन्मूलत्वात्कथायाश्च न्यूनं नेष्टं प्रतिज्ञया ॥ २८ ॥
जातयो दूषणाभासास्ताः साधर्म्यसमादयः ।
तासां प्रपञ्चो बहुधा भूयस्त्वादिह नोदितः ॥ २९ ॥
अपरं वक्ष्यते न्यायलक्षणं काव्यसंश्रयम् ।
इदं तु शास्त्रगर्भेषु काव्येष्वभिहितं यथा ॥ ३० ॥
अथ नित्याविनाभावि दृष्टं जगति कारणम् ।
कारणं चेन्न तन्नित्यं नित्यं चेत्कारणं न तत् ॥ ३१ ॥

FIFTH PARICCHEDA 175
लक्ष्म प्रयोगदोषाणां भेदेनानेन वर्त्मना ।
सन्ध्यादिसाधनासिद्धयै शास्त्रेपूदितमन्यथा ॥ ३२ ॥
तज्ज्ञैः काव्यप्रयोगेषु तत्प्रादुष्कृतमन्यथा ।
तत्र लोकाश्रयं काव्यमागमस्तत्त्वदर्शिनः ॥ ३३ ॥
असिसंकाशमाकाशं शब्दो दूरानुपात्ययम् ।
सदैव वारि सिन्धूनामहो स्थेमा महाचिषः ॥
रूपादीनां यथा द्रव्यमाश्रयो नश्यतीति च ॥ ३४ ॥
इष्टकार्याभ्युपगमं प्रतिज्ञां प्रतिजानते ।
धर्मार्थकामकोपानां संश्रयात्सा चतुर्विधा ॥ ३५ ॥
जरामेष बिभर्मीति प्रतिज्ञाय पितुर्यथा ।
तथैव पुरुणाऽभारि सा स्याद्धर्मनिबन्धनी ॥ ३६ ॥
उपलप्स्ये स्वयं सीतामिति भर्तृनिदेशतः ।
हनूमता प्रतिज्ञाय सा ज्ञातेत्यर्थसंश्रया ॥ ३७ ॥
आहरिष्याम्यमूमद्य महासेनात्मजामिति ।
कृत्वा प्रतिज्ञां वत्सेन हृतेति मदनाश्रया ॥ ३८ ॥
भ्रातुर्भ्रातृव्यमुन्मथ्य पास्याम्यस्यासृगाहवे ।
प्रतिज्ञाय यथा भीमस्तच्चकारावशो रुषा ॥ ३९ ॥
कार्योऽन्यत्र प्रतिज्ञायाः प्रयोगो न कथंचन ।
परित्यागश्च कर्तव्यो नासां चतसृणामपि ॥ ४० ॥
प्रायोपवेशाय यथा प्रतिज्ञाय सुयोधनः ।
राज्याय पुनरुत्तस्थाविति धर्मविरोधिनी ॥ ४१ ॥
आहूतो न निवर्तेऽहं द्यूतायेति युधिष्ठिरः ।

176 BHĀMAHĀLAṄKĀRA
कृत्वा सन्धां शकुनिना दिदेवेत्यर्थबाधिनी ॥ ४२ ॥
अद्यारभ्य निवत्स्यामि मुनिवद्वचनादिति ।
पितुः प्रियाय यां भीष्मश्चक्रे सा कामबाधिनी ॥ ४३ ॥
अत्याजयद्यथा रामः सर्वक्षत्रवधाश्रयाम् ।
जामदग्न्यं युधा जित्वा सा ज्ञेया कोपबाधिनी ॥ ४४ ॥
अथाभ्युपगमप्राप्तिः सन्धाभ्युपगमाद्विना ।
अनुक्तमपि यत्रार्थादभ्युपैति यथोच्यते ॥ ४५ ॥
किमिन्द्रियद्विषा ज्ञेयं को निराक्रियतेऽरिभिः ।
को वा गत्वरमर्थिभ्यो न यच्छति धनं लघु ॥ ४६ ॥
किमित्ययं तु यः क्षेपः सौकर्यं दर्शयत्यसौ ।
हेतुस्त्रिलक्ष्मैव मतः काव्येष्वपि सुमेधसाम् ॥ ४७ ॥
अन्वयव्यतिरेकौ हि केवलादर्थसिद्धये ।
यथाऽभितो वनाभोगमेतदस्ति महत्सरः ।
कूजनात्कुररीणां च कमलानां च सौरभात् ॥ ४८ ॥
अन्यधर्मोऽपि तत्सिद्धिं संबन्धेन करोत्ययम् ।
धूमादभ्रंकषात्साग्नेः प्रदेशस्यानुमामिव ॥ ४९ ॥
अपृथक्कृतसाध्योऽपि हेतुश्चात्र प्रतीयते ।
अन्वयव्यतिरेकाभ्यां विनैवार्थगतिर्यथा ॥ ५० ॥
दीप्रदीपा निशा जज्ञे व्यपवृत्तदिवाकरा ।
हेतुः प्रदीप्रदीपत्वमपवृत्तौ रवेरिह ॥ ५१ ॥
तस्यापि सुधियामिष्टा दोषाः प्रागुदितास्त्रयः ।
अज्ञानसंशयज्ञानविपर्ययकृतो यथा ॥ ५२ ॥

INDEX 201
Page Page
उक्तं तदभिनेयार्थ 22 उपासनेति च युक्तं 183
उक्तं षड्भिः परिच्छेदैः 185 उपासितगुरुत्वात्त्वं 168
उक्तस्य पुनराख्याने 168 उपेयुषामपि दिवं यथा 182
उक्तस्यार्थस्य दृष्टान्तः 177 उपेयुषामपि दिवं सन्नि 6
उक्तार्थस्य प्रयोगो हि 101 उवाच ग्लाहरणं 132
उच्यते काममस्तीदं 97 ऊर्जस्वि कर्णेन यथा 132
उत्प्रेक्षावयवं चान्ये 128 ऋषभाहपद्ममस्तस्मान् 170
उत्सवः सुधियामेव 66 एकदेशस्य विगमे 143
उदयः पतनायेति 149 एकरूपतया ज्ञेया 105
उदात्तं शक्तिमान् रामो 135 एकस्यैव व्यवस्थत्वान् 73
उदूढशिशिरासारान् 170 एकाकिनमरण्यान्यां 171
उन्नता लोकदयिता 141 एकान्तशुश्रूषामे तु 111
उपन्यसनमन्यस्य 107 एकेनैवोपमानेन 101
उपमादेरलंकारात् 104 एतदेवापरेऽन्येन 135
उपमानवतोऽर्थस्य 110 एतद्ग्राह्यं सुरभि कुसुमं 50
उपमानाधिकत्वं च 85 एलातकोलनाग 178
उपमानेन तत्त्वं च 154 एवं णिचः प्रयोगस्तु 183
उपमानेन तद्भावं 150 कणभक्षो यथा शब्दे 173
उपमानेन यत्तत्त्वं 68 कथमक्षिप्तचित्तः सन् 168
उपमानेन यत्तत्त्वमुप 137 कथमन्यतरासिद्ध 174
उपमानोपमेयत्वं 151 कथमेकपदेनैव 177
उपमारूपकं चान्यत् 128 कथं द्यूत्यं प्रपद्येन् 42
उपमेयस्य यत्साम्यं 77 कथं पातोऽम्बुधाराणां 92
उपमेयोपमां नाम 151 कन्याहरणसंग्राम 24
उपलप्स्ये स्वयं सीतां 175 कलाशास्त्राश्रयं चेति 15
उपान्तरूढोपवन 145 कला संकलना प्रज्ञा 170
14

202 BHĀMAHĀLAṄKĀRA
Page Page
कल्पनां नाम जात्यादि 172 कृतागसां मार्गभिदां च 63
कवेरभिप्रायकृतैः 24 कृतात्मनां तत्त्वदृशां च 171
कान्ताविलोचनन्यस्तं 48 कृत्वा प्रतिज्ञां वत्सेन 175
कान्ते इन्दुशिरोरत्ने 169 कृत्वा सन्धां शकुनिना 176
कामं तथाऽस्तु प्रायेण 33 कृत्स्नं च सर्वपादेषु 63
कारणं चेन्न तन्नित्यं 174 केचिदोजोऽभिधित्सन्तः 51
कार्योऽन्यत्र प्रतिज्ञायाः 175 के शब्दाः किं च तद्वाच्य 180
कालेनैषा भवेत्प्रीति 130 को नाम वह्निर्नौपम्यं 93
काव्यं कपित्थमामं यत् 177 को वा गत्वरमर्थिभ्यो 176
काव्यं तु जायते जातु 5 को वा सेतुरलं सिन्धोः 107
काव्यान्यपि यदीमानि 66 किञ्चन्तं च प्रयुञ्जीत 183
काव्यालंकार इत्येष 1 क्रमवृत्तिषु वर्णेषु 167
काशा हरन्ति हृदयं 177 क्रमशः योऽनुनिर्देशो 122
किंच काव्यानि नेयानि 89 क्रमागतं श्रुतिसुखं 181
किंचिदाश्रयसौन्दर्यात् 48 क्रिययैव विशिष्टस्य 149
किंचिद्दिधित्सोर्या निन्दा 148 क्रियायाः प्रतिषेधे या 111
किं तया चिन्तया कान्ते 54 क्लिष्टं व्यवहितं विद्यात् 40
किमयं शशी 154 क्वचिदग्रे प्रसरता 95
किमित्ययं तु यः क्षेपः 176 ख्याप्यते येन दृष्टान्तः 174
किमिन्द्रियदृषा ज्ञेयं 176 गतानुगतिकन्यायात् 32
कियदुद्धृतितज्ञेभ्यः 160 गतोऽस्तमर्को भातीन्दुः 120
कियन्तः सन्ति गुणिनः 83 ग्येन युक्तोदात्तार्था 24
किंशुकव्यपदेशेन 125 गरीयानेव हि गुरून् 109
कुकवित्वं पुनः साक्षात् 9 गाम्भीर्यलावण्यवतोः 159
कुर्वन्ति काव्यमपरे 178 गा वारयति दण्डेन 126
कूजनात् कुररीणां च 176 गिरामलंकारविधिः 165

INDEX 203
Page Page
गुणक्रियाभ्यां नाम्ना च 137 जाज्वल्यमाना इव 91
गुणस्य वा क्रियाया वा 145 जातयो दूषणाभासाः 174
गुणानां समतां दृष्ट्वा 68 जातस्तरुर्यं चोच्चैः 115
गुरुभिः किं विषादेन 167 जातिं व्याधीनां दुर्द्दमाना 59
गुरूपदेशादध्येतुं 5 जात्याद्यपोहे वृत्तिः क 172
गुरोर्लघेश्च वर्णस्य 169 जानुदध्नी सरिन्नारी 184
गूढशब्दाभिधानं च 36 जामदग्न्यं युधा जित्वा 176
गूढशब्दाभिधानं च न 43 जायते मेदविषयो 173
गृहेष्वध्वसु वा नाम्नं 133 जायते यन्न काव्याङ्गं 172
गोक्षीरकुन्दहलिनां 101 ज्ञेयः सोऽर्थान्तरन्यासः 107
गौडीयमपि साधीयो 34 ज्ञेया निदर्शना नाम 149
गौडीयमिदमेतत्तु 32 ज्ञेया विभावनेवासौ 111
ग्रहैरपि गजादीनां 103 ठक् चापि तेन जयति 183
ग्राम्यं न पिण्डीशूरादिं 181 ड्मृतुबिम्बं च कुमुदाद्यथेयं 183
ग्राम्यानुप्रासमन्यत्तु 54 णविष्ठवद्वितीष्टा च 182
ग्राह्यग्राहकभेदेन 172 त एत उपमादोषाः 85
घनाघना नीलघना 61 तज्ज्ञैः काव्यप्रयोगेषु 175
चकार जानुदध्नापान् 170 तटिद्बलयकक्ष्याणां 72
चतुर्वर्गाभिधानेऽपि 16 ततश्छमिष्ट्या च यथा 183
चाणक्यो नक्तमुपयान् 136 तत्तद्विरोधि विज्ञेयं 169
चित्रोदात्ताद्भुतार्थत्वं 161 तन्न लोकाश्रयं काव्यं 175
चीरीमतीररण्यानीः 76 तत्रापि मेखलामाला 184
छन्दोवदिति चोत्सर्गात् 181 तत्रासम्भविनाऽर्थेन 93.
छायावन्तो गतव्यालाः 140 तत्सहोक्त्युपमाहेतु 139
जनको गवि गोबुद्धेः 180 तथाऽपि तेषां तैरस्ति 103.
जरामेष बिभर्मीति 175 तथा भवतु भूमेन्द्रं 42.

204 BHĀMAHĀLAṄKĀRA
Page Page
तथा भ्रमरहारीतचक्र 41 तस्या हारी स्तनाभोगो 183
तथाविध गजच्छद्म 170 तस्यैव कृतिनः पश्चात् 170
तथैव पुरुषाऽभावि 175 ताच्छील्यादिषु चेष्यन्ते 183
तदपेतं यतिभ्रष्टं 169 तामुत्कमनसं नून 168
तदपेतं विपर्यासात् 168 ताम्बूलरागवलयं 156
तदपोहेषु च तथा 172 तावत्किलायमध्यास्ते 6
तदर्थहेतुसिद्धान्त 173 तासां प्रपञ्चो बहुधा 174
तदा शुक्तांशुकानि स्युः 117 तिष्ठद्प्रभृतौ वाच्यौ 182
तदाहुः कल्पनादुष्टं 47 तुल्यकार्यक्रियायोगात् 146
तदुपच्छन्दनायैष 172 तुल्यकाले क्रिये यत्र 152
तदेतदाहुः सौशब्द्यं 12 तुल्यजातावदृष्टत्वात् 177
तदेभिरङ्गैरभूष्यन्ते 178 तुल्यश्रुतीनां भिन्नानां 64
तदेव च किल ज्यायः 31 तुर्यार्थत्वेऽपि हि 181
तद्विदो नान्तरीयार्थ 173 तुल्योदयावसानत्वात् 157
तद्विपर्ययतो वाऽपि 174 तृचा समस्तषष्ठीकं 182
तद्विरोधकृदित्याहुः 169 तृतीयासप्तमीपक्षे 182
तद्विरोधितदाचार 171 तृतीयैकवचः षष्ठ्यां 182
तन्न्यूनाधिकता 169 तेजस्तिरयतः सौरं 169
तन्मूलत्वात्कथायाश्च 174 तेषां कटतटभ्रष्टैः 170
तमाद्रियेत प्रायेण 181 त्रिभिर्निदर्शनैश्चेदं 73
तमाप्ताश्रवकासिद्धेः 169 त्रिरूपाल्लिङ्गतो ज्ञानं 173
तमाहुः शुद्धदृष्टान्तं 177 त्वत्तेजसा दग्धसमस्त 164
तयैव हि तदर्थस्य 173 त्वमेव वीर प्रद्युम्नः 177
तत्सात्कूटस्थ इत्येषा 180 त्वां विजयति सुश्रोणि 183
तस्य चाधिगमे यत्नः 179 दंर्घाद्दग्धमरण्यान्याः 125
तस्यापि सुधियामिष्टाः 176 दाडिमानि दशापूपाः

INDEX 205
Page Page
दारुभित्तिभुवोऽतीत्य 180 न चाभ्युदयभाक् तस्य 20
दीप्रदीपा निशा जज्ञे 176 न तदिच्छन्ति कृतिनो 47
दूराधिकगुणस्तोत्र 148 न तवर्गे शकारेण 184
दूर्वाकाण्डमिव श्यामं 80 न तस्यैव वधं ब्रूयात् 20
'दूषणं न्यूनताशुक्तिः 174 न ते धीर्धीर भोगेषु 60
दृष्टं वा सर्वसारूप्यं 89 न दूषणायायमुदाहृतो 171
दृष्टिं दृष्टिसुखां धेहि 55 न नितान्तादिमात्रेण 35
देवी समागमद्धर्म 131 ननु चाश्मकवंशादि 33
देशकालकलालोक 167 ननूपमाऽनुमैवास्तु 177
द्रव्यक्रियाजातिगुण 181 ननूपसीयते पाणिः 96
द्वयसजद्वघचाविष्ठौ 184 नन्वकारादिवर्णानां 179
द्विजातिवदधीतेऽसौ 81 नपुंसकं तत्पुरुषं 182
द्विधा रूपकमुद्दिष्टं 70 नभःकुसुममस्तीति 180
द्विप्रकारमुदात्तं च 128 न भुञ्जते द्विजास्तच्च 133
द्विः संदधाति किं कर्णः 132 नमोऽस्तु तेभ्यो विद्वद्भ्यः 180
धर्मार्थकामकोपानां 175 नमोऽस्तु तेभ्यो विद्वद्भ्यो 171
धर्मार्थकाममोक्षेषु 2 नरवाहनदत्तेन 171
धर्मिणोऽस्याप्रसिद्धत्वात् 173 न लेशज्ञापकाकृष्टं 181
धातूनादिगणग्राहं 179 न वक्त्रापरवक्त्राभ्यां 24
धावतां सैन्यवाहानां 170 न शब्दपुनरुक्तं तु 168
धीरन्त्यशब्दविषया 167 न शिष्टैरुक्तमित्येव 181
धीरैरालोकितप्रान्तं 179 न सर्वसारूप्यमिति 99
'धूमभासोरपि प्राप्ता 179 न स शब्दो न तद्वाच्यं 172
धूमादभ्रंकषात्साम्भेः 176 नाकवित्वमधर्माय 9
न कान्तमपि निर्भूषं 10 नाटकं द्विपदी शम्या 22

  • न चापि समुदायिभ्यः 180 नानाधात्वर्थगम्भीरा 65

206 BHĀMAHĀLAṄKĀRA
Page Page
नानाभाषाविषयिणां 181 पञ्चाशता दोषदृष्टिः 185
नानारत्नादियुक्तं यत् 135 पतनं जायतेऽवश्यं 47
नानार्थवन्तोऽनुप्रासाः 55 पदद्वयस्य सन्धाने 47
नान्यप्रत्ययशब्दा वाक् 179 पदमेकं वरं साधु 177
नापारयित्वा दुर्गार्थं 179 पदानामेव संघातः 167
नाप्रतीतान्यथार्थत्वं 181 पदेनैकेन कथ्येते 152
नाप्रयुक्तं प्रयुञ्जीत 181 पद्मेन्दुभृङ्गमातङ्ग 123
नायकं प्रागुपन्यस्य 20 पयोमुचां ध्वनिर्धीरो 72
निन्दाप्रशंसा 84 परपक्षानुपदाने 174
निमित्ततो वचो यत्तु 116 परप्रत्ययतो यत्तु 179
निराकांक्षं च तद्वाक्यं 167 परानीकानि भीमानि 108
निर्दिष्ट उपमेयेऽर्थे 99 परित्यागश्च कर्तव्यो 175
निर्यान्तो मदयन्तीमे 70 परेण धृतमुक्तेव 179
निशाकृतः प्रकृत्यैव 160 पर्यायोक्तं यदन्येन 132
निष्पेतुरस्यादिव तस्य दीप्ताः 91 पातां वः शम्भुशर्वाण्यौ 169
नीपोऽविलिप्तसुरभिः 112 पादो जयति सिद्धस्त्री 150
नीलं पलाशमाबद्धं 48 पितुः प्रियाय यां भीष्मः 176
नेयार्थं क्लिष्टमन्यार्थं 36 पुञ्जीभूतमिव ध्वान्तं 93
नेयार्थं नीयते युक्तो 37 पुनरुक्तमिदं प्राहुः 168
नेयं विरौति भृङ्गाली 143 पुंसि स्त्रियां च कखन्तं 182
नैकत्रौकारभूयस्त्वं 184 पुरा गौरिति विज्ञानं 180
न्यायः शास्त्रं त्रिवर्गोक्तिः 170 पूर्वापरार्थव्याघातात् 167
न्यूनस्यापि विशिष्टेन 146 प्रचारधर्षितोद्गार 45
पक्षस्तस्य च निर्देशः 173 प्रजाजनश्रेष्ठवरिष्ठभूभृत् 177
पञ्चभिः सन्धिभिर्युक्तं 16 प्रणम्य सार्वं सर्वज्ञं 1
पद्मराजीति च यथा 182 प्रतिज्ञाय यथा भीमः 175

INDEX 207
Page Page
प्रतिज्ञाहेतुदृष्टान्त 167 प्रेयो रसवदूर्जस्वि 128
'प्रतिषेध इवेष्टस्य 105 फुल्लाः सुरभयन्तीमे 170
'प्रतीतशब्दमोजस्वि 65 फुल्लैश्च कुसुमैरन्ये 178
प्रतीतिरर्थेषु यतः , 179 वलाकाः पश्य सुश्रोणि 183
प्रत्यक्षबाधिनी तेन 173 बहुकुसुमविभूषिते 178
प्रत्यक्षमनुमानं वा 180 बहुसत्त्वाश्रयत्वाच्च 141
'प्रत्यक्षं कल्पनापोढं 172 बुद्धौ तु संभवत्येतत् 167
प्रत्यक्षा इव दृश्यन्ते 161 भयशोकाभ्यसूयासु 168
:प्रत्येकमसमर्थानां 179 भरतस्त्वं दिलीपस्त्वं 177
प्रथमालीढमधवः 172 भर्तुश्छन्दानुवर्तिन्यः 168
प्रथितवचसः सन्तः 178 भाविकत्वं च निजगुः 128
'प्रदाय वित्तमर्थिभ्यः 153 भाविकत्वमिति प्राहुः 161
·प्रयुञ्जीतान्ययीभावं 182 भिन्नं गेयमिवेदं तु 34
प्रयोक्तुं ये न युक्ताश्च 181 भूतार्थापह्नवाद्भास्याः 142
प्रवासिनां च चेतांसि 76 भूभृतां पीतसोमानां 171
प्रसादि खमभिधानं च 65 भूयसामुपदिष्टानां 122
[L

208 BHĀMAHĀLAṄKĀRA
Page Page
मलये कन्दरोपान्त 169 यथा विक्लिन्नगण्डानां 49
मातुलो भागिनेयश्च 171 यथा विद्वानधीतेऽसौ 182
माधुर्यमभिवाञ्छन्तः 51 यथा शीतोऽनलो नास्ति 173
मायेव भद्रेति यथा 38 यथा शुचिस्तनुर्ऋणि 173
मार्गद्रुमा महान्तश्च 140 यथासंख्यमथोत्प्रेक्षां 121
मार्जन्यधररागं ते 181 यथाऽऽह गच्छ गच्छेति 168
मालाकारो रचयति 50 यथाऽऽह वरुणाविन्द्रौ 182
मालिनींशुकभृतः 75 यथैवशब्दौ सादृश्यं 80
मालोपमादिः सर्वोऽपि 84 यथेवानभिधानेऽपि 82
मुखं पद्ममिवेत्यत्र 177 यथैतच्छ्याममाभाति 184
मुख्यस्तावदयं न्यायो 179 यथोच्यतेऽम्भसा 182
मुनीनपि हरन्त्येते 60 यथोदितं बलभिदा 182
यतिर्मम पिता बाल्यात् 173 यथोपदेशं क्रमशो 168
यतिश्छन्दोऽधिरूढानां 169 यथोपपत्ति कृतिभिः 88
यत्किञ्चित्कान्तिसामान्यात् 88 यदभिन्नार्थमन्योन्यं 168
यत्नो विदितवेद्येन 7 यदलङ्घितमर्यादाः 146
यत्नोऽस्यां कविना कार्यः 118 यदि काव्यशरीरस्य 20
यत्र तेनैव तस्य स्यात् 155 यदि गौरित्ययं शब्दः 180
यत्र दृष्टान्तमात्रेण 177 यदि चोत्कण्ठया यत्तत् 42
यत्रोक्ते गम्यतेऽन्योऽर्थः 113 यदि वोपेक्षितं तस्य 170
यथा कमलपलाक्षी 81 यदुक्तं त्रिप्रकारत्वं 84
यथाजिह्वदित्यादि 47 यदुप्रवीरः प्रगृहीतशार्ङ्गः 86
यथा तद्वदसाधीयः 49 यहच्छाशब्दमप्यन्ये 181
यथा पटयतीत्यादि 182 यस्यातिशयवानर्थः 93
यथाऽभितो वनाभोगं 176 या देशे द्रव्यसंभूतिः 169
यथा मन्दारकुसुम 51 या विशेषाभिधानाय 145

INDEX 209
Page Page
न्यां वदत्युपमामेतत् 150 ल्युट् च कर्तृविषयं 183
युक्तं लोकस्वभावेन 16 वक्त्रकान्तीक्षणगति 123
युक्तं वक्रस्वभावोक्त्या 30 वक्त्रं चापरवक्त्रं च 24
युक्त्याऽनया मृध्यमया 55 वक्रवाचां कवीनां ये 181
युगादौ भगवान्ब्रह्मा 95 वक्राभिधेयशब्दोक्तिः 35
येनागोप्रतिषेधाय 180 वक्ष्यमाणोक्तविषयः 105
रचिता रत्नमालेव 158 वतिनापि क्रियासाम्यं 81
रतिखेदपरिश्रान्ता 183 वदेदिमनिजन्तं च 184
-रत्नवत्त्वादगाधत्वात् 141 वनेऽथ तस्मिन् 102
रथाङ्गशुले बिभ्राणौ 169 वरा विभूषा संसृष्टिः 158
-रसवद्दर्शितस्पष्ट 131 वर्णभेदादिदं भिन्नं 180
रहिता सत्कवित्वेन 4 वर्णानां क्रमवृत्तित्वात् 179
राज्याय पुनरुत्तस्थौ 175 वर्णानां यः पुनर्वादो 64
रामप्रसक्त्यै यान्तीनां 134 वहन्ति गिरयो मेघान् 109
रामः सप्ताभिनत्सालान् 148 वाक्काटवाद्यश्चेति 45
रुणद्धि रोदसी चास्य 6 वाक्यमित्याहुरपरे 167
रूपकादिमलंकारं 11 वाचां वक्रार्थशब्दोक्तिः 178
रूपकादिरलंकारः 10 वासःशङ्खानुपादानात् 87
रूपकार्थेन च पुनः 157 वासाय वासरः क्रान्तो 157
रूपादीनां यथा द्रव्यं 175 विचित्रबर्हाभरणाश्च 103
रोदितिस्वपितीत्यादि 184 विजहुस्तस्य ताः शोकं 40
-लक्षणं रूपकेऽपीदं 137 विजिगीषुमुपन्यस्य 170
लक्ष्म प्रयोगदोषाणां 175 विज्ञानमात्रसादृश्यात् 172
-लाटीयमप्यनुप्रासं 55 विड्वर्चोविष्ठितक्लिन्न 45
लिङ्गत्रयोपपन्नं च 183 विदधानौ किरीटेन्दू 169
-लोके युक्तिः कलाश्चेति 7 विदूरदेशानपि वः 145
15

210 BHĀMAHĀLAṄKĀRA
Page Page
विद्यानां सततमपाश्रयो 184 वृत्तमाख्यायते तस्यां 24
विद्युत्वन्तस्तमाला 169 वृद्धिपक्षं प्रयुञ्जीत 181
विधिर्नाभिगतोऽन्यैस्तु 97 वृद्धिमायान्ति यामिन्यः 152
विनयेन विना का श्रीः 4 वेणुदाकेरिति च तां 38
विनश्वरोऽस्तु नित्यो वा 180 वैदर्भमन्यदस्तीति 31
विना पुरुषकारेण 147 वैपरीत्याद्विपर्यासं 177
विना यथेवशब्दाभ्यां 81 व्यतिरेकं तमिच्छन्ति 110
विन्ध्यं महानिव घनः 163 व्यवहाराय लोकस्य 180
विपक्षस्तद्विसदृशो 174 व्यालवन्तो दुरारोहा 168
विपर्यस्तं तथैवाहुः 170 शक्रचापग्रहादत्र 87
विरहितरमणीको 169 शङ्खव्राताकुलोऽन्तस्ति 178
विरुद्धपदमस्वर्थं 178 शतहृदेन्द्रायुधवान् 98
विरुद्धार्थं मतं व्यर्थं 167 शतांशेनापि भवता 148
विरुद्धेनोपमानेन 77 शपथैरपि चादेयं 180
विलक्ष्मणा हि काव्येन 9 शबलादिभ्योऽतितरां 183
विलोक्यान्त्यनिबन्धांश्च 9 शब्दन्यायानुपारूढः 37
विवादास्पदधर्मेण 173 शब्दरत्नं स्वयं गम्यं 179
विशिष्टस्य यदादानं 152 शब्दश्छन्दोऽभिधानार्थाः 7
विशेषप्रथनायासौ 143 शब्दहीनं यतिभ्रष्टं 167
विशेषं वेद बालोऽपि 171 शब्दानाकुलता चेति 161
विशेषेण च तत्रेष्टा 183 शब्दाभिधेयालङ्कार 12
विशेषेणेयमुन्निद्रो 184 शब्दाभिधेये विज्ञाय 9
विषमा भूस्ततस्तेभ्यः 168 शब्दार्णावस्य यदि 184
विषमोपलभिन्नोर्मि 94 शब्दार्थौ सहितौ काव्यं 13
विहायोपनतं राज्यं 135 शमयन्ति क्षितेस्तापं 141
वृत्तदेवादिचरित 15 शरा दृढधनुर्मुक्ता 171

INDEX 209
Page Page
न्यां वदत्युपमामेतत् १५० ल्युटं च कर्तृविषयं १८३
युक्तं लोकस्वभावेन १६ वक्त्रकान्तीक्षणगति १२३
युक्तं वक्रस्वभावोक्त्या ३० वक्त्रं चापरवक्त्रं च २४
युक्त्याऽनया मध्यमया ५५ वक्रवाचां कवीनां ये १८१
युगादौ भगवान्ब्रह्मा ९५ वक्राभिधेयशब्दोक्तिः ३५
येनागोप्रतिषेधाय १८० वक्ष्यमाणोक्तविषयः १०५
रचिता रत्नमालेव १५८ वतिनापि क्रियासाम्यं ८१
रतिखेदपरिश्रान्ता १८३ वदेदिमनिजन्तं च १८४
रत्नवत्त्वादगाधत्वात् १४१ वनेऽथ तस्मिन् १०२
रथाङ्गशूले बिभ्राणौ १६९ वरा विभूषा संसृष्टिः १५८
रसवद्दर्शितस्पष्ट १३१ वर्णभेदादिदं भिन्नं १८०
रहिता सत्कवित्वेन ४ वर्णानां क्रमवृत्तित्वात् १७९
राज्याय पुनरुत्तस्थौ १७५ वर्णानां यः पुनर्वादो ६४
रामप्रसक्त्यै यान्तीनां १३४ वहन्ति गिरयो मेघान् १०९
रामः सप्ताभिनत्सालान् १४८ वाक्राटवादयश्चेति ४५
रुणद्धि रोदसी चास्य ६ वाक्यमित्याहुरपरे १६७
रूपकादिमलंकारं ११ वाचां वक्रार्थशब्दोक्तिः १७८
रूपकादिरलंकारः १० वासःशब्दानुपादानात् ८७
रूपकार्थेन च पुनः १५७ वासाय वासरः श्रान्तो १५७
रूपादीनां यथा द्रव्यं १७५ विचित्रबर्हाभरणाश्च १०३
रोदितिस्वपितीत्यादि १८४ विजहुस्तस्य ताः शोकं ४०
लक्षणं रूपकेऽपीदं १३७ विजिगीषुरुपन्यस्य १७०
लक्ष्म प्रयोगदोषाणां १७५ विज्ञानमात्रसादृश्यात् १७२
लाटीयमप्यनुप्रासं ५५ विद्वचोविष्ठितक्लिन्न ४५
लिङ्गत्रयोपपन्नं च १८३ विदधानौ किरीटेन्दू १६९
लोको युक्तिः कलाश्चेति ७ विदूरदेशानपि वः १४५
15

२१० BHĀMAHĀLAṄKĀRA
Page Page
विद्यानां सततमपाश्रयो 184 वृत्तमाख्यायते तस्यां 24
विद्युत्वन्तस्ततमाला 169 वृद्धिपक्षं प्रयुञ्जीत 181
विधिर्नाभिगतोऽन्यैस्तु 97 वृद्धिमायान्ति यामिन्यः 152
विनयेन विना का श्रीः 4 वेणुदाकेरिति च तां 38
विनश्वरोऽस्तु नित्यो वा 180 वैदर्भमन्यदस्तीति 31
विना पुरुषकारेण 147 वैपरीत्याद्विपर्यासं 177
विना यथैवशब्दाभ्यां 81 व्यतिरेकं तमिच्छन्ति 110
विन्ध्यं महानिव घनः 163 व्यवहाराय लोकस्य 180
विपक्षस्तद्विसदृशो 174 व्यालवन्तो दुरारोहा 168
विपर्यस्तं तथैवाहुः 170 शक्रचापग्रहादत्र 87
विरहितरमणीको 169 शङ्खव्राताकुलोऽन्तस्ति 178
विरुद्धपदमस्वर्थं 178 शतहृदेन्द्रायुधवान् 98
विरुद्धार्थं मतं व्यर्थं 167 शतांशेनापि भवता 148
विरुद्धेनोपमानेन 77 शपथैरपि चादेयं 180
विलक्षणा हि काव्येन 9 शबलादिभ्योऽतितरां 183
विलोक्यान्थनिबन्धांश्च 9 शब्दन्यायानुपारूढः 37
विवादास्पदधर्मेण 173 शब्दरत्नं स्वयं गम्यं 179
विशिष्टस्य यदादानं 152 शब्दश्छन्दोऽभिधानार्थाः 7
विशेषप्रथनायासौ 143 शब्दहीनं यतिभ्रष्टं 167
विशेषं वेद बालोऽपि 171 शब्दानाकुलता चेति 161
विशेषेण च तत्रेष्टा 183 शब्दाभिधेयालङ्कार 12
विशेषेयमुच्छिष्टो 184 शब्दाभिधेये विज्ञाय 9
विषमा भूभृतस्तेभ्यः 168 शब्दार्णवस्य यदि 184
विषमोपलभिन्नोर्मि 94 शब्दार्थौ सहितौ काव्यं 13
विहायोपनतं राज्यं 135 शमयन्ति क्षितेस्तापं 141
वृत्तदेवादिचरित 15 शरा दृढधनुर्मुक्ता 171